भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 2.11-2

2.11-2.1

॥ जैमिनिरुवाच ॥ ॥
नारदाद्ब्रह्मणः पुत्राद्भगवद्भक्तिमुत्तमाम् ॥
श्रुत्वेत्थं परमप्रीत इंद्रद्युम्नोऽप्युवाच तम्

2.11-2.2

॥
इंद्रद्युम्न उवाच ॥ ॥
साधुसंगस्तु विद्वद्भिर्भवव्याधिविनाशनः ॥
ममोपदिष्टो भगवन्सोऽभूत्सांप्रतमेव मे ॥

2.11-2.3

येन साक्षात्कृतो विष्णुः परमात्मा परात्परः ॥
स त्वं यन्मंदिरायातस्त्वदन्यः साधुरत्र कः

2.11-2.4

त्वत्संनिधानाद्भगवस्तमो मे नाशमभ्यगात् ॥
यन्मे त्वरयते चित्तमर्चितुं नीलमाधवम्

2.11-2.5

वेत्सि ब्रह्मांडवृत्तांतं पर्यटन्सार्वलौकिकः ॥
तदावां रथमास्थाय पश्यावो नीलमाधवम् ॥

2.11-2.6

पुरुषोत्तमसंज्ञस्य क्षेत्रस्यालंकृतं शुभम् ॥
तत्र तीर्थानि संतीति बहुभिः कथितानि मे ॥
त्वद्वाक्याद्यदि जानामि भवेयुः सफलानि मे

2.11-2.7

॥
॥ नारद उवाच ॥ ॥
हंत ते दर्शयिष्यामि क्षेत्रं क्षेत्रस्थितानि च ॥
तीर्थानि शक्तिशंभूंश्च क्षेत्रमाहात्म्यमेव च

2.11-2.8

साक्षाद्द्रक्ष्यसि देवेशं भक्तस्यात्मसमर्पकम् ॥
तवानुग्रहतः शीघ्रं चतुर्द्धा संव्यवस्थितम्

2.11-2.9

यस्य संदर्शनान्मर्त्यो जायते भक्तिभाजनम् ॥
एवं कथांते तौ प्रीतावहःकृत्यं समाप्य च

2.11-2.2.2.11.10

यात्रानुकूलं निर्णीय पंचम्यां बुधवासरे ॥
ज्येष्ठकृष्णेतरे पक्षे पुष्यर्क्षे लग्न उत्तमे ॥
एकत्र शयितौ रात्रिं निन्यतुर्नृपनारदौ

2.11-2.11

ततः प्रभाते विमल इंद्रद्युम्नो नृपोत्तमः ॥
घोषणां कारयामास राज्यस्य सह बंधुभिः

2.11-2.12

यथाविभवतः सैन्यैर्नीलाद्रिगमनं प्रति ॥
यावज्जीवं तत्र वासं करिष्यामो विनिश्चितम्

2.11-2.13

या वृत्तिः कल्पिता यस्य स तया तत्र जीवतु ॥
राजानः सावरोधाश्च सामात्याः सपरिच्छदाः

2.11-2.14

रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः

2.11-2.15

व्रजंतु सज्जितास्तत्र ब्राह्मणाः साग्निहोत्रिणः ॥
वणिजः सह भांडैश्च सपण्याः पण्यजीविनः

2.11-2.16

राष्ट्रकर्मणि निष्णाता कुशला राजवर्त्मसु ॥
ज्योतिर्विदो नृत्यविदो दंडनीतौ प्रवीणकाः

2.11-2.17

नृत्यगायनवादित्रचतुर्विधसुबुद्धयः ॥
गजवाजिनराणां च भैषज्ये शास्त्र उत्तमे

2.11-2.18

कुशला दृष्टकर्माणो विद्यास्वष्टादशस्वपि ॥
उपांगविद्यासु तथा कुहकार्थकुतूहलाः

2.11-2.19

वाटसाहसिकाश्चोरास्तथान्ये पश्यतोहराः ॥
विचित्रकथनाजीवाश्चाटुकाराश्च मागधाः

2.11-2.2.2.11.20

शास्त्रोपजीविनश्चैव तथान्ये शल्यहारकाः ॥
द्यूतकाराश्च पुंश्चल्यो वेश्या वेशानुगा विटाः

2.11-2.21

कृषीवलाश्च गोमेपच्छागोष्ट्रखररक्षकाः ॥
शकुंतपालाश्च कपिव्याघ्रशार्दूलरक्षकाः

2.11-2.22

आहितुंडिकगोरक्ष्य शबरा म्लेच्छजातयः

2.11-2.23

अन्ये च ये मालवदेशजाता आज्ञां मदीयामनुपालयंति ॥
ते यांतु सर्वे वसतौ हि नीलाचले यथास्वं कृतवास्तुभागाः

2.11-2.24

एवमाज्ञाप्य नृपतिर्यात्रायां च कृतक्षणः ॥
नारदेन समागम्य दैवज्ञमिदमाह सः

2.11-2.25

सांवत्सर मुहूर्त्तं मे निर्णीतं ते यथा पुरा ॥
तावन्मांगलिकं वस्तुजातं सम्यगुपानय

2.11-2.26

पुरोहितमतेनास्मिन्क्षणे यावद्विमृग्यते ॥
तेनादिष्टः स गणकः पुरोहितसहायवान् ॥

2.11-2.27

आजहार समस्तानि मांगल्यानि द्विजोत्तमाः ॥
अत्रांतरे स राजर्षिर्दिव्यसिंहासनस्थितः

2.11-2.28

यात्राभिषेकमांगल्यं विप्रैः प्रागनुभावितम् ॥
श्रीसूक्तवह्निसूक्ताभ्यां सूक्तेनाब्दैवतेन च

2.11-2.29

पावमान्याब्धिसूक्तेन पृथङ्मांगल्यवर्द्धकैः ॥
तीर्थाद्भिरौषधीभिश्च सर्वगन्धैः पृथक्पृथक्

2.11-2.2.2.11.30

अभिषिक्तस्ततो राजा चीनांशुकहृतांभसा ॥
रराज वपुषा दीप्तो निर्धूमः पावको यथा

2.11-2.31

आमुक्तशुक्लवसनः स्वाचांतः सपवित्रकः ॥
नांदीमुखान्पितृगणान्पूजयित्वा यथाविधि

2.11-2.32

जयाराष्ट्रभृतो हुत्वा गणहोमांश्च यत्नतः ॥
शंखध्वनिसुगंधाढयं श्वेतवर्णं विधूमकम्

2.11-2.33

वह्निं प्रदक्षिणं चक्रे दक्षिणावर्त्तगार्चिषा ॥
साक्षात्कारेण ददतं जयं राज्ञे जयार्थिने

2.11-2.34

नवग्रहमखांते च ग्रहकुंभेन सेवितः ॥ ग्र
हाणां दौष्ट्यनाशाय सौस्थ्यस्यापि विवृद्धये

2.11-2.35

ज्योतिःशास्त्रोदितैर्मंत्रैर्दैवज्ञविधिचोदितैः ॥
ततो मांगल्यनेपथ्यविधानमुपचक्रमे

2.11-2.36

चीनांशुकप्रावरणे विधाय कवचं निजम् ॥
शिरोवेष्टनकं शुभ्रं सुरत्नमुकुटोज्ज्वलम्

2.11-2.37

सावतंसे श्रुतियुगे रत्नकुंडलभूषिते ॥
ग्रैवेयकं महार्घं तु हारं तरलभूषितम्

2.11-2.38

दधाराथ नृपश्रेष्ठः केयूरांगदमुद्रिकाः ॥
मध्येन त्रिवलीसक्तं स्वर्णसूत्रं त्रिवृद्दधौ

2.11-2.39

हिरण्यकिंकिणीयुक्त मुक्तातोरणमालिकम् ॥
नानारत्नैः सुघटितां दधाराथ सुमेखलाम्

2.11-2.2.2.11.40

अनर्घ्ये पादकटके पादयोः संन्यवेशयत् ॥
सम्मुखादर्शितादर्शे ददृशे स्वं विभूषितम्

2.11-2.41

मंगलारोपणार्थाय हैमपीठमुपाविशत् ॥
प्राङ्मुखः श्रीधरं देवं संस्मरन्मधुसूदनम्

2.11-2.42

मगलायतनं विष्णुं सर्वमांगल्यकारणम ॥
स्मरणादस्य नश्यंति पातकानि बहून्यपि

2.11-2.43

सौमनस्यामथो मालामार्त्तवीं गंधवर्णिताम् ॥
दधार प्रथमं राजा मंत्रितां स्वपुरोधसा

2.11-2.44

मृदं दीपं फलं दूर्वा दधि गोरोचनां ततः ॥
मन्त्राभिमंत्रितान्सर्वान्सिद्धार्थैरभिरक्षितः

2.11-2.45

आत्मानं ददृशे राजा सौरभेये हविष्यथ ॥
मुकुरे मंत्रिते पश्चात्स्वं दृष्ट्वा नृपकेसरी

2.11-2.46

बह्वृचैः शांतिघोषेण समुदीर्णशुभायतिः ॥
याजुष्कैः पथिसूक्तेन व्रजन्मार्गेऽभिरक्षितः

2.11-2.47

पौराणैर्मंगलैर्वाक्यैः कृतवीर्यधृतिर्नृपः ॥
मागधैः स्तुतिपाठेन प्रादुर्भूतपराक्रमः

2.11-2.48

पारिजातहरं सत्यासहितं गरुडध्वजम्॥
ध्यायन्हृत्पंकजे राजा दक्षिणं पादमुद्दधौ

2.11-2.49

प्रदक्षिणीकृत्य मुनिं नारदं पुरतः स्थितम् ॥
मध्यद्वारमुपागच्छद्वेत्रपाणिभिरावृतः ॥

2.11-2.2.2.11.50

आदिष्टपदमार्गोऽसावग्निहोत्रपुरःसरः ॥
तत्रापश्यत्स्थितान्विप्रानात्मनो दक्षिणेन वै

2.11-2.51

मांगल्यसूक्तंऽ पठतः शुभ्राभान्पांडुरांशुकान्॥
लाजाः सपुष्पा राजाग्रे क्षिपतः शंसतः शुभम्

2.11-2.52

वामपार्श्वस्थिता वेश्याश्चामरव्यग्रपाणयः ॥
शुभ्रालंकारवसनाः स्मेरपद्मानना शुभाः

2.11-2.53

ब्राह्मणान्पूजयामास भक्तिनम्रो द्विजोत्तमाः ॥
वस्त्रालंकारमाल्यैश्च सुगन्धैरनुलेपनैः

2.11-2.84

तोषयामास तान्विप्रान्भगवद्बुद्धि भावितान् ॥
वेश्याभ्यो मागधेभ्यश्च दीनानाथेभ्य एव च

2.11-2.55

राजानुमत्या सचिवो यथार्हं प्रददौ धनम् ॥
श्वेतान्पारावतान्हंसाञ्छ्वेताश्वं श्वेतकुंजरम्

2.11-2.56

सचूतपल्लवं श्वेतमालाफलविभूषितम् ॥
कदलीकांडसन्नद्धतोरणाधः स्थितं नृपः ॥
पूर्णकुंभं स पश्यन्वै मंगलानि बहून्यपि॥
सितातपत्रेण शिरःप्रदेशे वारितातपः

2.11-2.57

युगपत्पूर्यमाणैस्तु कंबुभिः शतसंख्यकेः॥
संमिश्रितानि शुश्राव वादित्राणि बहूनि सः

2.11-2.58

तथा मंगलगीतानि जयशब्दांश्च भूपतिः ॥
ततो विवेश प्रासादं नृसिंहमवलोकितुम्

2.11-2.59

यं स्मृत्वा जायते मर्त्यः सर्वकल्याणभाजनम् ॥
दृष्ट्वा स दूरान्नृहरिं दिव्यसिंहासनस्थितम्

2.11-2.2.2.11.60

प्रणम्य साष्टावयवं सन्तोष्योपनिषद्गिरा ॥
दक्षपार्श्वस्थितां दुर्गां सर्वदुर्गतिमोचिनीम्

2.11-2.61

ववंदे चरणाभ्याशे पश्यतीं कृपया नृपः ॥
ततः पुरोधा देवांगादवरोप्य शुभा स्रजम्

2.11-2.52

आसञ्जयामाम गले सुगंधेनान्वलेपयत् ॥
नीराजयामास राज्ञः शिरश्चावेष्टयन्मुदा

2.11-2.63

पुनः प्रदक्षिणीकृत्य तौ देवौ नृपसत्तमः ॥
शिबिकायां समारोप्य प्रतस्थे च पुरस्कृतौ

2.11-2.64

प्रादुर्भूय बहिर्द्वारे रथं दृष्ट्वा सुसज्जितम् ॥
तुरंगमैर्वातजवैर्दशभिः परयोजितम्

2.11-2.65

प्रदक्षिणीकृत्य नृपो नारदेन समाविशत् ॥
ढक्कामृदंगनिःसाणभेरीपणव गोमुखाः

2.11-2.66

मधुरीचर्चरीशंखा अवाद्यंत सहस्रशः ॥
स्यन्दनाः कोटिशस्तत्र नृपाणामनुजीविनाम्

2.11-2.67

चकाशिरे श्रेणिकृता इन्द्रद्युम्नरथाभितः ॥
नानाप्रहरणोपेताः पताकाभिरलंकृताः

2.11-2.68

ध्वजोच्छ्रिताः स्वर्णरौप्यैः किंकिणीजालदर्पणैः ॥
यन्त्रैर्नानाविधैर्युक्ता गंभीर स्निग्धनिःस्वनाः

2.11-2.69

पदातीनां कुञ्जराणां हयानां वातरंहसाम् ॥
पत्तिसंस्फोटनैर्हस्तिबृंहितैर्हयहेषितैः

2.11-2.2.2.11.70

बहुलै रथनिर्घोषैर्मिश्रिता वाद्यनिःस्वनाः ॥
युगांतार्णवनिस्वानतुल्याः शुश्रुविरे जनैः

2.11-2.71

तस्मिन्क्षणे पौरजनाः स्वस्वसंभारसज्जिताः ॥
अश्वकै रासभैरुष्ट्रैर्वाहकैः प्रतितस्थिरे

2.11-2.72

आंदोलिकाश्च पल्यंकाः कोटिशश्च तुरंगकाः ॥
श्रेणीभूताश्च दृश्यंते राष्ट्रप्रस्थानसंकुले

2.11-2.73

राजावरोधाः शतशो वृता वर्षवरैस्ततः ॥
नानायानसमारूढाः पालिताश्चाधिकारिभिः

2.11-2.74

महासैन्यैश्च संरुद्धा राजागाराद्विनिर्ययुः ॥
यज्वानश्चाग्निहोत्राणि शम्यारूढानि वृन्दशः

2.11-2.75

शकटेषु समारोप्य सपत्नीकाः प्रतस्थिरे ॥
तथा पुस्तकभारांश्च देवतार्चाकरंडकान्

2.11-2.76

इध्मबर्हिकुशान्पात्रीः संभारान्होमसंभृतान् ॥
वाहयामासुरन्यैश्च शकटावाहकद्विजैः

2.11-2.77

सामन्तामात्यभृत्याश्च पुरोधा ऋत्विजश्च ये ॥
राज्ञः प्रकृतद(?)साश्च उपचारनियोगिनः

2.11-2.78

सर्वोपचारसंभारानासतेऽन्ये प्रयायिनः ॥
कोषागारनियुक्ताश्च कोषजातमशेषतः

2.11-2.79

समादाय ययुस्तूर्णं राज्ञोऽवसरसेवकाः ॥
मालाकारादयः सर्वे पण्यजीवादयस्तथा

2.11-2.2.2.11.80

स्वं स्वं पण्यं समादाय ययू राजनियोगिनः ॥
श्रेष्ठश्रेण्यादयः सर्वे पुरखर्वटवासिभिः

2.11-2.81

समं विनिर्ययुः स्वस्वव्यवहारविलासकाः ॥
इन्द्रद्युम्नस्य नृपतेर्यात्रासमयवादितान्

2.11-2.82

भेरीमृदंगपटहान्व्यश्नुवानान्दिगंतरम् ॥
श्रुत्वा जनपदावासिजनाः सर्वे ससंभ्रमाः

2.11-2.83

राजाज्ञां मूर्ध्नि संमान्य निर्गता नीलपर्वतम् ॥
यस्य यश्च ऋजुः पंथाः स च तेनैव जग्मिवान्

2.11-2.84

न राजमार्गं प्रजवाद्व्यमृग्यंत नृपाज्ञया ॥
नीलाद्रिप्राप्तिमार्गेण दुर्गमेणापि ते ययुः

2.11-2.85

इन्द्रद्युम्नोऽपि राजेन्द्रः समस्तपुरवासिभिः ॥
चतुरंगानीकिनीभिः सहर्षाभिश्च वेष्टितः

2.11-2.86

श्रेणीभूतक्षितिपतिस्यन्दनावलिमध्यगे ॥
रथे रराज राजर्षिः शक्रतुल्य परिच्छदः

2.11-2.87

पुरस्त्रीमङ्गलाचारगीतलाजप्रसूनकैः ॥
मङ्गलाचारशोभाभिः प्रसन्नशुभचेतनः

2.11-2.88

वातरंहैर्हयैर्युक्तरथेन प्रययौ मुदा ॥
अनुकूलानिलप्रोद्यद्घनच्छायसुशीतले

2.11-2.89

नीरजस्के महीपृष्ठे समीकृतचतुष्पथे ॥
देशाध्वनीनैः पुरुषैः काननांतरवेदिभिः

2.11-2.2.2.11.90

आदिष्टवर्त्मा नृपतिर्मार्गस्योभयपार्श्वगान् ॥
देशानरण्यानि मुहुःपश्यन्नानन्दलोचनः

2.11-2.91

सीमामुत्कलदेशस्य विभजंतीं वनांतरे ॥
मार्गस्थां चर्चिकां प्राप चर्चितां मुंडमालया

2.11-2.92

अवतीर्य रथाद्राजा विनतो नारदाज्ञया ॥
साष्टांगपातं तां नत्वा तुष्टावानंदचेतनः

2.11-2.93

॥ इन्द्रद्युम्न उवाच ॥ ॥
नमस्ते त्रिदशेशानि सर्वापद्विनिवारिणि ॥
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरिते

2.11-2.94

कारणं जगतामाद्ये प्रसीद परमेश्वरि ॥
त्वया विना जगन्नैतत्क्षणमुत्सहते शिवे

2.11-2.95

सिद्धयः सर्वकार्याणां मंगलानि च शाश्वते ॥
त्वत्पादाराधनफलं मर्त्यलोके हि नान्यथा

2.11-2.96

चराचरपतेर्विष्णोः शक्तिस्त्वं परमेश्वरि ॥
यया सृजत्यवति च जगत्संहरते विभुः

2.11-2.97

चराचरगुरुं देवं नीलाचलनिवासिनम् ॥
अनुगृह्णीष्व मां देवि यथा पश्ये स्वचक्षुषा

2.11-2.98

॥ जैमिनिरुवाच ॥ ॥
नारदस्योपदेशेन स्तुत्वा देवीं नराधिपः ॥
आरुरोह रथं तूर्णं विवस्वानुदयं यथा

2.11-2.99

ततः प्रतस्थे तरसा स राजा श्रांतवाहनः ॥
चित्रोत्पलमहानद्यास्तीरे विरलकानने

2.11-2.1

धातुकन्दरविख्याते न्यवेशयदनीकिनीम् ॥
अपराह्णक्रियां कर्तुं यावदाह्निकमादृतः ॥2.2.11.१ ००॥
जलावतरणे नद्यां विवेश स्वपुरोधसा ॥
पूर्वं संशोधिते प्राज्ञैर्विषकण्टकवर्जिते

2.11-2.2

स्नात्वा संतर्प्य देवांश्च पितॄनथ विशांपतिः ॥
संपूज्य विधिवद्विष्णुं नृपतीन्प्रकृतीस्ततः

2.11-2.3

संमानयामास नृपः संनिवेशासनादिभिः॥
नारदेन सह श्रीमान्प्रविश्यांतःपुरं ततः

2.11-2.4

सुधारसानि भोज्यानि बुभुजे प्रीतमानसः ॥
पश्चिमाद्रिं ततो याते विवस्वति विशांपतिः

2.11-2.5

सायं विधिं समाप्याशु शीतभानौ समुद्यते॥
अनुजीविविशां नाथः सभामध्य उपाविशत्

2.11-2.6

तत्र तस्मिन्नरपतिर्बभौ सात्राज्यलक्षणः ॥
संपूर्णमंडलश्चन्द्रो ज्योतिषामिव शारदः

2.11-2.7

कवयः कवयांचकुः कीर्तिं तस्य सुधामलाम् ॥
जगुर्गाथां सुग्रथितां गायकाः कलसुस्वराः

2.11-2.8

रूपयौवनलावण्यगर्विता गणिकास्ततः ॥
लयतानांगहारैश्च सुशुद्धैर्ननृतुः पुरः

2.11-2.9

मागधास्तुष्टुवुश्चैनं लोकोत्तरशुभाकृतिम् ॥
गद्यपद्यप्रबन्धाद्यैश्चित्रैः पदकदम्बकैः

2.11-2.2.2.11.110

ततः स राजा प्रानर्च वैष्णवाग्र्यान्सभासदः ॥
सुसंमतैर्गंधमाल्यतांबूलैरतिशोभनैः

2.11-2.11

नृपांश्च शतशस्तत्र सुखासीनान्नृपाज्ञया ॥
संभावयामास यथायोग्यं नृपतिभाजनैः

2.11-2.12

अथापृच्छन्मुनिवरं नारदं भगवत्प्रियम् ॥
सिंहासनार्हे स्वासीनं बहुमानपुरःसरम् ॥
भगवच्चरितं श्रोतुं सर्वपापापनोदनम्

2.11-2.13

॥ इन्द्रद्युम्न उवाच ॥ ॥
भगवन्वेदवेदांगनिधान भगवत्प्रिय ॥
त्वमेव चरितं विष्णोर्जानासि ज्ञानचक्षुषा

2.11-2.14

हरेश्चारित्रसुधया दृढपंकमलीमसम् ॥
क्षालयांतर्मम मुने यद्यनुक्रोशको मयि

2.11-2.15

इत्थमालापसंमिश्रे मुनिराज्ञोः कथांतरे ॥
प्रविवेश नृपं द्वाःस्थ उत्कलेशप्रसेवकः

2.11-2.16

उवाच देवद्वारांते तिष्ठत्युत्कलभूमिपः ॥
सोपायनो देवपादपद्मं द्रष्टुं समौलिकः

2.11-2.17

विज्ञापितः स राजर्षि द्वास्थेनैवं ससंभ्रमः ॥
उवाच तं हि भो विप्राः श्रुत्वा तद्देशमण्डनम्

2.11-2.18

क्षेत्रं श्रीपुरुषेशस्य तद्वार्त्ताकर्णनोत्सुकः ॥
प्रवेशयाविलंबं तं श्रीमदोढ्रमहीपतिम्

2.11-2.19

स हि नीलगिरौ विष्णुं समाराध्य सुनिर्मलः ॥
यस्य संदर्शनात्सर्वे भविष्यामो हतांहसः

2.11-2.2.2.11.120

श्रुत्वा तद्वचनं सद्यो द्वारपालो महीपतिम् ॥
प्रवेशयामास सभामिंद्रद्युम्नस्य भूपतेः

2.11-2.21

विवेशोढ्रपतिस्तूर्णं सचिवैवैर्ष्णवैः सह ॥
ननामांघ्रियुगं वन्द्यमिन्द्रद्युम्नस्य सादरम्

2.11-2.21

युगं वन्द्यमिन्द्रद्युम्नस्य सादरम्

2.11-2.22

तमुत्थाप्य च राजेंद्रः पुरस्कृत्य स वैष्णवम् ॥
स्वासनांते निवेश्याथ प्रोचे सप्रश्रयं वचः

2.11-2.23

राजन्सर्वत्र कुशली भवानोढ्रपते किल ॥
अपि देवो विजयते नीलाद्रिशिखरालयः

2.11-2.24

कच्चित्ते निर्मला बुद्धिर्भगवत्पादपद्मयोः ॥
उपैति समचित्तस्य सर्वभूतेषु ते हरौ

2.11-2.25

ओढ्राधीशस्तदा तस्य वचः श्रुत्वा कृतांजलिः ॥
उवाच प्रश्रितं वाक्यं हर्षविस्मयचंचुकः

2.11-2.26

स्वामिन्सर्वत्र कुशलं त्वत्पादानुग्रहान्मम ॥
सूर्ये तपत्यंधकारः कथं वा प्रभविष्यति

2.11-2.27

निसर्गगुणसंसर्गवशीकृतमहीभुजा ॥
त्वया सनाथा पृथिवी जिष्णुनेवामरावती

2.11-2.28

सदा धर्मश्चतुष्पादस्त्वयि शासति मेदिनीम् ॥
निषेधाचरण राजन्केवलं श्रूयते श्रुतौ

2.11-2.29

राजनीतिषु ये राज्ञां गुणाः समुदितास्त्वयि ॥
त एकैकं क्षितिभुजां गता दार्ष्टांतिकं विभो

2.11-2.2.2.11.130

एतावदपि साम्राज्यं दुर्लभं ते नृपोत्तम ॥
अष्टादशद्वीपवती क्षितिरेकगृहोपमा

2.11-2.31

यदि त्वां नासृजद्ब्रह्मा वत्सलं सर्वजंतुषु ॥
कथं शोकविहीनाः स्युर्मृतेष्वात्मजबंधुषु

2.11-2.32

साधारणा नृपतयो विष्णोरंशा इति श्रुतिः ॥
भवान्साक्षात्तु भगवान्कोऽन्य ईदृग्गुणाकरः

2.11-2.33

दक्षिणोदधि तीरेऽस्ति नीलाद्रिः काननावृतः ॥
न तत्र लोकसंचारस्तत्रास्ते साऽपि देवता

2.11-2.34

वात्यया वालुकाकीर्णः सांप्रतं श्रूयते तु सः ॥
तद्वशान्मम राज्येऽपि दुर्भिक्षमरकादिकम्

2.11-2.35

त्वय्यागते तु सर्वस्मिन्कुशलं मे भविष्यति ॥
इत्युक्तवंतं नृपतिरुत्कलेशं द्विजोत्तमाः

2.11-2.36

विसर्जयामास तदा संनिवेशाय मानयन् ॥
नारदं प्रेक्ष्य निर्विण्णः किमेतदिति भो मुने

2.11-2.37

यदर्थं मे श्रमस्तं च विफलं हि वितर्कये ॥
इत्युक्तवंतं तं प्राह नारदस्तु त्रिकालवित्

2.11-2.38

न कार्यो विस्मयस्तेऽत्र भाग्यवान्वैष्णवोत्तमः ॥
वैष्णवानां न वांछा हि विफला जायते क्वचित्

2.11-2.39

अवश्यं प्रेक्षसे राजन्बिभ्रतं पार्थिवं वपुः ॥
कारणं जगतामादिं नारायणमनामयम्

2.11-2.2.2.11.140

त्वदनुग्रहहेतोर्वै क्षिताववतरिष्यति ॥
जगच्चराचरं सर्वं विष्णोर्वशमुपागतम्

2.11-2.41

न कस्यापि वशे सोऽपि परमात्मा सनातनः ॥
केवलं भक्तिवशगो भगवान्भक्तवत्सलः

2.11-2.42

ब्रह्मादिकीटपर्यंतं सुगुप्तं यस्य मायया ॥
स कथं परतंत्रः स्यादृते भक्तजनान्नृप

2.11-2.43

धर्मार्थकाममोक्षाणां मूलं भक्तिर्मुरद्विषः ॥
सैव तद्ग्रहणोपायस्तामृते नास्ति किंचन

2.11-2.44

एक एव यदा विष्णुर्बहुधा स्वस्य मायया ॥
तमृते परमात्मानं सुखहेतुर्न विद्यते

2.11-2.45

येऽप्यन्ये शिवदुर्गाद्यास्तैस्तैः कर्मभिरावृताः ॥
यच्छंति पूजिताः कामं तेऽपि विष्णुपरायणाः

2.11-2.46

अन्तर्यामी स भगवान्देवानामपि हृत्स्थितः ॥
यावत्फलं प्रेरयति तावदेव ददत्यमी

2.11-2.47

वैष्णवस्त्वं च राजेंद्र पद्मयोनेश्च पंचमः ॥
अष्टादशानां विद्यानां पारगो वृत्तसंस्थितः

2.11-2.48

न्यायेन रक्षिता पृथ्वीं विशेषाद्ब्राह्मणार्चकः ॥
अवश्यं द्रक्ष्यसि क्षेत्रे वैकुण्ठं चर्मचक्षुषा

2.11-2.49

पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥
सर्वं ते कथयिष्यामि प्राप्ते क्षेत्रोत्तमे नृप

2.11-2.2.2.11.150

सांप्रतं रात्रिशेषो हि तृतीयं याममृच्छति ॥
स्वान्तान्निवेशान्निर्गंतुं राज्ञ आज्ञापयाधुना

2.11-2.151

त्वमप्यंतर्गृहं याहि निद्राया वशमागतः

2.11-2.11

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषि संवाद एकादशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc