भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 2.10

2.10.1

॥ अगस्त्य उवाच ॥ ॥
निराहारो नरो भूत्वा क्षीराहारोऽपि वा पुनः ॥
अजितं पूजयेद्विप्र तस्य सिद्धिः करे स्थिता

2.10.2

महोत्सवस्तु कर्तव्यो गीतवादित्रसंयुतः ॥
एवं यः कुरुते धीमान्सर्वान्कामानवाप्नुयात्

2.10.3

एतस्मादुत्तरे विद्वन्वीरस्य शुभसूचकम् ॥
स्थानं मत्तगजेन्द्रस्य वर्तते नियतव्रत

2.10.4

तदग्रे सरसि स्नात्वा वसेत्तत्र सुनिश्चितम् ॥
पूर्णा सिद्धिमवाप्नोति यामवाप्य न शोचति

2.10.5

अयोध्यारक्षको वीरः सर्वकामार्थसिद्धिदः ॥
नवरात्रिषु पंचम्यां यात्रा सांवत्सरी भवेत्

2.10.6

गंधपुष्पादिधूपादि नैवेद्यादिविधानतः ॥
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ॥
यंयं काममिहेच्छेत तंतं काममवाप्नुयात्

2.10.7

एतस्माद्द्क्षिणेभागे सुरसानाम राक्षसी ॥
विष्णुभक्ता सदा विप्र वर्तते सिद्धिदायिका

2.10.8

तां संपूज्य नरो भक्त्या सर्वान्कामानवाप्नुयात्

2.10.9

लंकास्थानादिहानीता रामेणोत्कृष्टकर्मणा ॥
अयोध्यायां स्थापिता सा रक्षार्थं नियतव्रतैः

2.10.2.8.10.10

संपूज्य विधिवत्तस्या दर्शनं कार्यमादरात् ॥
सर्वकामार्थसिद्ध्यर्थमुत्सवोऽपि शुभप्रदः ॥
कर्त्तव्यः सुप्रयत्नेन गीतवादित्रसंयुतैः

2.10.11

नवरात्रे तृतीयायां यात्रा सांवत्सरी भवेत् ॥
सर्वदा सुखसंतानसिद्धये परमार्थदा ॥
नानासंगीतवादित्रनृत्योत्सवमनोहरा

2.10.12

एवं कृते न संदेहः सर्वदा रक्षितो भवेत्

2.10.13

एतत्पश्चिमदिग्भागे वर्तते परमो मुने ॥
पिंडारक इति ख्यातो वीरः परमपौरुषः ॥
पूजनीयः प्रयत्नेन गंधपुष्पाक्षतादिभिः

2.10.14

यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः ॥
तस्य पूजाविधानेन कर्तव्यं पूजनं नरैः

2.10.15

सरयूसलिले स्नात्वा पिंडारकं च पूजयेत् ॥
पापिनां मोहकर्त्तारं मतिदं कृतिनां सदा

2.10.16

तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु ॥
तत्पश्चिमदिशाभागे विघ्नेशं किल पूजयेत्

2.10.17

यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते ॥
तस्माद्विघ्नेश्वरः पूज्यः सर्वकामफलप्रदः

2.10.18

तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते ॥
जन्मस्थानमिदं प्रोक्तं मोक्षादिफलसाधनम्

2.10.19

विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा ॥
लौमशात्पश्चिमे भागे जन्मस्थानं ततः स्मृतम्

2.10.2.8.10.20

यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् ॥
विना दानेन तपसा विना तीर्थैर्विना मखैः

2.10.21

नवमीदिवसे प्राप्ते व्रतधारी हि मानवः ॥
स्नानदानप्रभावेण मुच्यते जन्मबन्धनात्

2.10.22

कपिलागोसहस्राणि यो ददाति दिनेदिने ॥
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्

2.10.23

आश्रमे वसतां पुंसां तापसानां च यत्फलम् ॥
राजसूयसहस्राणि प्रतिवर्षाग्निहोत्रतः

2.10.24

नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः ॥
मातापित्रोर्गुरूणां च भक्तिमुद्वहतां सताम्

2.10.25

तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्

2.10.26

॥ अथ सरयूवर्णनम् ॥ ॥
पितॄणामक्षया तृप्तिर्गयाश्राद्धाधिकं फलम्

2.10.27

मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् .॥
तत्फलं समवाप्नोति सरयूदर्शने कृते

2.10.28

गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम् ॥
कुर्वंति तत्फलं प्रोक्तं कलौ दाशरथीं पुरीम्

2.10.29

मथुरायां कल्पमेकं वसते मानवो यदि ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते ॥

2.10.2.8.10.30

पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते

2.10.31

कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत् ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते

2.10.32

षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम् ॥
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम् ॥

2.10.33

निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम् ॥
संसारकारणाज्ञाननाशकं जायते धुवम्

2.10.34

यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत्॥
न तस्य पुनरावृत्तिः कल्पांतरशतैरपि

2.10.35

जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा ॥
नैवात्र कर्मणो भोगो रामरूपो भवेन्नरः ॥

2.10.36

पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः ॥
तेऽपि मुक्ता दिवं यांति श्रीरामवचनं यथा

2.10.37

इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि ॥
कृष्णद्वैपायनव्यासः पुनरूचे तपोधनः

2.10.38

दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात् ॥
यात्राक्रमोऽपि च मया श्रुत आगच्छतां नृणाम्

2.10.39

इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि ॥
यात्राक्रमं मुनिश्रेष्ठ सम्यक्त्वस्तपोधन

2.10.2.8.10.40

फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम ॥
यद्यस्ति मयि ते विद्वन्कृपा कारुणिकोत्तम

2.10.41

यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर ॥
करोमि त्वत्प्रसादेन तथा कुरु यतव्रत

2.10.42

॥ अगस्त्य उवाच ॥ ॥
शृणु वक्ष्यामि तत्त्वेन यात्राक्रममथादितः ॥
अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः ॥

2.10.43

मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना ॥
मानसेषु सुतीर्थेषु स्नात्वा किल जितेंद्रियः ॥
यः करोति विधिं सम्यक्स तीर्थफलमश्नुते ॥

2.10.44

॥ व्यास उवाच ॥ ॥
मानसान्येव तीर्थानि कथयस्व तपोधन ॥
येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत्

2.10.45

॥ ॥ अगस्त्य उवाच ॥ ॥
शृणु तीर्थानि गदतो मानसानि ममानघ ॥
येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम्

2.10.46

सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः ॥
सर्वभूतदयातीर्थं तीर्थानां सत्यवादिता

2.10.47

ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम् ॥
सर्वभूतदयातीर्थे विशुद्धिर्मनसो भवेत्

2.10.48

न तोयपूतदेहस्य स्नानमित्यभिधीयते ॥
स स्नातो यस्य वै पुंसः सुविशुद्धं मनो मतम् ॥
भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु

2.10.49

यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः ॥
तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः

2.10.2.8.10.50

तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत्॥
उभयेषु च यः स्नाति स याति परमां गतिम्

2.10.51

तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना ॥
यात्रां कुरु प्रयत्नेन यात्रा वै नोदिता मया ॥
तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात्

2.10.52

जायन्ते च जलेष्वेव म्रियंते च जलौकसः ॥
न च गच्छंति ते स्वर्गमशुद्धमनसो मलाः

2.10.53

विषयेष्वनिशं रागो मनसो मल उच्यते ॥
तेष्वेव हि न संगम्य नैर्मल्यं समुदाहृतम्

2.10.54

चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति ॥
शतशोऽपि जलैर्धौते सुराभाण्डमपावनम्

2.10.55

दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा ॥
सर्वाण्येतानि तीर्थानि यदि भावेन निर्मलः

2.10.56

निगृहीतेंद्रियग्रामो यत्रैव वसते नरः ॥
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं तथा

2.10.57

एतत्ते कथितं विप्र मानसं तीर्थलक्षणम् ॥
स्नाते यस्मिन्क्रियाः सर्वाः सफलाः स्युः क्रियावताम्

2.10.58

प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत् ॥
विभुं विष्णुहरिं दृष्ट्वा स्नायाद्वै ब्रह्मकुण्डके

2.10.59

चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम् ॥
ततो धर्महरिं दृष्ट्वा सर्वपापैः प्रमुच्यते

2.10.2.8.10.60

एकादश्यामेकादश्यामियं यात्रा शुभावहा ॥
प्रातरुत्थाय मतिमान्स्वर्गद्वारजलप्लुतः

2.10.61

विधाय नित्यजं कर्म अयोध्यां च विलोकयेत् ॥
सरयूं तु ततो दृष्ट्वा पश्येन्मत्तगजं ततः

2.10.62

बंदीं च शीतलां चैव वटुकं च विलोकयेत् ॥
तदग्रसरसि स्नात्वा महाविद्यां विलोकयेत्

2.10.63

पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम्॥
अष्टम्यां च चतुर्दश्यामेषा यात्रा फलप्रदा

2.10.64

अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि ॥
विघ्नेशं च ततः पश्येत्सर्वकामार्थसिद्धये

2.10.65

प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः ॥
विष्णुं विष्णुहरिं दृष्ट्वा मनोवाक्कायशुद्धिमान्॥

2.10.66

मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत् ॥
अयोध्यां च ततो दृष्ट्वा सर्वकामार्थसिद्धये

2.10.67

स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः ॥
नानाविधानि पापानि बहुजन्मकृतानि च ॥
सचैलस्नानतो यांति तस्मात्सचैलमाचरेत्

2.10.68

एषा वै गदिता यात्रा सर्वपापहरा शुभा ॥

2.10.69

य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम् ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि

2.10.2.8.10.70

तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् ॥
तत्र गत्वा क्रमेणैव यात्रां कुरु यतेंद्रियः

2.10.71

अयोध्या परमं स्थानमयोध्या परमं महत् ॥
अयोध्यायाः समा काचित्पुरी नैव प्रदृश्यते

2.10.72

अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम्

2.10.73

इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया ॥
समाश्रय मुने तां त्वमनुजानीहि मामतः

2.10.74

॥ सूत उवाच ॥ ॥
इत्येतदुक्त्वा विरते मुनौ कलशजन्मनि ॥
उवाच मधुरं वाक्यं व्यासः स तपसां निधिः

2.10.75

॥ ॥ व्यास उवाच ॥ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि कृतकृत्योऽस्म्यहं मुने ॥
सत्यं शौचं श्रुतं विप्र सुशीलं च क्षमार्जवम् ॥
सर्वं च निष्फलं तस्य अयोध्यां नागतो यदि

2.10.76

यस्मिन्मयि प्रसन्नेन त्वयोक्तो धर्मनिर्णयः ॥
इदानीमपि गच्छामि ह्ययोध्यां निर्मलां पुरीम्॥
त्वमपि व्रज विप्रेंद्र स्वमाश्रमपदं निजम्

2.10.77

॥ सूत उवाच ॥ ॥
इत्यैवमुक्त्वा क्रमशो यात्राविधिमनुत्तमम्॥
जगाम तपसां राशिरगस्त्यः कुंभसंभवः

2.10.78

स्वमाश्रमपदं धीरो विस्मयोत्फुल्ललोचनः ॥
व्यासोऽपि महसां राशिर्जगाम विजितेन्द्रियः

2.10.79

अयोध्यामागतो विप्रः सर्वकामार्थसिद्धये ॥
आगत्यैतद्विधानेन कृत्वा यात्रां यथाक्रमम्

2.10.2.8.10.80

दृष्ट्वा महाश्चर्यकरं कारणं तीर्थमुत्तमम् ॥
आनंदतुंदिलस्तत्र सम्यगाचम्य बुद्धिमान्

2.10.81

ततो जगाम विप्रेंद्रः स्वमाश्रमपदं मुनिः ॥
व्यासेन कथितं मह्यं माहात्म्यं क्रमशस्तदा

2.10.82

मया श्रुत्वा च माहात्म्यं यात्रां कृत्वा विधानतः ॥
कुरुक्षेत्रे समागत्य भवदग्रे निरूपितम्

2.10.83

इदं माहात्म्यमतुलं यः पठेत्प्रयतो नरः ॥
श्रद्धया यश्च शृणुयात्स याति परमां गतिम्

2.10.84

तस्मादेतत्प्रयत्नेन श्रोतव्यं च जनैः सदा ॥
द्विजपूजा विष्णुपूजा विधातव्या प्रयत्नतः

2.10.85

दातव्यं च सुवर्णादि यथाशक्त्या द्विजन्मने ॥
पुत्रार्थी लभते पुत्रान्धर्म्मार्थी धर्ममाप्नुयात्

2.10.86

अतिविपुलविधानैर्वर्णितं धर्म्यमाद्यं कलयति परभक्त्या क्षेत्रमाहात्म्यमेतत् ॥
य इह मनुजवर्यः श्रीसनाथः स सम्यग्व्रजति हरिनिवासं सर्वभोगांश्च भुक्त्वा

2.10.87

यः पाठकस्यापि कदाचिदेव ददाति वित्तं च यथात्मशक्त्या ॥
पात्राणि वस्त्राणि मनोहराणि रौप्यं सुवर्णं च गवीः स मुच्येत्

2.10.10

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्येऽगस्त्यव्याससंवादेऽयोध्यायात्राविधिक्रमवर्णनंनाम दशमोऽध्यायः

॥ छ ॥
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्यं सम्पूर्णम् ॥ ( २-८)

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc