भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.12-2

2.12-2.1

॥ जैमिनिरुवाच ॥ ॥
उक्ते ब्रह्मसुतेनेत्थमिंद्रद्युम्नो महीपतिः॥
मुनेस्तुवचनं श्रुत्वा प्रहृष्टेनांतरात्मना ॥
विचार्य परया बुद्ध्या श्रमं मेने फलावहम्

2.12-2.2

अहो मे परमं भाग्यं बहुजन्मांतरार्जितम्॥
व्यवसाये ममोद्युक्तः सर्वलोकपितामहः

2.12-2.3

जीवन्मुक्तं स्वतनुजं मत्सहायमकारयत् ॥
सहायो यादृशः पुंसां भवेत्कार्यं हि तादृशम्

2.12-2.4

श्रुतं सभासु सर्वासु इति वृद्धानुशासनम् ॥
स इत्थं चिंतयन्राजा विसृज्य च सभासदः

2.12-2.5

ततो मुनिं करे धृत्वा विवेशांतःपुरे द्विजाः ॥
तमर्चयित्वा विधिवत्पल्यंके सह तेन वै

2.12-2.6

निशावशेषं नृपतिर्निनाय संलपन्मिथः ॥
ततः प्रभाते विमले नित्यं कर्म समाप्य वै

2.12-2.7

पूजयित्वा जगन्नाथं संततार महानदीम् ॥
ओढ्रदेशाधिपेनाग्रे गच्छतादिष्टपद्धतिः

2.12-2.8

एकाम्र वनकं क्षेत्रमभियातो बलान्वितः ॥
स गत्वा किंचिदध्वानं प्राप्य गंधवहाभिधाम्

2.12-2.9

नदीं वेगवतीं शीततोयामाक्रम्य वेगवान् ॥
पूर्वाह्नपूजासमये कोटिलिंगेश्वरस्य वै

2.12-2.2.2.12.10

चर्चरीशंखकाहालमृदंगमुरजध्वनिम् ॥
व्यश्नुवानं महारण्यं दूराच्छुश्राव भूपतिः

2.12-2.11

मन्यमानो भगवतो नीलाचल निवासिनः ॥
उवाच नारदं प्रीतो ध्वनिः कुत्र महामुने

2.12-2.12

नीलाद्रिशिखरावासः प्राप्तः किं परमेश्वरः ॥
यदर्चासमये ह्येष श्रूयते संकुलध्वनिः

2.12-2.13

उताहोप्यन्यदेवो वा निकटे वर्त्तते मुने ।
इति पृष्टस्तदा राज्ञा प्रोवाच मुनिपुंगवः

2.12-2.14

राजन्सुदुर्लभं क्षेत्रं गोपितं मुरवैरिणा ॥
न तत्रास्तीति भगवान्कैरपि ज्ञायते नृभिः

2.12-2.15

त्वं हि भाग्यवतां श्रेष्ठस्त्वद्भाग्यात्ते पुरोधसा ॥
दृष्टः कथंचिद्भगवान्संयतेंद्रियवर्त्मना

2.12-2.16

त्वं हि तावद्बलैर्युक्तः षडंगैनृपसत्तम ॥
साहसेऽतिप्रवृत्तोऽसि संशयो मे महीपते

2.12-2.17

संवर्त्तते नीलगिरिर्योजने तु तृतीयके ॥
इदं त्वेकाम्रकवनं क्षेत्रं गौरीपतेर्विभोः ॥
नातिदूरे महीपाल भीतः स शरणागतः

2.12-2.18

॥ इंद्रद्युम्न उवाच ॥ ॥
कथं स भीतो गौरीशः कं वा शरणमागतः

2.12-2.19

ददाह त्रिपुरं घोरं शरेणैकेन यः पुरा ॥
अत्र मे विस्मयो जातः श्रोतुमिच्छामि दुर्लभम्

2.12-2.2.2.12.20

रक्षिता भवभीतानां भवः परमपावनः ॥
किमर्थं भयभीतोऽसौ कः समर्थोऽस्य वै जये

2.12-2.21

॥ नारद उवाच ॥ ॥
अत्र ते कथयिष्यामि पुरावृत्तं महीपते ॥
उपयेमे पुरा गौरीं तपसा वशमागतः

2.12-2.22

ब्रह्मचारी हिमगिरौ भगवान्नीललोहितः ॥
उत्सृज्य ब्रह्मचर्यं तु सोऽनंगशरपीडितः

2.12-2.23

तया रेमे रुचिरया यौवनोन्मत्तया नृप ॥
तत्पितुर्विषये भोगान्बुभुजे देवकांक्षितान्

2.12-2.24

कदाचिदथ निर्याती स्ववासभवनात्सती ॥
सामपूर्वं कुलस्त्रीभिर्मात्रोक्ता सस्मितं वचः

2.12-2.25

आर्ये महत्तपस्तप्तं वरार्थं गहने वने ॥
निष्कुलो निर्गुणो वृद्धो वरः प्राप्तो वरानने

2.12-2.26

दिवारात्रिं न त्यजसि सन्निधिं तादृशस्य वै ॥
को गुणः कथ्यतां वत्से किं वा पत्युः प्रसादजम्

2.12-2.27

भूषणाच्छादनं प्राप्तं ममैव गृहवासिनी ॥
चिरं तिष्ठसि भद्रे त्वं पितृभोगोपलालिता

2.12-2.28

त्रैलोक्ये यास्तु कन्या वै परिणीताः पितुर्गृहात्॥
प्रयात्यलंकृताभर्त्रा भर्तृवेश्मनि शुश्रुम

2.12-2.29

अहं तु मानसी कन्या पितृणां पितृलोकतः ॥
आगता तु महाभागे परिणीता हिमाद्रिणा

2.12-2.2.2.12.30

इत्थमुक्ता मया हास्यान्न क्रोधाच्चललोचने ॥
जामातुरग्रे नो वाच्यं स हि विष्णुसमो मतः

2.12-2.31

॥ नारद उवाच ॥ ॥
मातुरित्थं वचः श्रुत्वा भर्तृनिंदाप्रपीडिता ॥
कोपप्रस्फुरदोष्ठी सा वाचं नोचे मनागपि

2.12-2.32

प्रययावंतिकं भर्तुर्निह्नु(ह्रु?)वानांऽबिकावचः ॥
जगाद परुषं वाक्यं स्नेहगर्भं मिताक्षरम्

2.12-2.33

स्वामिन्न सांप्रतं चैतद्यद्वासः श्वशुरालये ॥
क्षौद्रीयसामपि गुरोस्त्रैलोक्यस्य कथं नु ते

2.12-2.34

तदावयोर्नात्र योग्या वसतिर्मे प्रिया विभो ॥
न संति किं ते वासाय योग्या वै भूमयः प्रभोः

2.12-2.35

इत्युक्तः शिवया सोऽथ भगवान्वृषभध्वजः ॥
तया सार्द्धं वृषारूढो मध्यदेशं ययौ त्वरन्

2.12-2.36

विलंघ्य सर्व तीर्थानि प्रयागं पावनं महत् ॥
पूर्वसागरगामिन्या गंगाया उत्तरे तटे

2.12-2.37

वाराणसीं नाम पुरीं गौर्या वासाय निर्ममे ॥
पंचक्रोशमितां रम्यां वरप्रासादशोभिताम्

2.12-2.38

अट्टालकशतैर्युक्तामसंख्योपवनैर्युताम् ॥
नानातीर्थसमायुक्तां नानाजनसमाकुलाम्

2.12-2.39

आज्ञया धूर्जटेः शुभ्रां निर्मितां विश्वकर्मणा ॥
पावनैः शीतलैर्गंगातरंगैः क्षपितांहसाम्

2.12-2.2.2.12.40

तत्र मध्ये पुरे स्वर्णप्राकाराट्टालशोभिते ॥
रत्नस्तंभैः सुघटिते सर्वाशापरिपूरके

2.12-2.41

तया रेमे पशुपतिः श्रियेव मधुसूदनः ॥
सा पुरी विश्वनाथेन कदाचिन्नैव मुच्यते

2.12-2.42

अविमुक्तेति सा ख्याता नृणां मुक्तिप्रदायिनी॥
पुरासीन्मनुजाधीश सेविता भवभीरुभिः

2.12-2.43

तत्रोषिता तदा गौरी तेन भर्त्रा स्वलंकृता॥
मातरं पितरं चापि न सस्मार महीपते ॥

2.12-2.44

एवं बहुयुगेऽतीते कैलासाद्रिं स जग्मिवान् ॥
आत्मनः कोटिलिंगानि तत्र संस्थाप्य वै प्रभुः

2.12-2.45

राजानः पालयामासुस्तां पुरीं बहुशो नृप॥
तत्रासीत्काशिराजाख्यः पुरा द्वापरके युगे

2.12-2.46

शंभुं संतोषयामास तपसोग्रेण वै प्रभुम्॥
जरासन्धपुरोगाणां राज्ञां जेतारमच्युतम्

2.12-2.47

संग्रामे प्रभविष्यामीत्यभिसंधाय पार्थिवः॥
प्रादात्तस्मै वरं सोऽपि पिनाकी पारितोषितः

2.12-2.48

जेतासि कंसहंतारं संग्रामे त्वमरिंदम॥
तवार्थे प्रमथैः सार्द्धमहं योत्स्ये वृषे स्थितः

2.12-2.49

शंभोरिति वरं लब्ध्वा प्रमत्तः स नराधिपः ॥
शंखचक्रधरं संख्ये हरिमाह्वत वीर्यवान्

2.12-2.2.2.12.50

अन्तर्यामी स भगवाञ्ज्ञात्वा वृत्तांतमीदृशम् ॥
चक्रं प्रस्थापयामास काशिराजस्य सूदने

2.12-2.51

तदुग्रदर्शनं चक्रं सहस्रादित्यवर्चसम् ॥
काशिराजशिरश्छित्त्वा तद्बलं तां पुरीं ततः

2.12-2.52

ददाह कुपितं राजन्विष्णोराशयवीर्यवित् ॥
तद्दृष्ट्वा सुमहत्कर्म क्रुद्धः पशुपतिस्तदा

2.12-2.53

गणैर्वृतो वृषारूढः पिनाकी तदुपाद्रवत् ॥
ततः सुदर्शनं चक्रं दृष्ट्वा तं प्रथमं पुरः

2.12-2.54

शंभुः पाशुपतास्त्रं तच्चकारोत्पातसन्निभम् ॥
पुरा विष्णोर्वरं प्राप्तं शंभुना भक्तितोषितात्

2.12-2.55

बलेनाप्याययिष्यामि तवास्त्रं संस्मृतस्त्वया ॥
मयि चेत्प्रतिकूलस्त्वं भविष्यति च निष्प्रभम्

2.12-2.56

घोरे पाशुपते चास्मिन्नस्त्रे च विफलीकृते ॥
वाराणस्यां च दग्धायां भयत्रस्तो वृषध्वजः

2.12-2.57

तुष्टाव जगतामदिमनादिं पुरुषोत्तमम्

2.12-2.58

॥
॥ महादेव उवाच ॥ ॥
नारायण परंधाम परमात्मन्परात्पर ॥
सच्चिदानन्दविभव निरञ्जन नमोऽस्तु ते

2.12-2.59

जगत्कारणसृष्ट्यादि कर्मकृद्गुणभेदतः ॥
मायया निजया गुप्त स्वप्रकाश नमोऽस्तु ते

2.12-2.2.2.12.60

नांतर्बहिर्बहिश्चांतर्दूरस्थो निकटाश्रयः ॥
गुरुर्लघुः स्थिरोऽणीयान्स्थवीयांश्च नमोऽस्तु ते

2.12-2.61

कोटयश्चतुरास्यस्य पलार्द्धं मम चातुल ॥
यदपांगविलासोत्थं तस्मै कालात्मने नमः

2.12-2.62

एकैकरोमाकलितब्रह्माण्डगणसंवृतम् ॥
मानातीतं वपुर्यस्य तस्मै विश्वात्मने नमः

2.12-2.63

स्वकालपरिमाणेन वेधसः प्रलयोद्भवौ ॥
मन्वंतरादिघटनाकलनाय नमोऽस्तु ते

2.12-2.64

सृष्टोऽहं तमसा नाथ त्वत्प्रभावानभिज्ञकः ॥
तत्क्षमस्वापराधं मे त्राहि मां शरणागतम्

2.12-2.65

स्तुतिमित्थं प्रकुर्वाणे तस्मिंस्त्रिपुरदाहिनि ॥
चक्ररूपं परित्यज्य आविरासीदधोक्षजः

2.12-2.66

प्रसन्नवदनः श्रीमाञ्छंखचक्रगदाधरः ॥
तार्क्ष्यपद्मासनगतो वनमालाविभूषणः

2.12-2.67

हारकुण्डलकेयूरमुकुटादिभिरुज्ज्वलः ॥
वामोत्संगगतां लक्ष्मीं सत्यां दक्षिणपार्श्वगाम्

2.12-2.68

बिभ्राणः कृष्णजीमूतकांतदेहं कृपाम्बुधिः ॥
क्रोधाविष्ट इवोवाच बिभ्यतं गिरिजापतिम्

2.12-2.69

॥ श्रीभगवानुवाच ॥ ॥
कालेनैतावता शंभो दुर्बुद्धिः कथमागता ॥
हेतोर्नृपतिकीटस्य मया योद्धुमुपस्थितः

2.12-2.2.2.12.70

कति वा मत्प्रभावास्ते नो ज्ञाता धूर्जटे त्वया ॥
सत्यं पाशुपतं तेऽस्त्रं दुर्जयं ससुरासुरैः

2.12-2.71

मत्क्रोधरूपं तच्चक्रं त्वामपि क्षमते न यत् ॥
मामवज्ञाय जगति भ्रमति त्वामृते हि कः

2.12-2.72

तपोभिर्बहुभिः पूर्वं मच्छरीरतयोर्जितः ॥
सांप्रतं चेच्चिरं रंतुं गौर्या सार्द्धमिहेच्छसि ।

2.12-2.73

पुरीं वाराणसीं चेमां यदीच्छसि चिरस्थिताम् ॥
मन्नाम्ना भुवि विख्यातं क्षेत्रं श्रीपुरुषोत्तमम्

2.12-2.74

दक्षिणस्योदधेस्तीरे नीलाचलविभूषितम् ॥
दशयोजनविस्तीर्णं यावद्विरजमण्डलम्

2.12-2.75

क्रमशः पावनं क्षेत्रं यावच्चित्रोत्पला नदी ॥
ततः प्रभृति यो देशो यावत्स्याद्दक्षिणार्णवः

2.12-2.76

पदात्पदाच्छ्रेष्ठतमो नीलाद्रिरपवर्गदः ॥
चतुर्देहस्थितोऽहं वै यत्र नीलमणीमयः

2.12-2.77

तस्योत्तरस्यां विख्यातं वनमेकाम्रकाह्वयम् ॥
पार्वत्या तत्र निवस निर्भयस्त्रिपुरांतक

2.12-2.78

सृजता सर्वलोकानां मन्निदेशात्स्वयंभुवा ॥
तत्रापि कोटिलिंगानां राजा त्वमभिषेक्ष्यसे

2.12-2.79

सर्वतीर्थमयं चेदं तीर्थं यन्मणिकर्णिकम् ॥
इहाहंकारमुत्सृज्य व्रज त्वं सपरिच्छदः

2.12-2.2.2.12.80

॥ नारद उवाच ॥ ॥
इत्युक्तो वासुदेवेन त्र्यंबको नतकन्धरः ॥
कृतांजलिपुटो भूत्वा प्रोवाच मधुसूदनम्

2.12-2.81

॥ महादेव उवाच ॥ ॥
देवदेव जगन्नाथ प्रणतार्तिहर प्रभो ॥
त्वदाज्ञापालनं श्रेयः कारणं मे जगत्पते

2.12-2.82

यत्तु मूढतया देव अवलेपः कृतो मया ॥
तवैवानुग्रहस्तत्र प्रभो चांचल्यकारणम् ॥

2.12-2.83

यदादिशसि देवेश प्रयाणं पुरुषोत्तमम् ॥
तन्मूर्ध्नि कृत्वा यास्यामि क्षेत्रं मुक्तिप्रदं शिवम्

2.12-2.84

अभिसंधिं कुरुष्वाद्य ममानुग्रहकारणम् ॥
पुरुषोत्तमं मम क्षेत्रं त्वमेव परिपालय

2.12-2.85

यथा पुनर्नेदृशं तद्विनाशमुपयास्यति ॥
इत्थमेतत्पुरा क्षेत्रं महादेवेन निर्मितम्

2.12-2.86

बलश्रीसहितं देवमर्चयन्पुरुषोत्तमम् ॥
अत्र साक्षादुमाकांतः स्थापितः परमेष्ठिना

2.12-2.87

वयं तत्र व्रजिष्यामो द्रक्ष्यामः पुरनाशनम् ॥
सुदृढांतस्तमःस्तोमभास्वंतं गिरिजापतिम्

2.12-2.88

यदेतच्छांभवं क्षेत्रं तमसो नाशनं परम् ॥
रजःप्रक्षालनं श्रेयः ख्यातं विरजमण्डलम्

2.12-2.89

सत्त्वोद्रिक्ततया ख्यातं मुक्तिदं पुरुषोत्तमम्॥
यावत्यन्यानि क्षेत्राणि मुक्तिदानि श्रुतानि ते

2.12-2.2.2.12.90

तानि सर्वाणि राजेंद्र ददते मुक्तिमत्र वै ॥
एतत्क्षेत्रं महाराज दुष्कृताविलचेतसाम्

2.12-2.91

न विश्वासपथं याति रहस्यं चक्रपाणिनः

2.12-2.92

॥ जैमिनिरुवाच ॥ ॥
नारदस्य वचः श्रुत्वा प्रहृष्टहृदयो नृपः॥
उवाच मुनिशार्दूलं विस्मयोत्फुल्ललोचनः ॥
साधु मे कथितं ब्रह्मन्क्षेत्रं परमपावनम्

2.12-2.93

यत्रोमापतिरास्तेऽसौ पालकः पुरुषोत्तमः ॥
अवश्यं तत्र गच्छामः पन्था यद्यपि वक्रभूः ॥
उद्दिष्टेष्टपरिप्राप्तौ यदिदं कारणं महत्

2.12-2.94

॥ जैमिनिरुवाच ॥ ॥
ततस्तौ मुनिभूपालौ मध्याह्नसमये द्विजाः ॥
प्रापतुः सबलौ क्षेत्रमेकाम्रवनसंज्ञकम्

2.12-2.95

बिंदुतीर्थे नृपः स्नात्वा तीरस्थं पुरुषोत्तमम् ॥
संपूज्य विधिवद्यातः कोटीश्वरमहालयम्

2.12-2.96

तद्वारि सम्यगाचांतस्तत्प्रीत्यै सुबहूनि सः ॥
गजाश्वधनरत्नानि वस्त्रालंकरणानि च

2.12-2.97

द्विजेभ्यः प्रददौ राजा सात्त्विकं धर्ममास्थितः ॥
लिंगं त्रिभुवनेशं तं महास्नानेन पूजयन्

2.12-2.98

अतुलां प्रीतिमालेभे विष्णोरद्वैतदर्शनः ॥
स्तुत्वा प्रणम्य भक्त्यासौ वीणया चोपगाय्य च

2.12-2.2.2.12.100

कृतांजलिपुटो देवप्रसादनकृतोद्यमः ॥
अनन्यमनसा तस्थौ चिंतयन्वृषभध्वजम् ॥ ।९९ ॥
ततः प्रसन्नो भगवांस्त्र्यंबकः परमेश्वरः ॥
साक्षान्नृपमुवाचेदं स्पष्टाक्षरपदं द्विजाः

2.12-2.1

॥ कोटिलिंगेश उवाच ॥ ॥
इन्द्रद्युम्न महाराज वैष्णवस्त्वादृशो भुवि ॥
दुर्लभः खलु ते वांछा चिरात्सम्यग्भविष्यति

2.12-2.2

इत्युक्त्वांतर्दधे शंभुः पश्यतस्तु महीक्षितः॥
नारदं पुनराहेदं यदादिष्टं स्वयंभुवा

2.12-2.3

तत्कल्पय महाभाग वाजिमेधपुरःसरम् ॥
विष्णोः कलेवरे तस्मिन्क्षेत्रे श्रीपुरुषोत्तमे

2.12-2.4

अंतर्वेदी महापुण्या विष्णोर्हृदयसंनिभा ॥
तस्याः संरक्षणायाहं स्थापितो विष्णुनाष्टधा

2.12-2.5

शंखाकृतेरग्रभागे नीलकण्ठोऽहमास्थितः ॥
दुर्गया सह विप्रेंद्र तत्रेमं भूपतिं नय

2.12-2.6

अन्तर्हितः खल्विदानीं नीलरत्नतनुर्हरिः ॥
तत्र श्रीनरसिंहस्य क्षेत्रं कुरु मदाज्ञया

2.12-2.7

तत्र नः सन्निधौ वाजिमेधेन यजतामयम् ॥
सहस्रेण नृपश्रेष्ठ तदन्ते तरुमद्भुतम्

2.12-2.8

दर्शयैनं द्विजश्रेष्ठ ब्रह्मरूपमकल्मषम् ॥
चतस्रः प्रतिमास्तेन विश्वकर्मा घटिष्यति

2.12-2.9

तासां प्रतिष्ठितौ ब्रह्मा स्वयमेवागमिष्यति ॥
यथायं क्षीणपापः स्याद्वाजिमेधैर्यजन्हरिम्

2.12-2.2.2.12.110

तिष्ठत्वब्दसहस्रं वै तदंते लोकयिष्यति ॥
समस्तजगदाधारं सर्वकल्मषनाशनम्

2.12-2.11

दारवीं तनुमास्थाय दर्शनादपवर्गदम् ॥
न तस्य चरितं वेत्ति ब्रह्माऽहं त्वं च नारद

2.12-2.12

आज्ञानुष्ठानतो भक्त्या प्रसीदति स केवलम्॥
नारदोऽपि महादेवं प्रणिपत्य जगद्गुरुम्॥
उवाच प्रांजलिर्भूत्वा यदादिष्टं त्वया विभो

2.12-2.13

पितामहोऽपि मामित्थं निर्दिदेशास्य कल्पनम्॥
पितामहश्च त्वं नाथ नो भिन्नौ परमात्मनः

2.12-2.14

नृपतेरस्य भाग्यर्द्धिरीदृशी यत्कृते विभो।
अगोचरोऽसि मनसस्त्र्याणामप्यनुग्रहः

2.12-2.15

यत्प्रसंगेन तरणं भवाब्धेरपि दुष्कृताम् ॥
अचिंत्यमहिमा ह्येष भगवान्भूतभावनः

2.12-2.16

न बुद्धिगोचरे भक्तिर्यावत्या प्रीयते ह्यसौ ॥
चिरं यतंतस्तिष्ठंति वेदानुवचनादिभिः ॥
क्षुद्रोऽपि लभते मुक्तिमनायासेन कर्मणा

2.12-2.17

गव्योपजीव्या गोप्यस्तु वनचारगृहोषिताः ॥
अरण्यजीवनाः प्रापुर्मुक्तिं कामोपभोगतः

2.12-2.18

द्रुहन्निरंतरं प्राप शिशुपालः सभांतरे ॥
व्याधोः हृदयमाविध्य गतिं प्राप सुदुर्लभाम्

2.12-2.19

वस्त्राकर्षं गृहं नीत्वा कुब्जैनं बुभुजे पुरा ॥
यं ध्यानलयमापन्ना लभंते न सुरस्त्रियः

2.12-2.2.2.12.120

चंडालाय ददौ मुक्तिं दूरस्थायापि नो पुनः॥
आसन्नायातिभक्ताय श्रोत्रियाय पुरा विभुः

2.12-2.21

मायाभिर्वंचयेत्त्वां हि पितामहमपि प्रभुः॥
तिष्ठंति दुःखबहुलास्तपोभिर्देहबंधनाः

2.12-2.22

गौतमाद्या ब्रह्मचर्यनिष्ठाः कल्पान्तवासिनः॥
ईदृक्तादृक्परिच्छेदगोचरं नास्य चेष्टितम्

2.12-2.23

व्यवसायेन बहुना कालेन महता तथा॥
निर्णेतुं शक्यते नास्य चरितं वा सुमेधसः

2.12-2.24

उपाया बहवः संति ये शास्त्रपरिनिष्ठिताः ॥
विदुषां मोचनायेह बहुशस्तैर्यजंति वै

2.12-2.25

सर्वेषामुत्तमोपायो वसतिः पुरुषोत्तमे ॥
याऽवश्यं स्वामिसायुज्यं प्रापयेत्सुसखा यथा

2.12-2.26

तदेनं मायिनं प्राप्तुमुपायो नांतरीयकः॥
स्वयं निधाय हरिणा यत्र वासः सुरक्षितः

2.12-2.27

इंद्रद्युम्नप्रसंगेन जायते सार्वलौकिकः ॥
तदाज्ञापय देवेश गृहीत्वैनं बलान्वितम्

2.12-2.28

उपत्यकायां संस्थाप्य दीक्षयित्वा महाक्रतौ ॥
आगमिष्यामि पादाब्जसमीपं ते वृषध्वज

2.12-2.29

॥ जैमिनिरुवाच ॥ ॥
तथेत्युक्त्वा महादेवः क्षणादंतर्दधे मुनेः ॥
सोऽपि राज्ञो रथे तिष्ठन्प्रययौ क्षेत्रमुत्तमम्

2.12-2.2.2.12.130

द्वितीयेऽह्नि कपोतेशस्थलीमासेदिवान्नृपः ॥
दैर्घ्यायामसमायुक्तां जलाशयद्रुमाकुलाम्

2.12-2.31

बिल्वेशः पूर्वसीमायां समुद्रतटमास्थितः ॥
सेनानिवेश योग्यां तां मत्रिणा संनिवेदिताम्

2.12-2.32

यथायोग्यं यथास्थानं स्थापयित्वा नृपोत्तमः ॥
बिल्वेश्वरकपोतेशं नमस्कृत्य प्रपूज्य च

2.12-2.133

रथमास्थाय मतिमान्सहितो ब्रह्मसूनुना ॥
मनसा वचसा विष्णुं नीलाचलनिवासिनम्॥
चिंतयन्कीर्तयन्विप्रा जगाम संनिधिं हरेः

2.12-2.12

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वादशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc