भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.14-5

2.14-5.1

॥ अथ सुमत्याख्यद्विजवृत्तान्तः ॥
॥ श्रीसूत उवाच ॥ ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
स्वामितीर्थस्य माहात्म्यं भूयोऽपि प्रवदाम्यहम्

2.14-5.2

पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥
पीतवान्पुष्करिण्यां स स्नात्वा पापाद्विमोचितः

2.14-5.3

॥ ऋषय ऊचुः ॥ ॥
सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ॥
कथं किरात्यासक्तोऽभूत्सूत पौराणिकोत्तम

2.14-5.4

सर्वेषां विस्तरादेतद्वद त्वं कृपयाधुना

2.14-5.5

॥ श्रीसूत उवाच ॥ ॥
महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥
यज्ञदेव इति ख्यातो वेदवेदांगपारगः

2.14-5.6

दयालुरातिथेयश्च शिवनारायणार्चकः ॥
सुमतिर्नामपुत्रोऽभूद्यज्ञदेवस्य तस्य वै

2.14-5.7

पितरं स परित्यज्य भार्यामपि पतिव्रताम् ॥
प्रययावुत्कले देशे विटगोष्ठीपरायणः

2.14-5.8

काचित्किराती तद्देशे वसन्ती युवमोहनी ॥
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम्

2.14-5.9

तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥
सुमतिं सा च जग्राह किराती निर्धनं द्विजम्

2.14-5.2.1.14.10

॥अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः ॥
तया युक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम्

2.14-5.11

दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः॥
एकेन चषकेणासौ तया सह सुरां पपौ

2.14-5.12

एवं स बहुकालं वै रममाणस्तया सह ॥
पितरौ निजपत्नीं च नास्मरद्विषयातुरः

2.14-5.13

स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषभृत्

2.14-5.14

ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ॥
तद्गृहस्वामिनं विप्रं हत्वा खङ्गेन साहसात्

2.14-5.15

समादाय बहु द्रव्यं किरातीभवनं ययौ ॥
तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी

2.14-5.16

नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी

2.14-5.17

अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ॥
एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम्

2.14-5.18

स्वग्रामं प्रययौ भीत्या विप्रबन्धुर्दुरात्मवान्॥
अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति

2.14-5.19

ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥
पितरं रक्षरक्षेति सुमतिः शरणं ययौ

2.14-5.2.1.14.20

मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥
तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत

2.14-5.21

॥ ब्रह्महत्योवाच॥ ॥
मैव त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ॥
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी

2.14-5.22

मातृद्रोही पितृद्रोही भार्यात्यागी च पातकी ॥
किरातीसंगदुष्टश्च ह्येनं मुंच दुरात्मकम्

2.14-5.23

गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ॥
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज

2.14-5.24

भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ॥
इमं त्यजसि चेत्पुत्रं युष्मान्मुचांमि सांप्रतम्॥

2.14-5.25

नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम्

2.14-5.26

॥ यज्ञदेव उवाच ॥ ॥
बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥
ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत

2.14-5.27

॥ ब्रह्महत्योवाच ॥ ॥
अयं हि पतितो भूत्वा वर्णाश्रम बहिष्कृतः ॥
पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं चास्य दर्शनम्

2.14-5.28

इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ॥
तलेन प्रजहारास्य पुत्रं सुमतिनामकम्

2.14-5.29

रुरोद ताततातेति पितरं प्रब्रुवन्मुहुः

2.14-5.2.1.14.30

॥ अथ सुमतिं प्रति दुर्वासः कथित ब्रह्महत्यामुक्त्युपायः ॥ ॥
रुरु दुर्जनको माता भार्यापि सुमतेस्तदा ॥
एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशकः

2.14-5.31

दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ॥
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्

2.14-5.32

स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥
दुर्वासास्त्वं महायोगिन्साक्षाद्वै शंकरांशकः ॥

2.14-5.33

त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम

2.14-5.34

एनं प्रहर्तुमायाता ब्रह्महत्यापि वर्तते ॥
स्याद्यथा मे पुत्रोऽयं महापातकमोचितः

2.14-5.35

घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु

2.14-5.36

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥
अस्मिन्मृते तु वंशो मे समुच्छिद्येत मूलतः

2.14-5.37

ततः पितृभ्यः पिण्डानां दातापि न भवेद्ध्रुवम् ॥
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने

2.14-5.38

इत्युक्तः स तदोवाच दुर्वासाः शंकरांशकः ॥
ध्यात्वाथसुचिरं कालं यज्ञदेवं द्विजोत्तमम्

2.14-5.39

॥ दुर्वासा उवाच ॥ ॥
यज्ञदेवकृतं षापमतिदूर सुतेन ते ॥
नास्य पापस्य शातिः स्यात्प्रायश्चित्तायुतैरपि ॥

2.14-5.2.1.14.40

तथापि ते सुतस्याहं तस्य पापस्य शान्तये ॥
प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज

2.14-5.41

वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ॥
स्वामिपुष्करिणी चेति वर्तते मंगलप्रदा

2.14-5.42

॥ अथ सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्या विमुक्तिः ॥ ॥
स्नाति चेत्तव पुत्रोऽयं पातकान्मुच्यते क्षणात् ॥
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः

2.14-5.43

पुत्रमादाय सुमतिं स्वामिपुष्करिणींगतः ॥
स्नापयामास सुमतिं हत्यया पीडितं सुतम्

2.14-5.44

आकाशवाणी तं विप्रमुवाच मधुरस्वरा ॥
यज्ञदेव महाभाग स्नानेनानेन सुव्रत

2.14-5.45

पूतोऽभवत्तव सुतः संशयं मा कृथा द्विज ॥
एवंप्रभावं तत्तीर्थं पापवृक्षकुठारकम्

2.14-5.46

एवं वः कथितं विप्रा इतिहासं पुरातनम्॥
शृण्वतां पठतां चापि वाजपेयफलं लभेत्

2.14-5.14

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये स्वामिपुष्करिणीतीर्थमहिमानुवर्णनंनाम चतुर्दशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc