भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · अध्याय 1.2.15

1.2.15.1

॥ नंदिकेश्वर उवाच ॥ ॥
तेजःस्तंभं विनिर्भिद्य संध्याभ्रमिव चंद्रमाः ॥
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान्

1.2.15.2

जटाजूटवता बालचंद्रचूडेन मौलिना ॥
कपालमालिकां वैधीं स्रजं चारग्वधी दधत्

1.2.15.3

नागकुंडलिभिः फालफलकोद्भासिलोचनैः ॥
पंचभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकंधरैः

1.2.15.4

शूलं कपालं डमरुं सारंगं परशुं धनुः ॥
खट्वांगममलं खड्गं दोर्भिर्नागं च धारयन्

1.2.15.5

श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ॥
सर्वालंकारसंपन्नः सर्वदेवैरभिष्टुतः

1.2.15.6

परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ॥
रूपं दृष्ट्वा स आनंदं ननर्त्त नलिनेक्षणः

1.2.15.7

न किंचिदपि जानानो मुमोह च सरोजभूः

1.2.15.8

दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः ॥
अथोदतिष्ठिपच्च तं सहुंक्रियश्चतुर्मुखम्

1.2.15.9

जगाद चाधिकारितामदाद्युवां समुद्धतौ ॥
न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम्

1.2.15.1.3.2.15.10

परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ॥
अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान्

1.2.15.11

अशासि पंचवक्त्रता यदोपहासितो ह्यहम् ॥
पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत्

1.2.15.12

तृतीय एष मंतुरप्यहो कथं नु सह्यते ॥
तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः

1.2.15.13

अयं च केतकच्छदो यदाप कूटसाक्षिताम् ॥
अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम्

1.2.15.14

शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत ॥

1.2.15.15

॥ श्रीमहेश्वर उवाच ॥ ॥
वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ॥
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः ॥
माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा

1.2.15.16

न तवातः परं जातु भक्तिहानिर्भवेन्मयि ॥
प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये ॥

1.2.15.17

इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ ॥
भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवंदनः

1.2.15.15

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनंनाम पञ्चदशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc