भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 1.60

1.60.1

॥ सूत उवाच ॥ ॥
सोऽथ प्राग्ज्योतिषाद्बाह्ये महोपवनसंस्थितम् ॥
सहस्रभूमिकं गेहमपश्यत हिरण्मयम्

1.60.2

वेणुवीणामृदंगानां निःस्वनैः परिपूरितम् ॥
दशसाहस्रसंख्याभिश्चेटीभिः परिपूरितम्

1.60.3

आयाद्भिः प्रतियाद्भिश्च भगदत्तस्य किंकरैः ॥
किमिच्छन्तीति भगिनी पृच्छकैरभिपूरितम्

1.60.4

तदासाद्य स हैडंबिर्मेरोः शिखरवद्ग्रहम् ॥
द्वारि स्थितां संददर्श कर्णप्रावरणां सखीम्

1.60.5

तामाह ललितं वीरो भद्रे सा क्व मुरोः सुता ॥
कामुको द्रष्टुमिच्छामि दूरदेशागतोऽतिथिः

1.60.6

॥ कर्णप्रावरणोवाच ॥ ॥
किं तवास्ति महाबाहो तया मौर्व्या प्रयोजनम् ॥
कोटिशो निहताः पूर्वं तया कामुक कामुकाः

1.60.7

तव रूपमहं दृष्ट्वा घटहासं सदोत्कचम् ॥
प्रणम्य पादयोर्वीर स्थिता ते वचनंकरी

1.60.8

तन्मया सह मोदस्व भुंक्ष्व भोगांश्च कामुक ॥
दास्याम्यनुचराणां ते त्रयाणां च प्रियात्रयम्

1.60.9

॥ घटोत्कच उवाच ॥ ॥
कल्याणि किंवदंती ते प्रमुक्ता स्वोचिता शुभे ॥
पुनर्नैतद्वचस्तुभ्यं विशते मम चेतसि

1.60.1.2.60.10

वामः कामो यतो भद्रे यस्मिन्नुपनिबद्ध्यते ॥
स चात्र नैव बध्नाति तद्वयं कि प्रकुर्महे

1.60.11

अद्य ते स्वामिनी दृष्टा जिता वा क्रीडते मया ॥
तया वा विजितो यास्ये पूर्वेषां कामिनां गतिम्

1.60.12

कर्णप्रावरणे तस्माच्छीघ्रमेव निवेद्यताम् ॥
यथा दर्शनमात्रेण पूजयंत्यतिथिं खलु

1.60.13

इति भैमेर्वचः श्रुत्वा प्रस्खलंती निशाचरी ॥
प्रासादशिखरस्थां तां मौर्वीमेवं वचोवदत्

1.60.14

देवि कोऽपि युवा श्रीमांस्त्रैलोक्येष्वमितप्रभः ॥
कामातिथिस्तव द्वारि वर्तते दिश तत्परम्

1.60.15

॥ कामकटंकटोवाच ॥ ॥
मुच्यतां शीघ्रमेवासौ किमर्थं वा विलंबसे ॥
कदाचिद्देवसंगत्या समयो मेऽभिपूर्यते

1.60.16

इत्युक्तवचनाच्चेटी प्राप्यावोचद्घटोत्कचम् ॥
व्रज शीघ्रं कामुक त्वं तस्या मृत्योश्च सन्निधौ

1.60.17

इत्युक्तः स प्रहस्यैव तत्रोत्सृज्य स्वकानुगान् ॥
प्रविवेश गृहं भैमिः सिंहो मेरुगुहामिव

1.60.18

स पश्यञ्छुकसंघातान्पारावतगणांस्तथा ॥
सारिकाश्च मदोन्मत्ताश्चेटीस्तां चाप्यपश्यत

1.60.19

रूपेण वयसः चैव रतेरपि रतिंकरीम् ॥
आंदोलकसुखासीनां सर्वाभरणभूषिताम्

1.60.1.2.60.20

तां विद्युतमिवोन्नद्धां दृष्ट्वा भैमिरचिंतयत ॥
अहो कृष्णेन पित्रा मे निर्दिष्टेयं ममोचिता

1.60.21

न्याय्यमेतत्कृते पूर्वं नष्टा यत्कामिनां गणाः ॥
शरीरक्षयपर्याप्तं क्षीयते यदि कामिनाम्

1.60.22

कामिनीनां कृते येषां क्षीयते गणनात्र का ॥
एवं बहुविधं कामी चिंतयन्नाह भीमभूः

1.60.23

निष्ठुरे वज्रहृदये प्राप्तोऽहमतिथिस्तव ॥
उचितां तत्सतां पूजां कुरु या ते हृदि स्थिता

1.60.24

इति हैडंबिवचनं श्रुत्वा कामकटंकटा ॥
विस्मिताभूत्तस्य रूपात्स्वं निनिंद च बालिशम्

1.60.25

धिगहं यन्मया पूर्वं समयः स कृतोऽभवत् ॥
न कृतोऽभूद्यदि पुरा अभविष्यदसौ पतिः

1.60.26

इति संचिन्तयन्ती सा भैमिं वचनमब्रवीत् ॥
वृथा त्वमागतो भद्र जीवन्याहि पुनः सुखी

1.60.27

अथ कामयसे मां त्वं तत्कथां शीघ्रमुच्चर ॥
कथामाभाष्य यदि मां सन्देहे पातयिष्यसि ॥
ततोऽहं वशगा जाता हतो वा स्वप्स्यसे मया

1.60.28

॥ सूत उवाच ॥ ॥
इत्युक्तवचनामेतां नेत्रोपांतेन वीक्ष्य सः

1.60.29

स्मृत्वा चराचरगुरुं कृष्णमारब्धवान्कथाम् ॥
कस्यांचिदभवत्पत्न्यां युवा कोऽप्यजितेद्रियः

1.60.1.2.60.30

तस्य चैका सुता जज्ञे भार्या तस्य मृताऽभवत् ॥
ततो बालकिकां पुत्रीं ररक्ष च पुपोष च

1.60.31

सा यदाभूद्यौवनगा व्यंजितावयवा शुभा ॥
प्रोल्लसत्कुचमध्यांगी प्रोल्लसन्मुखपंकजा

1.60.32

तदास्य कामलुलितमालानं प्रजहौ मनः ॥
प्रोवाच तां च तनयां समालिंग्य दुराशयः

1.60.33

प्रातिवेश्मकपुत्री त्वं मयानीयात्र पोषिता ॥
भार्यार्थं सुचिरं कालं तत्कार्यं साधय प्रिये

1.60.34

इत्युक्ता सा च मेने च तत्तथैव वचस्तदा ॥
पतित्वेन च भेजे तं भार्यात्वेन स तां तथा

1.60.35

ततस्तस्यां सुता जज्ञे तस्मान्मदनरासभात् ॥
वद सा तस्य भवति किं दौहित्री सुताऽथवा ॥
एनं प्रश्नं मम ब्रूहि शीघ्रं चेच्छक्तिरस्ति ते

1.60.36

॥ सूत उवाच ॥ ॥
इति प्रश्नं सा च श्रुत्वा चिंतयद्बहुधा हृदि

1.60.37

न च पश्यति निर्द्धारं प्रश्नस्यास्य कथंचन ॥
ततः प्रश्नेन विजिता स्वां शक्तिं समुपाददे

1.60.38

अताडयद्रुक्मरज्जुं कराभ्यां दोलकस्य च ॥
ततो रक्षांसि निष्पेतुः कोटिशो भीषणान्यति

1.60.39

सिंहव्याघ्रवराहाश्च महिषाश्चित्रका मृगाः ॥
समीक्ष्य तानसंख्येयान्खादितुं धावतो रुषा

1.60.1.2.60.40

अवादयन्नखौ भैमिः कनिष्ठांगुष्ठजौ हसन् ॥
ततो विनिःसृतास्तत्र द्विगुणा राक्षसादयः

1.60.41

तैर्मौर्वीनिर्मिताः सर्वे क्षणादेव स्म भक्षिताः ॥
विजितायां स्वशक्तौ च बलशक्तिमथाददे

1.60.42

उत्थाय सहसा दोलात्खड्गमादातुमैच्छत ॥
उत्तिष्ठंतीं च तां भैमिरनुसृत्य जवादिव

1.60.43

केशेष्वादाय सव्येन पाणिनाऽपातयद्भुवि ॥
ततः कंठे सव्यपादं दत्त्वादाय च कर्तिकाम्

1.60.44

दक्षिणेन करेणास्याश्छेत्तुमैच्छत नासिकाम्॥
विस्फुरंती ततो मौर्वी मंदमाह घटोत्कचम्

1.60.45

प्रश्नेन शक्त्या च बलेन नाथ त्रिधा त्वयाहं विजिता नमस्ते ॥
तन्मुंच मां कर्मकरी तवास्मि समादिश त्वं प्रकरोमि तच्च

1.60.46

॥ घटोत्कच उवाच ॥ ॥
यद्येवं तर्हि मुक्तासि भूयो दर्शय यद्बलम् ॥
एवमुक्त्वा मुमोचैनां मुक्ता चाह प्रणम्य सा

1.60.47

जानामि त्वां महाबाहो वीरं शक्तिमतां वरम् ॥
सर्वराक्षसभर्तारं त्रैलोक्येऽमितविक्रमम्

1.60.48

गुह्यकाधिपतिस्त्वं हि कालनाभ इति स्मृतः ॥
षष्टिकोटिपतिर्जातो यक्षरक्षाकृते भुवि

1.60.49

इति मां प्राह कामाख्या सर्वं तत्संस्मराम्यहम् ॥
इदं गेहं सानुगं मे दत्तं मयात्मना तव

1.60.1.2.60.50

समादिश प्राणनाथ कमादेशं करोमि ते ॥
॥ घटोत्कच उवाच ॥ ॥
प्रच्छन्नस्तस्य घटते न विवाहः कथंचन

1.60.51

मोर्वि यस्य हि वर्तंते पितरौ बांधवास्तथा ॥
तन्मां शीघ्रं वह शुभे शक्रप्रस्थाय संप्रति

1.60.52

अयं कुलक्रमोऽस्माकं यद्भार्या पतिमुद्वहेत् ॥
तत्रानुज्ञां समासाद्य परिणेष्यामि त्वामहम्

1.60.53

भगदत्तमथो नाथं ततो मौर्वी न्यवेदयत् ॥
समादाय बहुद्रव्यं विससर्जाथ भ्रातरम्

1.60.54

ततः पृष्ठिं समारोप्य घटोत्कचमनिंदिता ॥
नानाद्रव्यपरीवारा शक्रप्रस्थं समाव्रजत्

1.60.55

ततोऽसौ वासुदेवेन पांडवैश्चाभिनंदितः ॥
शुभे लग्ने पाणिमस्या जगृहे भीमनंदनः

1.60.56

कुरूणां राक्षसानां च प्रोक्तोत्तमविधानतः ॥
उद्वाह्य तां तद्धनैश्च तर्पयामास पांडवान्

1.60.57

कुंती च द्रौपदी चोभे मुमुदाते नितांततः ॥
मंगलान्यस्य चक्राते मौर्व्याश्च धन तर्पिते

1.60.58

ततो विवाहे निर्वृत्ते प्रतिपूज्य घटोत्कचम् ॥
भार्यया सहितं राजा स्वराज्याय समादिशत्

1.60.59

मौर्व्याऽऽज्ञां शिरसा गृह्य हैडंबिर्भार्ययान्वितः ॥
शुभं हिडम्बस्य वने स्वराज्यं समुपाव्रजत्

1.60.1.2.60.60

ततो राक्षसयोषाभिर्वीरकांस्यैः प्रवर्धितः॥
महोत्सवेन महता स्वराज्ये प्रमुमोद सः

1.60.61

ततो वनेषु चित्रेषु निम्नगापुलिनेषु च ॥
रेमे सह तया भैमिर्मंदोदर्येव रावणः

1.60.62

एवं विक्रीडतस्तस्य गर्भो जज्ञे महाद्युतेः॥
हेडंबै राक्षसव्याघ्राद्बालसूर्यसमप्रभः

1.60.63

स जातमात्रो ववृधे क्षणाद्यौवनगोऽभवत् ॥
नीलमेघचयप्रख्यो घटास्यो दीर्घलोचनः

1.60.64

ऊर्ध्वकेशश्चोर्ध्वरोमा पितरौ प्रणतोऽब्रवीत् ॥
प्रणमामि युवां चोभौ जातस्य पितरौ गुरू

1.60.65

भवतोर्हि प्रियं कृत्वा अनृणः स्यां सदा ह्यहम् ॥
भवद्भ्यां दत्तमिच्छामि अभिधानं यथात्मनः

1.60.66

अतः परं तु यच्छ्रेयं कर्तव्यं प्रोन्नतिप्रदम्॥
ततो भेमिस्तमालिंग्य पुत्रं वचनमब्रवीत्

1.60.67

बर्बराकारकेशत्वाद्बर्बरीकाभिधो भवान् ॥
भविष्यति महाबाहो कुलस्यानन्दवर्धनः

1.60.68

श्रेयश्च ते यत्परमं दृढं च तत्कीर्त्यते बहुधा विप्र मुख्यैः ॥
प्रक्ष्यावहे तद्यदुवंशनाथं गत्वा पुरीं द्वारकां वासुदेवम्

1.60.60

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे बर्बरीकोत्पत्तिवर्णनंनाम षष्टितमोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc