भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 1.25-2

1.25-2.25.1

॥अर्जुन उवाच॥
देवर्षे वर्ण्यते चेयं कथा पीयूषसोदरा॥
पुनरेतन्मुने ब्रूहि यदा वेत्ति महेश्वरः

1.25-2.25.2

भगवान्स्वां सतीं भार्यां वधार्थं चापि तारकम्॥
सत्याश्च विरहात्तप्यन्ददाह किमसौ स्मरम्

1.25-2.25.3

त्वयैवोक्तं स विरहात्सत्यास्तप्यति वै तपः॥
हिमाद्रिमास्थितो देवस्तस्याः संगमवांछया

1.25-2.25.4

॥नारद उवाच॥
सत्यमेतत्पुरा पार्थ भवस्येदं मनीषितम्॥
अतप्ततपसा योगो न कर्तव्यो मयाऽनया

1.25-2.25.5

तपो विना शुद्धदेहो न कथंचन जायते॥
असुद्धदेहेन समं संयोगो नैव दैहिकः

1.25-2.25.6

महत्कर्माणि यानीह तेषां मूलं सदा तपः॥
नातप्ततपसां सिद्धिर्महत्कर्माणि यांति वै

1.25-2.25.7

एतस्मात्कारणाद्देवो दर्पितं तं ददाह तु॥
ततो दग्धे स्मरे चापि पार्वतीमपि व्रीतिताम्

1.25-2.25.8

विहाय सगणो देवः कैलासं समपद्यत॥
देवी च परमोद्विग्ना प्रस्खलंती पदेपदे

1.25-2.25.9

जीवितं स्वं विनिंदंती बभ्रामेतस्ततश्चसा॥
हिमाद्रिरपि स्वे श्रृंगे रुदतीं पृष्टवान्रतिम्

1.25-2.25.10

कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि॥
पृष्टा सा च रतिः सर्वं यथावृत्तं न्यवेदयत्

1.25-2.25.11

निवेदिते तथा रत्या शैलः संभ्रांतमानसः॥
प्राप्य स्वां तनयां पाणावादायागात्स्वकं पुरम्

1.25-2.25.12

सा तत्र पितरौ प्राह सखीनां वदनेन च॥
दुर्भगेन शरीरेण किमनेन हि कारणम्

1.25-2.25.13

देहवासं परित्यक्ष्ये प्राप्स्ये वाभिमतं पतिम्॥
असाध्यं चाप्यभीष्टं च कथं प्राप्यं तपो विना

1.25-2.25.14

नियमैर्विविधैस्तस्माच्छोषयिष्ये कलेवरम्॥
अनुजानीत मां तत्र यदि वः करुणा मयि

1.25-2.25.15

श्रुत्वेति वचनं माता पिता च प्राह तां शुभाम्॥
उ मेति चपले पुत्रि न क्षमं तावकं वपुः

1.25-2.25.16

सोढुं क्लेशात्मरूपस्य तपसः सौम्यदर्शने॥
भावीन्यप्यनि वार्याणि वस्तूनि च सदैव तु

1.25-2.25.17

भाविनोर्था भवंत्येव नरस्यानिच्छतोपि हि॥
तस्मान्न तपसा तेऽस्ति बाले किंचित्प्रयोजनम्

1.25-2.25.18

॥श्रीदेव्युवाच॥
यदिदं भवतो वाक्यं न सम्यगिति मे मतिः॥
केवलं न हि दैवेन प्राप्तुमर्थो हि शक्यते

1.25-2.25.19

त्किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वभावतः॥
पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम्

1.25-2.25.20

ब्रह्मणा चापि ब्रह्मत्वं प्राप्तं किलतपोबलात्॥
अन्यैरपि च यल्लब्धं तन्नसंख्यातुमुत्सहे

1.25-2.25.21

अध्रुवेण शरीरेण यद्यभीष्टं न साध्यते॥
पश्चात्स शोच्यते मंदः पतितेऽस्मिञ्छरीरके

1.25-2.25.22

यस्य देहस्य धर्मोऽयं क्वचिज्जायेत्क्वचिन्म्रियेत्॥
क्वचिद्गर्भगतं नश्येज्जातमात्रं क्वचित्तथा

1.25-2.25.23

बाल्ये च यौवने चापि वार्धक्येपि विनश्यति॥
तेन चंचलदेहेन कोऽर्थः स्वार्थो न चेद्भवेत्

1.25-2.25.24

इत्युक्त्वा स्वसखीयुक्ता पितृभ्यां साश्रु वीक्षिता॥
श्रृंगं हिमवतः पुण्यं नानाश्चर्यं जगाम सा

1.25-2.25.25

तत्रां बराणि संत्यज्य भूषणानि च शैलजा॥
संवीता वल्कलैर्दिव्यैस्तपोऽतप्यत संयता

1.25-2.25.26

ईश्वरं हृदि संस्थाप्य प्रणवाभ्यसनादृता॥
मुनीनामप्य भून्मान्या तदानीं पार्थ पार्वती

1.25-2.25.27

त्रिस्नाता पाटलापत्रभक्षकाभूच्छतं समाः॥
शंत च बिल्वपत्रेण शीर्णोन कृतभोजना

1.25-2.25.28

जलभक्षा शतं चाभूच्छतं वै वायुभोजना॥
ततो नियममादाय पादांगुष्ठस्थिताभवत्

1.25-2.25.29

निराहारा ततस्तापं प्रापुस्तत्तपसो जनाः॥
ततो जगत्समालोक्य तदीयतपसोर्जितम्

1.25-2.25.30

हरस्तत्राययौ साक्षाद्ब्रह्मचारिवपुर्द्धरः॥
वसानो वल्कलं दिव्यं रौरवाजिनसंवृतः

1.25-2.25.31

सुलक्षणाषाढधरः सद्वृत्तः प्रति भानवान्॥
ततस्तं पूजयामासुस्तत्सख्यो बहुमानतः

1.25-2.25.32

वक्तुमिच्छुः शैलपुत्रीं सखीभिरिति चोदितः॥
ब्रह्मन्नियं महाभागा गृहीतनियमा शुभा

1.25-2.25.33

मुहूर्तपंचमात्रेण नियमोऽस्याः समाप्यते॥
तत्प्रतीक्षस्व तं कालं पश्चादस्मत्सखीसमम्

1.25-2.25.34

नानाविदा धर्मवार्ताः प्रकरिष्यसि ब्राह्मण॥
इत्युक्त्वा विजयाद्यास्ता देवीचरितवर्णनैः

1.25-2.25.35

अश्रुमुख्यो द्विजस्याग्रे निन्युः कालं च तं तदा॥
ततः काले किंचिदूने ब्रह्मचारी महामतिः

1.25-2.25.36

विलोकनमिषेणागादाश्रमोपस्थितं ह्रदम्॥
निपपात च तत्रासौ चुक्रोशातितरां ततः

1.25-2.25.37

अहमत्र निमज्जामि कोऽपि मामुद्धरेत भोः॥
इति तारेण क्रोशंतं श्रुत्वा तं विजयादिकाः

1.25-2.25.38

आजग्मुस्त्वरया युक्ता ददुस्तस्मै करं च ताः॥
स चुक्रोश ततो गाढं दूरेदूरे पुनःपुनः

1.25-2.25.39

नाहं स्पृशाम्यसंसिद्धां म्रिये वा नानृतं त्विदम्॥
ततः समाप्तनियमा पार्वती स्वयमाययौ

1.25-2.25.40

सव्यं करं ददावस्य तं चासौ नाभ्यनन्दत॥
भद्रे यच्छुचि नैव स्याद्यच्चैवावज्ञया कृतम्

1.25-2.25.41

सदोषेण कृतं यच्च तदादद्यान्न कर्हिचित्॥
सव्यं चाशुचि ते हस्तं नावलंबामि कर्हिचित्

1.25-2.25.42

इत्युक्ता पार्वती प्राह नाहं दत्तं च दक्षिणम्॥
ददामि कस्यचिद्विप्र देवदेवाय कल्पितम्

1.25-2.25.43

दक्षिणं मे करं देवो ग्रहीता भव एव च॥
शीर्यते चोग्रतपसा सत्यमेतन्मयोदितम्

1.25-2.25.44

॥विप्र उवाच॥
यद्येवमवलेपस्ते गमनं केन वार्यते॥
यथा तव प्रतिज्ञेयं ममापीयं तथाचला

1.25-2.25.45

रुद्रस्यापि वयं मान्याः कीदृशं ते तपो वद॥
विषमस्थं यत्र विप्रं म्रियमाणमुपेक्षसि

1.25-2.25.46

अवजा नासि विप्रांस्त्वं तच्छीघ्रं व्रज दर्शनात्॥
यदि वा मन्यसे पूज्यांस्ततोऽभ्युद्धर नान्यथा

1.25-2.25.47

ततो विचार्य बहुधा इति चेति च सा शुभा॥
विप्रस्योद्धरणं सर्वधर्मेभ्योऽमन्यताधिकम्

1.25-2.25.48

ततः सा दक्षिणं दत्त्वा करं तं प्रोज्जहार च॥
नरं नारी प्रोद्धरति सज्जन्तं भववारिधौ॥
एतत्सन्दर्शनार्थाय तथा चक्रे भवोद्भवः

1.25-2.25.49

प्रोद्धृत्य च ततः स्नात्वा बद्ध्व योगासनं स्थिता

1.25-2.25.50

ब्रह्मचारी ततः प्राह प्रहसन्किमिदं शुभे॥
कर्तुकामासि तन्वंगि दृढयोगासनस्थिता

1.25-2.25.51

देवी प्राह ज्वालयिष्ये शरीरं योगवह्निना॥
महादेवकृतमतिरुच्छिष्टाहं यतोऽभवम्

1.25-2.25.52

ब्रह्मचारी ततः प्राह काश्चिद्ब्राह्मणकाम्यया॥
कृत्वा वार्तास्ततः स्वीयमभीष्टं कुरु पार्वति

1.25-2.25.53

नोपहन्यां कदाचिद्वि साधुभिर्विप्रकामना॥
धर्ममेनं मन्यसे चेन्मुहूर्तं ब्रूहि पार्वति

1.25-2.25.54

देवी प्राह ब्रूहि विप्र मुहूर्तं संस्थिता त्वहम्॥
ततः स्वयं व्रती प्राह देवीं तां स्वसखीयुताम्

1.25-2.25.55

किमर्थमिति रम्भोरु नवे वयसि दुश्चरम्॥
तपस्त्वया समारब्धं नानुरूपं विभाति मे

1.25-2.25.56

दुर्लभं प्राप्य मानुष्यं गिरिराजगृहेऽधुना॥
भोगांश्च दुर्लभान्देवि त्यक्त्वा किं क्लिश्यते वपुः

1.25-2.25.57

अतीव दूये वीक्ष्य त्वां सुकुमारतराकृतिम्॥
अत्युग्रतपसा क्लिष्टा पद्मिनीव हिमर्दिता

1.25-2.25.58

इदं चान्यत्त्व शुभे शिरसो रोगदं मम॥
यद्देहं त्यक्तुकामा त्वं प्रबुद्धा नासि बालिके

1.25-2.25.59

वामः कामो मनुष्येषु सत्यमेतद्वचो यतः॥
स्पृहणीयासि सर्वेषामेवं पीडयसे वपुः

1.25-2.25.60

अविज्ञातान्वयो नग्नः शूली भूतगणाधिपः॥
श्मशाननिलयो भस्मोद्धूलनो वृषवाहनः

1.25-2.25.61

गजाजिनो द्विजिह्वाद्यलंकृतांगो जटाधरः॥
विरूपाक्षः कथंकारं निर्गुणः स्यात्तवोचितः

1.25-2.25.62

गुणा ये कुलशीलाद्य वराणामुदिता बुधैः॥
तेषामेकोऽपि नैवास्ति तस्मिंस्तन्नोचितः स ते

1.25-2.25.63

शोचनीयतमा पूर्वमासीत्पार्वति कौमुदी॥
त्वं संवृत्ता द्वितीयासि तस्यास्तत्संगमाशया

1.25-2.25.64

तपोधनाः सर्वसमा वयं यद्यपि पार्वति॥
दुनोत्येव तवारंभः शूलायां यूपसत्क्रिया

1.25-2.25.65

वृषभारोहणं वासः श्मशाने पाणिसंग्रहः॥
सव्यालपाणिना क्षौमगजत्वग्बंधनः कथम्

1.25-2.25.66

जनहास्यकरं सर्वं त्वयारब्धमसांप्रतम्॥
स्त्रीभावाद्भूतिसंपर्क्कः कथं चाभिमतस्तव

1.25-2.25.67

निवर्तय मनस्तस्मादस्मात्सर्वविरोधिनः॥
मृगाक्षि मदनारातेर्मर्कटाक्षस्य प्रार्थनात्

1.25-2.25.68

विरुद्धवादिनं चैवं ब्रह्मचारिणमीश्वरम्॥
निशम्य कुपिता देवी प्राह वाचा सगद्गदम्

1.25-2.25.69

मा मा ब्राह्मण भाषिष्ठा विरुद्धमिति शंकरे॥
महत्तमो याति पुमान्देवदेवस्य निंदया

1.25-2.25.70

न सम्यगभिजानासि तस्य देवस्य चेष्टितम्॥
श्रृणु ब्राह्मण त्वं पापाद्यथास्मात्परिमुच्यसे

1.25-2.25.71

स आदिः सर्वजगतां कोस्य वेदान्वयं ततः॥
सर्वं जगद्यस्य रूपं दिग्वासाः कीर्त्यते ततः

1.25-2.25.72

गुणत्रयमयं शूलं शूली यस्माद्बिभार्ते सः॥
अबद्धाः सर्वतो मुक्ता भूता एव च तत्पतिः

1.25-2.25.73

श्मशानं चापि संसारस्तद्वासी कृपयार्थिनाम्॥
भूतयः कथिता भूतिस्तां बिभर्ति स भूतिभृत्

1.25-2.25.74

वृषो धर्म इति प्रोक्तस्तमारूढस्ततो वृषी॥
सर्पाश्च दोषाः क्रोधाद्यास्तान्बिभर्ति जगन्मयः

1.25-2.25.75

नानाविधाः कर्मयोगा जटारूपा बिभर्ति सः॥
वेदत्रयी त्रिनेत्राणि त्रिपुरं त्रिगुणं वपुः

1.25-2.25.76

भस्मीकरोति तद्देवस्त्रिपुरध्नस्ततः स्मृतः॥
एवंविध महादेवं विदुर्ये सूक्ष्मदर्शिनः

1.25-2.25.77

कथंकारं हि ते नाम भजंते नैव तं हरम्॥
अथ वा भीतसंसाराः सर्वे विप्र यतो जनाः

1.25-2.25.78

विमृश्य कुर्वते सर्वं विमृश्यैतन्मया कृतम्॥
शुभं वाप्यशुभं वास्तु त्वमप्येनं प्रपूजय

1.25-2.25.79

इति ब्रुवंत्यां तस्यां तु किंचित्प्रस्फुरिताधरम्॥
विज्ञाय तां सखीमाह किमप्येष विवक्षुकः

1.25-2.25.80

वार्यतामिति विप्रोऽयं महद्दूषणबाषकः॥
न केवलं पापभागी श्रोता वै स्यान्न संशयः

1.25-2.25.81

अथ वा किं च नः कार्यं वादेन सह ब्राह्मणैः॥
कर्णौ पिधाय यास्यामो यथा यः स्यात्ततास्तु सः

1.25-2.25.82

इत्युक्त्वोत्थाय गच्छंत्यां पिधाय श्रवणावुभौ॥
स्वरूपं समुपाश्रित्य जगृहे वसनं हरः

1.25-2.25.83

ततो निरीक्ष्य तं देवं संभ्रांता परमेश्वरी॥
प्रणिपत्य महेशानं तुष्टावावनता उमा

1.25-2.25.84

प्राह तां च महादेवो दासोऽस्मि तव शोभने॥
तपोद्रव्येण क्रीतश्च समादिश यथेप्सितम्

1.25-2.25.85

॥देव्युवाच॥
मनसस्त्वं प्रभुः शंभो दत्तं तच्च मया तव॥
वपुषः पितरावीशौ तौ सम्मानयितुमर्हसि

1.25-2.25.86

॥महादेव उवाच॥
पित्रा हि ते परिज्ञातं दृष्ट्वा त्वां रूपशालिनीम्॥
बालां स्वयंवरं पुत्री महं दास्यामि नान्यथा

1.25-2.25.87

तत्तस्य सर्वमेवास्तु वचनं त्वं हिमाचलम्॥
स्वयंवरार्थं सुश्रोणि प्रेरय त्वां वृणे ततः

1.25-2.25.88

इत्युक्त्वा तां महादेवः शुचिः शुचिषदो विभुः॥
जगामेष्टं तदा देशं स्वपुरं प्रययौ च सा

1.25-2.25.89

दृष्ट्वा देवीं तदा हृष्टो मेनया सहितोऽचलः

1.25-2.25.90

आलिंग्याघ्राय पप्रच्छ सर्वं सा च न्यवेदयत्॥
दुहितुर्देवदेवेन आज्ञप्तं तु हिमाचलः

1.25-2.25.91

स्वयंवरं प्रमुदितः सर्वलोकेष्वघोषयत्॥
अश्विनो द्वादशादित्या गन्धर्वरुडोरगाः

1.25-2.25.92

यक्षाः सिद्धास्तथा साध्या दैत्याः किंपुरुषा नगाः॥
समुद्राद्याश्च ये केचित्त्रैलोक्यप्रवरास्च ये

1.25-2.25.93

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥
त्रयस्त्रिंशच्च ये देवास्त्रयस्त्रिंशच्च कोटयः

1.25-2.25.94

जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम्॥
आमंत्रितस्तथा विष्णुर्मेरुमाह हसन्निव

1.25-2.25.95

तातास्माकं च सा देवी मेरो गच्छ नमामि ताम्॥
अथ शैलसुता देवी हैममारुह्य शोभनम्

1.25-2.25.96

विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम्॥
अप्सरोभिः प्रनृत्यद्भिः सर्वाभरणभूषिता

1.25-2.25.97

गंधर्वसंघैर्विविधैः किंनरैश्च सुशोभनैः॥
बंदिभिः स्तूयमाना च वीरकांस्यधरा स्थिता

1.25-2.25.98

सितातपत्ररत्नांशुमिश्रितं चावहत्तदा॥
शालिनी नाम पार्वत्याः संध्यापूर्णेदुमंडला

1.25-2.25.99

चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता॥
मालां प्रगृह्य सा तस्थौ सुरद्रुमसमुद्भवाम्

1.25-2.25.100

एवं तस्यां स्थितायां तु स्थिते लोकत्रये तदा॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः

1.25-2.25.101

उत्संगतलसंगुप्तो बभूव भगवान्भवः॥
जयेति यत्पदं ख्यातं तस्य सत्यार्थमीश्वरम्

1.25-2.25.102

अथ दृष्ट्वा शिशुं देवास्तस्य उत्संगवर्तिनः॥
कोयमत्रेति संमंत्र्य चुक्रुशुर्भृशरोषिताः

1.25-2.25.103

वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा॥
स बाहुरुद्यतस्तस्य तथैव समतिष्ठत

1.25-2.25.104

स्तंभितः शिशुरूपेण देवदेवेन लीलया॥
वज्रं क्षेप्तुं न शक्नोति बाहुं चालयितुं तदा

1.25-2.25.105

वह्निः शक्तिं तदा क्षेप्तुं न शशाक तथोत्थितः॥
यमोऽपि दंडं खड्गं च निरृतिस्तं शिशुं प्रति

1.25-2.25.106

पाशं च वरुणो राजा ध्वजयष्टिं समीरणः॥
सोमो गुडं धनेशश्च गदां सुमहतीं दृढाम्

1.25-2.25.107

नानायुधानि चादित्या मुसलं वसवस्तथा॥
महाघोराणि शस्त्राणि तारकाद्याश्च दानवाः

1.25-2.25.108

स्तंभिता देवदेवेन तथान्ये भुवनेषु ये॥
पूषा दंतान्दशन्दंर्बालमैक्षत मोहितः

1.25-2.25.109

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना॥
भगश्च नेत्रे विकृते चकार स्फुटिते च ते

1.25-2.25.110

बलं तेजश्च योगांश्च सर्वेषां जगृहे प्रभुः॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि

1.25-2.25.111

ब्रह्मा ध्यानमुपाश्रित्य बुबोध हरचेष्टितम्॥
सोऽभिगम्य महादेवं तुष्टाव प्रयतो विधिः

1.25-2.25.112

पौराणैः सामसंगीतैर्वेदिकैर्गुह्यनामभिः॥
नमस्तुभ्यं महादेव महादेव्यै नमोनमः

1.25-2.25.113

प्रसादात्तव बुद्ध्यादिर्जगदेतत्प्रवर्तते॥
मूढाश्च देवताः सर्वा नैनं बुध्यत शंकरम्

1.25-2.25.114

महादेवमिहायातं सर्वदेवनमस्कृतम्॥
गच्छध्वं शरणं शीघ्रं यदि जीवितुमिच्छत

1.25-2.25.115

ततः संभ्रम संपन्नास्तुष्टुवुः प्रणताः सुराः॥
नमोनमो महादेव पाहिपाहि जगत्पते

1.25-2.25.116

दुराचारान्भवानस्मानात्मद्रोहपरायणान्॥
अहो पश्यत नो मौढ्यं जानंतस्तव भाविनीम्

1.25-2.25.117

भार्यामुमां महादेवीं तथाप्यत्र समागताः॥
युक्तमेतद्यदस्माकं राज्यं गृह्येत चासुरैः

1.25-2.25.118

येषामेवंविधाबुद्धिरस्माभिः किं कृतं त्विदम्॥
अथ वा नो न दोषोऽस्ति पशवो हि वयं यतः

1.25-2.25.119

त्वयैव पतिना सर्वे प्रेरिताः कुर्महे विभो॥
ईश्वरः सर्व भूतानां पतिस्त्वं परमेश्वरः

1.25-2.25.120

भ्रामयस्यखिलं विश्वं यन्त्रारूढं स्वमायया॥
येन विभ्रामिता मूढाः समायाताः स्वयंवरम्

1.25-2.25.121

तस्मै पशुनां पतये नमस्तुभ्यं प्रसीद नः॥
अथ तेषां प्रसन्नऽभूद्देवदेवास्त्रियंबकः

1.25-2.25.122

यथापूर्वं चकारैतान्संस्तवाद्ब्रह्मणः प्रभुः॥
तारकप्रमुखा दैत्याः संक्रुद्धास्तत्र प्रोचिरे

1.25-2.25.123

कोयमंग महादेवो न मन्यामो वयं च तम्॥
ततः प्रहस्य बालोऽसौ हुंकारं लीलया व्यधात्

1.25-2.25.124

हुंकारेणैव ते दैत्याः स्वमेव नगरं गताः॥
विस्मृतं सकलं तेषां स्वयंवरमुखं च तत्

1.25-2.25.125

महादेवप्रभावेन दैत्यानां घोरकर्मणाम्॥
एवं यस्य प्रभावो हि देवदैत्येषु फाल्गुन

1.25-2.25.126

कथमीश्वरवाक्यार्थस्तस्मादन्यत्र मुच्यते॥
असंशयं विमुढास्ते पश्चात्तापः पुरा महान्

1.25-2.25.127

ईश्वरं भुवनस्यास्य ये भजंते न त्र्यंबकम्॥
ततः संस्तूयमानः स सुरैः पद्मभुवादिभिः

1.25-2.25.128

वपुश्चकार देवेशस्त्र्यंबकः परमाद्भुतम्॥
तेजसा तस्य देवास्ते सेंद्रचंद्रदिवाकराः

1.25-2.25.129

सब्रह्मकाः ससाध्याश्च वसुर्विश्वे च देवताः॥
सयमाश्च सरुद्राश्च चक्षुरप्रार्थयन्प्रभुम्

1.25-2.25.130

तेभ्यः परतमं चक्षुः स्ववपुर्द्रष्टुमुत्तमम्॥
ददावम्बापतिः शर्वो भवान्याश्चालस्य च

1.25-2.25.131

लब्ध्वा रुद्रप्रसादेन दिव्यं चक्षुरनुत्तमम्॥
सब्रह्यकास्तदा देवास्तमपश्यन्महेश्वरम्

1.25-2.25.132

ततो जगुश्च मुनयः पुष्पवृष्टिं च खेचराः॥
मुमुचुश्च तदा नेदुर्देवदुंदुभयो भृशम्

1.25-2.25.133

जगुगधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः॥
मुमुदुर्गणपाः सर्वे मुमोदांबा च पार्वती

1.25-2.25.134

ब्रह्माद्या मेनिरे पूर्णां भवानीं च गिरीश्वरम्॥
तस्य देवी ततो हृष्टा समक्षं त्रिदिवौकसाम्

1.25-2.25.135

पादयोः स्थापयामास मालां दिव्यां सुगंधिनीम्॥
सादुसाध्विति संप्रोच्य तया तं तत्र चर्चितम्

1.25-2.25.136

सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः॥
सर्वे सब्रह्मका देवा जयेति च मुदा जगुः

1.25-2.25

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये श्रीमहादेववैवाहिकोत्सावर्णनंनाम पञ्चविंशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc