स्कन्द पुराण · श्लोक 2-6
अथ वैष्णवखण्डे प्रथमं वेङ्कटाचलमाहात्म्यम् ॥ (२- १) ॥
१ सूतशौनकसंवादे नारदस्य सुमेरुशिखरस्थयज्ञवराहदर्शनम्, ततः स्वामिपुष्करिण्याः सर्वतीर्थातिशायित्ववर्णनम्, कुमारधारामाहात्म्यम्, तुंबतीर्थमाहात्म्यम्, पाण्डवतीर्थमाहात्म्यम्, पापनाशन-देवतीर्थयोर्माहात्म्यम्, धरणीकृतवराहस्तुतिः, वराहस्य धरण्या साकं शेषाचलं प्रत्यागमनम, वेङ्कटाचलमाहात्म्यश्रवणावसरः, अध्यायफलश्रुतिः..
२ वराहमंत्राराधनविधिः. .. ...
३ अथागस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्ववर्णनम्, ततो मित्रवर्मण आकाशराजाख्यसुतोत्पत्तिवर्णनम्, धरणीतलात्पद्मावत्युत्पत्तिक्रमः, आकाशराजस्य धरण्याख्यपत्न्यां वसुदानाख्यसुतोत्पत्तिः....
४ उद्यानवासिन्याः पद्मावत्याः समीपे नारदागमनम्, नारदोदीरितपद्मावतीशरीरलक्षणानि, पद्मावत्याः स्वसखीभिः साकं पुप्पाटवीगमनम्, मृगयार्थं पुप्पाटवीं प्रति श्रीनिवासागमनम् , भगवतः कन्यकानां चान्योन्यसंवादः
५ अथ पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः, मुह्यमानं श्रीनिवासं प्रति बकुलमालिकोक्तिः, श्रीनिवासोक्तपद्मावतीपरिणयकारणानि, वियद्राजपुरं प्रति बकुलमालिकागमनम्, दिव्योद्यानस्थपद्मावतसखीः प्रति बकुलमालिकोक्तिः..
६ अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः, पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः- दैवज्ञोक्त्याऽगस्त्यलिंगार्चनाय विप्रादिप्रेषणम्, धरणीकृतप्रश्नस्य पुलिन्दिनीप्रतिवचनम् ,पद्मावतीनिवेदितभगवद्भागवतयोर्लक्षणानि, बकुलमालिकया सार्धं सखीनां धरणीसमीप आगमनम्.
७ धरणीदेव्यै बकुलमालिकानिवेदितश्रीनिवासोदन्त:, श्रीनिवासोक्त्या शंखनृपस्य स्वामितीर्थे तपःकरणम्, बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः, विश्वकर्मकृतपुरालंकारादिक्रमः, शुक्रेण सह बकुलायाः श्रीनिवाससमीपे गमनम्।, श्रीनिवासायै शुकावेदितपद्मावतीपरिणयवृत्तान्तः, पद्मावत्याः शुकदत्त - श्रीनिवासमालाधारणम् --- --- --- --- --- ---
८ अथ श्रीनिवासस्य लक्ष्म्यादिकृतपरिणयालंकार:, ब्रह्मादिभिः साकं श्रीनिवासस्य वियद्राजपुरगमनम् वधूवरयोर्वियद्राजवितीर्णप्राभृतादिकम् , श्रीनिवासकृपया वियद्राजस्य भक्तिरूपवरप्राप्ति:, विवाहार्थमागतानां ब्रह्मादीनां स्ववासगमनम्.
९ अथ वसु नामकनिषादवृत्तान्तः, सुतहननोद्युक्तं वसुं प्रति भगवदुक्ति:, रंगदासस्य श्रीनिवाससेवायै श्रीशेषाचलागमनम्, श्रीनिवासार्थं रंगदासकृतदिव्योद्यानमण्डपादिनिर्माणानि, रंगदासस्य गंधर्वक्रीडादर्शनेन भगवत्कैंकर्यविस्मृतिः, स्वरूपानुसंधानेन लज्जितं रंगदासं प्रति श्रीनिवासवचनम् , तोण्डमान्नामकनृपवृत्तान्त:, तस्य मृगयार्थं श्रीशेषाचलगमनम् , श्रीनिवाससमीपस्थपञ्चवर्णशुकवृत्तान्तः, तोण्डमान्नृपस्य निषादेन सह श्रीनिवाससमीपगमनम् , तोण्डमान्नृपं प्रति रेणुकोक्ति:, देवादिकृतश्रीलक्ष्मीस्तुति:, --- --- - - -
१० अथ तोंडमान्नृपस्य स्वपितुः सकाशाद्राज्यप्राप्तिः, तोण्डमान्नृपाय वसुनिवेदितवाराहोदन्तः, नृपस्य निषादवाक्यस्वप्नाभ्यां बिलमागेंण शेषाचलगमनम् , भगवदुक्त्या तोण्डमान्नृपकृतक्षीराभिषेकवप्रनिर्माणादिकम् , अस्थिसरोवरमाहात्म्यम्, कुर्वधामस्थकुलालवंशजभीमाख्यभक्तोदन्तः कुर्वधामस्थभीमाख्यभक्तस्य पत्न्या सह वैकुण्ठप्राप्तिः, श्रीनिवासकृपया तोंडमान्नृपस्य सारूप्यप्राप्तिः, एतन्माहात्म्य पठनश्रवणफलश्रुतिः ... - - - - - - - - --- --- ---
११ अथ काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाश:, शाकल्योक्तधर्मकथनम.
१२ स्वामिपुष्करिणीस्नानात्तामिस्रादिनरकनिस्तारः, स्वामितीर्थमहिमाऽश्रद्धालूनां महानरकप्राप्तिः १९
१३ अथ धर्मगुप्तचरित्रवर्णनम्, जैमिनिवाक्यात्स्वामितीर्थस्नातस्य धर्मगुप्तस्योन्मादनिवृत्तिः - २०
१४ सुमत्याख्यद्विजवृत्तान्तः, अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः, सुमतिं प्रति दुर्वासःकथितब्रह्महत्यामुक्त्युपायः, सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्याविमुक्तिः... २१
१५ अथ रामकृष्णतीर्थमाहात्म्यम्, रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः २२
१६ अथ वेङ्कटाद्रौ जलदानप्रशंसा, श्रुतदेवपादोदकसेवनेन हेमाङ्गस्य जातिस्मरणम्, श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकात्वविमुक्तिः . २३
१७ अथ वेङ्कटाचलक्षेत्रादिवर्णनम् २४
१८ अथ श्रीवेङ्कटेश्वरवैभववर्णनम,.. ....... २४
१९ अथ ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम्, श्रीवेङ्कटाचलारोहणसमयानुसंधानक्रमः, पापविनाशनाख्यतीर्थमाहात्म्यम्, दृढमत्याख्यशूद्रवृत्तान्तः, दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः, शूद्रस्य वैदिककर्मोपदेशेन सुमत्यनुभूतदुर्गतिः, अथागस्त्योक्त्या दुर्गत्यपनोदार्थं सुमतेर्वेङ्कटाद्रिगमनम्, सुमतेः पापनाशनस्नानेन दुर्गत्यपनोदनम्, वैदिककर्मानुष्ठातुर्दृढमतेर्दुर्गतिप्राप्त्यपनोदनम् २५
२० अथ पापविनाशनतीर्थमाहात्म्यवर्णनम्, भद्रमत्याख्यदरिद्रद्विजवृत्तान्तः, भद्रमतेः कामिन्या वेङ्कटाद्रिगमनप्रोत्साहनकरणम्, कामिनीकथितभूदानप्रशंसा, भद्रमतये भूप्रदानात्सुघोषस्य सद्गतिः, भद्रमतेः पापनाशनतीरे भूदानार्थं वेङ्कटाद्रिगमनम्, भूदानप्रभावेण भद्रमतेर्भगवत्साक्षात्कारः. . ... २७
२१ अथ रामानुजाख्यद्विजवृत्तान्तः, आकाशगंगातीरे रामानुजतपस्तुष्टभगवदाविर्भावः, रामानुजाख्यविप्रकृतभगवत्स्तुतिः, रामानुजाख्यविप्रकृतभगवत्प्रार्थना, भगवद्वर्णिताकाशगगातीर्थस्नानकालः, भगवद्वर्णित भागवत लक्षणानि... २९
२२ दानार्हसत्पात्रनिर्णयः, आकाशगंगामाहात्म्यम्, पुण्यशीलस्य वन्ध्यापतिनिमन्त्रणेन गर्दभमुखवत्त्वप्राप्तिः वन्ध्यापतेः श्राद्धनिमन्त्रणानर्हत्वकथनम्, आकाशगंगास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः...............
२३ अथ चक्रतीर्थमाहात्म्यम्, पद्मनाभाख्यद्विजकृततपःप्रकारः, चक्रतीर्थें पद्मनाभद्विजकृततपस्तुष्टभगवदाविर्भावः, पद्मनाभाख्यद्विजकृतश्रीनिवासस्तुतिः, पद्मनाभस्य चक्रतीर्थे निरन्तरवासाय भगवन्नियमनम्, पद्मनाभहननोद्यतासुरवधाय भगवत्कृते चक्रप्रेषणम्, भगवत्प्रेषितचक्रकृतासुरवधः, द्विजप्रार्थनया चक्रकृतवरदानादिः.,..... -............
२४ अथ सुन्दराख्यगन्धर्वस्य राक्षसत्वप्राप्तिनिवृत्त्योरुपोद्घातः, सुन्दराख्यस्य वसिष्ठोक्तराक्षसत्वनिवृत्त्युपायः, सुन्दराख्यस्य राक्षसत्वविमुक्तिपूर्वकं स्वस्वरूप प्राप्तिः... ......... .... ३२
२५ अथ जाबालितीर्थमाहात्म्यवर्णनम् , कावेरीतीरवासि दुराचाराख्यद्विजोदन्तः, जाबालितीर्थस्नानाद्दुराचारवेतालयोर्महापातकादिनिवृत्तिः, जाबालिवर्णितपार्वणश्राद्धाकरणदोषकथनम्...... ३३
२६ अथ तुम्बरु (घोण) तीर्थमाहात्म्यम्, घोणतीर्थस्नानविमुखानां महादोषवर्णनम्, घोणस्नानस्य सर्वपापापनोदकवर्णनम्, तुंबर्वाख्यगन्धर्वचरितम्, स्वभार्यायै तुम्बरूपदिष्टमाधवस्नानविधिप्रकारः, भार्यां प्रति तुम्बरुदत्तशाप तद्विमुक्तिप्रकारौ, घोणतीर्थेऽगस्त्यदर्शनेन तुम्बरुपत्न्या वर्पाभूत्वनिवृत्तिः, अगस्त्यकथितपतिव्रताधर्माः, घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः... ३४
२७ अथ वेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम्, स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः, पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्, पुराणवक्तुः सर्वपूजनीयत्ववर्णनम्.. ३६
२८ कटाहतीर्थमाहात्म्यम्, कटाहतीर्थमहिमश्रद्धाशून्यानां जनानां महानरकप्राप्तिः, कटाहतीर्थपानक्रमः, केशवाख्यद्विजवृतान्तः, गणिकालंपटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः, स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः, पद्मनाभं प्रति भारद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः, भारद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः व्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः... ३८
२९ अथार्जुनतीर्थयात्रोपोद्घातः, अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वकं सुवर्णमुखर्या गमनम् ४०
३० अथ सुवर्णमुखरीवर्णनम्, अर्जुनस्य सुवर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः, अर्जुनस्य स्वर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम्, अर्जुनकृतभरद्वाजसेवाक्रमः, अर्जुनं प्रति भरद्वाजकृताऽऽतिथ्यसत्कारः.. ४१
३१ अथ स्वर्णमुखरीप्रभावशुश्रूषया भरद्वाजं प्रत्यर्जुनप्रश्नः, भरद्वाजकथितशंकरविवाहप्रक्रिया, भूसाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम्.. ४२
३२ अथ नद्युत्पादनायागस्त्यं प्रति अशरीर्युक्तिः, सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना, सुवर्णमुखर्याविर्भावायागस्त्यकृततपःप्रकारः, अगस्त्याश्रमं प्रति चतुर्मुखागमनम्, अगस्त्यप्रार्थनया गंगां प्रति चतुर्मुखचोदना, अगस्त्यसमीपे स्वांशत्वेन गंगया कृतो नद्युत्पत्त्यभ्युपगमः........... ४२
३३ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः वायुकथितसुवर्णमुखरीनामनिष्पत्तिः, अगस्त्यकृतस्यानीतसुवर्णमुखरीमहिमानुवर्णनम्, भारद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम्, अगस्त्यप्रतिमादानविधिः.... ४४
३४ अथागस्त्यतीर्थाऽगस्त्येश्वरयोः प्रभावः, सुवर्णमुखरीस्नानकालनिर्णयः देवर्षिपितृती र्थमाहात्म्यम्, वेणासुवर्णमुखरीसंगमवर्णनम् सुवर्णमुखर्या व्याघ्रपदाह्वयनदीसंगमः, शंखतीर्थवर्णनम्....... ४५
३५ अथ सुवर्णमुखर्याः कल्पानदीसंगमः, सुवर्णमुखरीतीरस्थश्रीवेंकटाचलवर्णनम्, वेंकटाचलवासि भगवद्वैभववर्णनम्, भगवत्कृतभूतसृष्ट्यादिवर्णनम्..
३६ वराहकृतधरण्युद्धारक्रमः, कल्पवृत्तान्तवर्णनपूर्वकं श्वेतवराहावतारवर्णनम . ४८
३७ शंखाभिधाननृपवृत्तान्तः, भगवदुक्त्या शंखनृपस्य श्रीवेंकटाचलागमनम्, भगवद्दर्शनार्थमगस्त्यस्य श्रीवेङ्कटाचलागमनम्, अगस्त्यं प्रति गुरुवस्वाद्युक्तिः, अगस्त्यादिकृतश्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम्..... - .... - - ४९
३८ अगस्त्यशंखादितपस्तुष्टस्य भगवत आविर्भावः ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यभूत रूपप्रकारः, अगस्त्यप्रार्थनया स्वर्णमुखरीनद्या भगवद्दत्तसर्वाधिकत्वप्राप्तिः, शंखनृपवरप्रदानपूर्वकं भगवदन्तर्धानम्, भरद्वाजवर्णितश्रीवेङ्कटाचलमाहात्म्यनिरूपणम् ५०
३९ पुत्रार्थमञ्जनाकृततपःप्रकारः.............. ५२
४० व्यासप्रोक्ताकाशगङ्गास्नानकालनिर्णयः, व्यासप्रोक्तश्रीवेंकटाचलकरणीयदानप्रशंसा. ५३
इति वैष्णवखण्डे प्रथमं वेंकटाचलमाहात्म्यम् ॥ (२-१) ॥
मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0