भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.13

2.13.1

॥ सूत उवाच ॥ ॥
श्रियः पतिमथामंत्र्य गते देवर्षिसत्तमे ॥
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत्

2.13.2

॥ सत्यभामोवाच ॥ ॥
धन्यास्मि कृतकृत्याऽस्मि सफलं जीवितं मम ॥
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया

2.13.3

येनाऽहं मर्त्यजा देव तवांगार्द्धहराऽभवम् ॥
भवांतरे च किंशीला काचाऽहं कस्य कन्यका ॥
तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम्

2.13.4

॥ श्रीकृष्ण उवाच ॥ ॥
शृणुष्वैकमना कांते यथा त्वं पूर्वजन्मनि

2.13.5

पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते ॥
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः

2.13.6

आत्रेयो देवशर्मेति वेदवेदांगपारगः ॥
तस्यातिवयसश्चाऽऽसीन्नाम्ना गुणवती सुता

2.13.7

अपुत्रः स स्वशिष्याय चंद्रनाम्ने ददौ सुताम्॥
तमेव पुत्रवन्मेने स च तं पितृवद्वशी

2.13.8

तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ ॥
निहतौ रक्षसा तौ च कृतांतसमरूपिणा

2.13.9

स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ ॥
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ

2.13.2.4.13.10

पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् ॥
सा गृहोपस्करा न्सर्वान्विक्रीयाशु च कर्मं तत्

2.13.11

तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम् ॥
तस्मिन्नेव पुरे चक्रे वासं सा मृतजीविनी

2.13.12

व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम् ॥
एकादशीव्रतं सम्यक्सेवनं कार्तिकस्य च

2.13.13

इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत् ॥
कदाचित्सरुजा साऽथ कृशांगी ज्वरपीडिता

2.13.14

स्नातुं गंगां गता कांते कथंचिच्छनकैस्तदा ॥
यावज्जलांतरगता कंपिता शीतपीडिता ॥

2.13.15

तावत्सा विह्वलाऽपश्यद्विमानं यातमंबरात् ॥
अथ सा तद्विमानस्था वैकुण्ठभुवनं ययौ

2.13.16

कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत् ॥
अथ ब्रह्मादिदेवानां यदा प्रार्थनया भुवम्

2.13.17

आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह ॥
एते हि यादवाः सर्वे मद्गणा एव भामिनि

2.13.18

पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम् ॥
यश्चंद्रनामाऽसोऽक्रूरस्त्वं सा गुणवती शुभा

2.13.19

कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी ॥
मद्द्वारि यत्त्वया पूर्वं तुलसीवाटिका कृता

2.13.2.4.13.20

तस्मादयं कल्पवृक्षस्तवांगणगतः शुभे ॥
आजन्ममरणात्पूर्वं यत्कृतं कार्तिकव्रतम्

2.13.21

कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि ॥
॥ सत्योवाच ॥ ॥
मासानां तु कथं नाम स मासः कार्तिको वरः

2.13.22

प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् ॥
॥ श्रीकृष्ण उवाच ॥ ॥
साधु पृष्टं त्वया कांते शृणुष्वैकाग्रमानसा

2.13.23

पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च ॥
एवमेव पुरा पृष्टो नारदः पृथुनाब्रवीत्

2.13.24

॥ नारद उवाच ॥ ॥
शंखनामाऽभवत्पूर्वमसुरः सागरात्मजः ॥
इन्द्रादिलोकपालानामधिकाराञ्जहार ह

2.13.25

सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः ॥
तद्वीक्षयांबभूवुस्ते तदा दैत्यो व्यचारयत्

2.13.26

हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ॥
लक्ष्यंते बलयुक्तास्ते करणीयं मयाऽत्र किम्

2.13.27

ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः ॥
तान्हरिष्ये ततः सर्वे बलहीना भवंति वै

2.13.28

इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्॥
सत्यलोकाज्जहाराशु वेदानादिस्वयंभुवः

2.13.29

नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ॥
तोयानि विविशुर्यज्ञमंत्रबीजसमन्विताः

2.13.2.4.13.30

तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ॥
न ददर्श तदा दैत्यः क्वचिदेकत्र संस्थितान् ॥
अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह ॥

2.13.31

॥ विष्णुरुवाच ॥ ॥
वरदोऽहं सुरगणा गीतवाद्यादिमंगलैः

2.13.32

ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः ॥
अतश्चैषा तिथिर्मान्या साऽतीव प्रीतिदा मम

2.13.33

वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ॥
तानानयाम्यहं देवा हत्वा सागरनंदनम्

2.13.34

अद्यप्रभृति वेदास्तु मंत्रबीजसमन्विताः ॥
प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा

2.13.35

कालेऽस्मिन्ये प्रकुर्वंति प्रातःस्नानं नरोत्तमाः ॥
ते सर्वे यज्ञाऽवभृथैः सुस्नाताः स्युर्न संशयः

2.13.36

अद्यप्रभृत्यहमपि भवामि जलमध्यगः ॥
भवन्तोऽपि मया सार्द्धमायांतु समुनीश्वराः

2.13.37

कातिकव्रतिनां चेंद्र रक्षा कार्या त्वया सदा ॥
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ॥
खात्पपात जले विंध्यवासिनः कस्य पश्यतः

2.13.38

हत्वा शंखासुरं विष्णुर्बदरीवनमागमत् ॥
तत्राऽऽहूय ऋषीन्सर्वानिदमाज्ञापयत्प्रभुः

2.13.39

विष्णुरुवाच ॥ ॥
जलांतरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ ॥
आनयध्वं च त्वरिताः सागरस्य जलांतरात् ॥
तावत्प्रयागं तिष्ठामि देवतागणसंयुतः॥

2.13.2.4.13.40

॥ नारद उवाच ॥ ॥
ततस्तैस्सर्वमुनिभिस्तपोबलसमन्वितैः

2.13.41

उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः ॥
तेषु यावन्मितं येन लब्धं तावद्धि तस्य तत्

2.13.42

स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव ॥
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः

2.13.43

विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ॥
लब्ध्वा वेदान्समग्रांस्तु ब्रह्मा हर्षसमन्वितः

2.13.44

अयजद्वाजिमेधेन देवर्षिगणसंयुतः ॥
यज्ञांऽते देवताः सर्वे विज्ञप्तिं चक्रुरंजसा

2.13.45

॥ देवा ऊचुः ॥ ॥
देवदेव जगन्नाथ विज्ञप्तिं शृणु नः प्रभो ॥
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव

2.13.46

स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम् ॥
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते

2.13.47

स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम् ॥
भुक्तिमुक्तिप्रदं चाऽस्तु प्रसादाद्भवतः सदा

2.13.48

कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्॥
दत्ताऽक्षयकरं चाऽस्तु वरमेवं ददस्व नः

2.13.49

॥ विष्णुरुवाच ॥ ॥
ममाप्येतद्वृतं देवा यद्भवद्भिरुदाहृतम् ॥
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम्

2.13.2.4.13.50

सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ॥
सा सूर्यकन्यया चात्र कालिंद्या योगमेष्यति

2.13.51

यूयं च सर्वे ब्रह्माद्या निवसंतु मया सह ॥
तीर्थराजेति विख्यातं तीर्थमेतद्भविष्यति

2.13.52

सर्वपापानि नश्यंति तीर्थराजस्य दर्शनात् ॥
सूर्ये मकरगे प्राप्ते स्नायिनां पापनाशनः

2.13.53

कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ॥
सालोक्यादिफलं स्नानैर्माघे मकरगे रवौ

2.13.54

॥
॥ नारद उवाच ॥ ॥
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्धानमागात्सवेधाः ॥
देवाः सर्वेप्यंशकैस्तेऽप्यतिष्ठंश्चांतर्धानं प्रापुरिंद्रादयस्ते

2.13.55

167अ
कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम् ॥
भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं व्रजेत्

2.13.13

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये सत्यभामापूर्वजन्मवृत्तांतकथनपूर्वक प्रयागतीर्थप्रशंसाप्रसंगवर्णनंनाम त्रयोदशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc