भाषा

ENहिગુ
ग्रंथ पाठ

शिशुपालवध · अध्याय 9

9.1

अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत्

9.2

गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा

9.3

विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः

9.4

अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः

9.5

उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमये ऽपि सतामुतितं खलूच्चतरमेव पदम्

9.6

प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि

9.7

नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः

9.8

गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे ऽवनतिम् ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम्

9.9

द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव

9.10

अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका

9.11

अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी

9.12

अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः

9.13

रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा सुलभो ऽन्यजन्मनि स एव पतिः

9.14

विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः

9.15

अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव

9.16

निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः

9.17

दिवसो ऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि

9.18

पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे

9.19

व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः

9.20

किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः

9.21

स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः

9.22

अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे

9.23

ददृशे ऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः

9.24

अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत

9.25

वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम्

9.26

विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः

9.27

कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति

9.28

नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम्

9.29

प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो ऽपि सहसोपचयम्

9.30

उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना

9.31

अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे

9.32

उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः

9.33

रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम्

9.34

दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।
मुहुरामृशन् मृगधरो ऽग्रकरैरुदशिस्वसत् कुमुदिनीवनिताम्

9.35

प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम्

9.36

अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषो ऽवतारयति मानविषम्

9.37

अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः

9.38

उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम्

9.39

भवनोदरेषु परिमन्दतया शयितो ऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः

9.40

अविभावितेषुविषयः प्रथमं मदनो ऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे

9.41

युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणो ऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदे ऽङ्गनामनसि चावसरम्

9.42

ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः

9.43

इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम्

9.44

सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः

9.45

कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत्

9.46

अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः

9.47

स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः

9.48

भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत्

9.49

ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां

9.50

न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः

9.51

वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः

9.52

निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः

9.53

विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः

9.54

अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया

9.55

प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः

9.56

न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे

9.57

दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम्

9.58

प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियते ऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम्

9.59

अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी

9.60

तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसे ऽपि विससर्ज सखीं

9.61

ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः

9.62

ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि

9.63

मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः

9.64

तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया

9.65

उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः

9.66

दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन्

9.67

कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः

9.68

विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः

9.69

उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः

9.70

दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरे ऽनुपदिभिः प्रयये

9.71

निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम्

9.72

उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत्

9.73

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतो ऽतिभरात् कथमप्यपाति न वधूकरतः

9.74

अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः

9.75

कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे

9.76

पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद को ऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत्

9.77

उदितोरुसादमतिवेपथुमत्सुदृशो ऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत्

9.78

पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः

9.79

मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः

9.80

तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा

9.81

न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम्

9.82

इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः

9.83

अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथो ऽवतस्थे ऽशकुनेन स्खलितः किलेतरो ऽपि

9.84

आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य

9.85

सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य

9.86

दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न

9.87

इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम्

मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc