भाषा

ENहिગુ
ग्रंथ पाठ

स्कन्द पुराण · श्लोक 1.14-2

1.14-2.14.1

॥अर्जुन उवाच॥
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे॥
तदहं श्रोतुमिच्छामि विस्तरेण महामुने

1.14-2.14.2

॥नारद उवाच॥
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः॥
गुहः संस्थापयामास लिंगमेतच्च फाल्गुन

1.14-2.14.3

दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः॥
सर्वपापापहः पार्थ कुमारेशो न संशयः

1.14-2.14.4

॥अर्जुन उवाच॥
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी॥
विस्तरेण च मे ब्रूहि याथातथ्येन नारद

1.14-2.14.5

वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः॥
कथं स निहतश्चैव जातश्चैव कथं गुहः

1.14-2.14.6

कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम्॥
किं फलं चास्य लिंगस्य ब्रूहि तद्विस्तरान्मम

1.14-2.14.7

॥नारद उवाच॥
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च॥
श्रृणु चैकमनाः पार्थ कुमारचरितं महत्

1.14-2.14.8

मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः॥
षष्टिं सोऽजनयत्कन्या वीरिण्यां नाम फाल्गुन

1.14-2.14.9

ददो स दश धर्माय कश्यपाय त्रयोदश॥
सप्तविंशतिं सोमाय चतस्रोरिष्टनेमिने

1.14-2.14.10

भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः॥
नामधेयान्यमूषां च सपत्नीनां च मे श्रृणु

1.14-2.14.11

यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः॥
भानुर्लम्बा ककुद्भूमिर्विश्वा साध्या मरुत्वती

1.14-2.14.12

वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु॥
भानोस्तु देवऋषभ सुतोऽभवत्

1.14-2.14.13

विद्योत आसील्लंबायां ततश्च स्तनयित्नवः॥
ककुदः शकटः पुत्रः कीकटस्तनयो यतः

1.14-2.14.14

भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत्॥
विश्वेदेवाश्च विश्वाया अप्रजांस्तान्प्रचक्षते

1.14-2.14.15

साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः॥
मरुत्वान्सुजयंतश्च मरुत्वत्या बभूवतुः

1.14-2.14.16

नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः॥
वसोश्च वसवश्चाष्टौ मुहूर्तायां मुहूर्तकाः

1.14-2.14.17

ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम्॥
संकल्पायाश्च संकल्पः कामः संकल्पजः सुतः

1.14-2.14.18

सुरूपासूत तनयान्रुद्रानेकादशैव तु॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः

1.14-2.14.19

अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा॥
रुद्रस्य पार्षदाश्चान्ये विरूपायाः सुताः स्मृताः

1.14-2.14.20

प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ॥
जज्ञे सनी(ची?)तथा पुत्रमथर्वागिरसं प्रभुम्

1.14-2.14.21

कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा॥
अस्त्रगामो ययोः पुत्रः ससंहारः प्रकीर्तितः

1.14-2.14.22

पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः॥
पतंग्यसूत पतगान्यामिनी शलभानथ

1.14-2.14.23

ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा॥
अथ कश्यपपत्नीनां यत्प्रसूदमिदं जगत्

1.14-2.14.24

श्रृणु नामानि लोकानां मातॄणां शंकराणि च॥
अदितिर्दितिर्दनुः सिंही दनायुः सुरभिस्तथा

1.14-2.14.25

अरिष्टा विनता ग्रावा दया क्रोधवशा इरा॥
कद्रुर्मुनिश्च ते चोभे मातरस्ताः प्रकीर्तिताः

1.14-2.14.26

आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः॥
दनोश्च दानवाः प्रोक्ता राहुः सिंहीसुतो ग्रहः

1.14-2.14.27

दनायुषस्तथा जातो दनायुश्च गणो बली॥
गावश्च सुरभेर्जातारिष्टापुत्रा युगंधराः

1.14-2.14.28

विनतासूत अरुणं गरुडं च महाबलम्॥
ग्रावायाः श्वापदाः पुत्रा गणः क्रोधवशस्तथा

1.14-2.14.29

जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः॥
कद्रूसुताः स्मृता नागा मुनेरप्सरसां गणाः

1.14-2.14.30

तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथाऽपरः

1.14-2.14.31

ततो निहतपुत्रा सा दितिराराध्य कश्यपम्॥
अयाचत वरं देवी पुत्रमन्यं महाबलम्

1.14-2.14.32

समरे शक्रहंतारं स तस्या अददात्प्रभुः॥
नियमे चापि वर्तस्व वर्षाणां च सहस्रकम्

1.14-2.14.33

इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता॥
वर्तंत्या नियमे तस्याः सहस्राक्षः समाहितः

1.14-2.14.34

उपासामाचरद्भक्त्या सा चैनमन्वमन्यत॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः

1.14-2.14.35

उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता॥
॥दितिरुवाच॥
अत्रोत्तीर्णव्रतप्रायां विद्धि देवसत्तम

1.14-2.14.36

भविष्यति तव भ्राता तेन सार्धमिमां श्रियम्॥
भोक्ष्यसे त्वं यथानयायं त्रैलोक्यं हतकंटकम्

1.14-2.14.37

इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा॥
दिवा सुप्ता दितिर्देवी भाव्यर्थबलनोदिता

1.14-2.14.38

तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत्॥
जठरस्थं दितेर्गर्भं चक्रे वज्रेण सप्तधा

1.14-2.14.39

एकैकं च पुनः खण्डं चकार मघवा ततः॥
सप्तधा सप्तधा कोपादुद्बुध्य च ततो दितिः

1.14-2.14.40

न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत्॥
वज्रेण कृत्त्यमानानां बुद्धा सा रोदनेन च

1.14-2.14.41

ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत्॥
निर्गत्य जठरात्तस्मात्ततः प्रांजलिरग्रतः

1.14-2.14.42

उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम्॥
दिवास्वापं कृथा मातः पादाक्रांतशिरोरुहा

1.14-2.14.43

सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव॥
कृता एकोनपंचाशद्भागा वज्रेण ते सुताः

1.14-2.14.44

सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम्॥
दास्यामि तेषां स्थानानि दिवि यावदहं दिते

1.14-2.14.45

मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति॥
इत्युक्ता सा च सव्रीडा दितिर्जाता निरुत्तरा

1.14-2.14.46

सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः॥
ततः पुनश्च भर्तारं दितिः प्रोवाच दुःखिता

1.14-2.14.47

पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम्॥
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्

1.14-2.14.48

न ददास्युत्तरं विद्धि मृतामेव प्रजापते॥
इत्युक्तः स तदोवाच तां पत्नीमतिदुःखिताम्

1.14-2.14.49

दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे॥
वज्रसारमयैरंगैरच्छेद्यैरायसैर्दृढैः

1.14-2.14.50

वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः॥
सा तु लब्धवरा देवी जगाम तपसे वनम्

1.14-2.14.51

दशवर्षसहस्राणि तपो घोरं समाचरत्॥
तपसोंऽते भगवती जनयामास दुर्जयम्

1.14-2.14.52

पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम्॥
स जातामात्र एवाभूत्सर्वशा स्त्रार्थपारगः

1.14-2.14.53

उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं सुतम्

1.14-2.14.54

बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥
तेषआमपचितिं कर्तुमिच्छे शक्रवधादहम्

1.14-2.14.55

बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली॥
ससैन्यं समरे शक्रं स च बाह्वायुधोऽजयत्

1.14-2.14.56

पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा॥
मातुरंतिकमागच्छद्याचमानं भयातुरम्

1.14-2.14.57

एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः॥
आगता तत्र संत्रस्तावथो ब्रह्मा जगाद तम्

1.14-2.14.58

मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम्॥
अवमानो वधः प्रोक्तो वीरसंभावितस्य च

1.14-2.14.59

अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः॥
शत्रुं ये घ्नंति समरे न ते वीराः प्रकीर्तिताः

1.14-2.14.60

कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते॥
यतामान्यतमं मत्वा त्वया मातुर्वचः कृतम्

1.14-2.14.61

तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम्॥
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्

1.14-2.14.62

न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया॥
त्वं सुरासुरनाथो वै मम च प्रपितामहः

1.14-2.14.63

करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥
न च कांक्षे शक्रभुक्तामिमां त्रैलोक्यराजताम्

1.14-2.14.64

परभुक्ता यथा नारी परभुक्तामिवस्रजम्॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम्

1.14-2.14.65

॥ब्रह्मोवाच॥
तपसो न परं किंचित्तपो हि महतां धनम्॥
तपसा प्राप्यते सर्वं तपोयोग्योऽसि पुत्रक

1.14-2.14.66

॥वज्रांग उवाच॥
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत्॥
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः

1.14-2.14.67

॥ब्रह्मोवाच॥
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत॥
अनया चित्तबुद्ध्या तत्त्वयाप्तं जन्मनः फलम्

1.14-2.14.68

इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम्॥
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसंभवः

1.14-2.14.69

वरांगीति च नामास्याः कृतवांश्च पितामहः॥
जगाम च ततो ब्रह्मा कश्यपेन समं दिवम्

1.14-2.14.70

वज्रांगोऽपि तया सार्धं जगाम तपसे वनम्॥
ऊर्द्धूबाहुः स दैत्येंद्रोऽतिष्ठदब्दसहस्रकम्

1.14-2.14.71

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः॥
तावानधोमुखः कालं तावत्पंचाग्निसाधकः

1.14-2.14.72

निराहारो घोरतपास्तपोराशिरजायत॥
ततः सोंऽतर्जले चक्रे कालं वर्षसहस्रकम्

1.14-2.14.73

जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता॥
तस्यैव तीरे सरसस्तत्परा मौनमाश्रिता

1.14-2.14.74

निराहारं पतिं मत्वा तपस्तेपे पतिव्रता॥
तस्यास्तपसि वर्तंत्या इंद्रश्चक्रे विभीषिकाम्

1.14-2.14.75

भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः॥
अपविध्य दृशं तस्या मूत्रविष्ठे चकार सः

1.14-2.14.76

तथा विलोलवसनां विलोलवदनां तथा॥
विलोलकेशां तां चक्रे विधित्सुस्तपसः क्षतिम्

1.14-2.14.77

ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः॥
ततो भुजंगरूपेण बद्धा चरणयोर्द्वयोः

1.14-2.14.78

अपाकर्षत दूरं स तस्माद्देवभृतस्तथा॥
तपोबालाच्च सा तस्य न वध्यत्वं जगाम ह

1.14-2.14.79

क्षमया च महाभागा क्रोधमण्वपि नाकरोत्॥
ततो गोमायुरूपेण तमदूषयदाश्रमम्

1.14-2.14.80

अग्निरूपेण तस्याश्च स ददाह महाश्रमम्॥
चकर्ष वायुरूपेण महोग्रेण च तां शुभाम्॥
एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः

1.14-2.14.81

विरराम यदा नैव वज्रांगमहिषी तदा॥
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्यत

1.14-2.14.82

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः॥
उवाच तां वरारोहां त्वरयाथ सुलोचनाम्

1.14-2.14.83

॥शैल उवाच॥
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम्॥
अतिखेदं करोत्येष ततः क्रुद्धस्तु वृत्रहा

1.14-2.14.84

एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः॥
तस्मिन्याते स भगवान्काले कमलसंभवः

1.14-2.14.85

तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये

1.14-2.14.86

॥ब्रह्मोवाच॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन॥
एवमुक्तस्तदोत्थाय दैत्येंद्रस्तपसो निधिः॥
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्

1.14-2.14.87

॥वज्रांग उवाच॥
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः॥
तपोधर्मरतिश्चास्तु वृणोम्येतत्पितामह

1.14-2.14.88

एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः॥
उपेक्षते च शक्रं स भाव्यर्थं कोऽतिवर्तते

1.14-2.14.89

ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि॥
भाव्यर्थं नाति वर्तंते वेलामिव महोदधिः

1.14-2.14.90

इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत॥
वज्रांगोऽपि समाप्ते तु तपसि स्थिरसंयमः

1.14-2.14.91

आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके॥
भार्याहीनोऽफलश्चेति स संचिंत्य इतस्ततः

1.14-2.14.92

विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम्॥
विलोकयन्ददर्शाथ इहामुत्र सहयिनीम्

1.14-2.14.93

रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्

1.14-2.14.94

॥वज्रांग उवाच॥
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके॥
कथं रोदिषि वा बाले मयि जीवति भर्तरि॥
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि

1.14-2.14.95

गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम्॥
न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मतोस्ति

1.14-2.14

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये वज्रांगेतिहासवर्णनं नाम चतुर्दशोऽध्यायः

मूल पाठ: skandapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc