भाषा

ENहिગુ
ग्रंथ पाठ

शिशुपालवध · अध्याय 19

19.1

अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा

19.2

आपतन्तममुन्दूरादूरीकृतपराक्रमः ।
बलो ऽवलोकयामास मातङ्गमिव केसरी

19.3

जजौजोजाजिजिज्जाजी तं ततो ऽतिततातितुत् ।
भाभो ऽभीभाभिभूभारारारिररिरीररः

19.4

भवन्भवाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्यापतद्रथः

19.5

रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितमा महेष्वा स विचक्षणे

19.6

दिशमर्कमिवावाचीम् मूर्च्छागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः

19.7

कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम्

19.8

उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् ।
तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत

19.9

पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाचापमुदायुधः

19.10

समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः

19.11

दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः

19.12

नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।
बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम्

19.13

प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः

19.14

कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम्

19.15

याबभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेनाससार ताम्

19.16

ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम्

19.17

दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः

19.18

निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः

19.19

तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः

19.20

सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः

19.21

सोढुं तस्य द्विषो नालमवयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम्

19.22

केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा

19.23

सादरं युद्धमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम्

19.24

इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः

19.25

अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्ल्गत्कलभसमानीचतुरङ्गया

19.26

ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी

19.27

सकारनानारकास कायसाददसायका ।
रसाहवावाहसार नादवाददवादना

19.28

लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम्

19.29

सासेनागमनारम्भे रसेनासीदनारता ।
तारनादजनामत्त धीरनागमनामया

19.30

धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् ।
शौर्यनुरागनिकषः सा हि वेलानुजीविनाम्

19.31

दिवमिन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानो ऽसिलतां को ऽमलामलसम्पदम्

19.32

कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम्

19.33

वाहनाजनि मानासे साराजावनमा ततः ।
मत्तसारगराजेभे भारीहावज्जनध्वनि

19.34

निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा

19.35

अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः

19.36

करेणुः प्रम्थितो ऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ

19.37

धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।
सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः

19.38

न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रति पत्तिषु

19.39

बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी

19.40

नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिराप तान्वियाततयान्विता

19.41

विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम्

19.42

संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या

19.43

विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम्

19.44

वारणागगभीरा सा साराभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका

19.45

अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः

19.46

प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।
ववृषेविकसद्दानंयुधमाप्यविषाणिभिः

19.47

पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वमदीप्यत पदातिभिः

19.48

केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत

19.49

विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित्

19.50

अन्येन विदधे ऽरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना

19.51

सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।
तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम्

19.52

शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशे ऽन्यो रावणवदलङ्करणभूषितः

19.53

द्विषद्विशसनच्छेदनिरस्तोरुयुगो ऽपरः ।
सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः

19.54

भीमतामपरो ऽम्भोधिसमे ऽधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे

19.55

दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः

19.56

रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चिद्विपपाट विकासिनि

19.57

यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत्तत्यजे युधि जीवितम्

19.58

अयशोभिदुरालोके कोपधामरणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते

19.59

स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा

19.60

अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा

19.61

स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन्

19.62

वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः

19.63

पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः

19.64

रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात्

19.65

रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।
गतासुरन्तरा दन्ती वरण्डक इवाभवत्

19.66

भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः

19.67

निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां

19.68

निपीडनादिव मिथो दानतोयनारतम् ।
वपुषामदयापातादिभानामभितो ऽगलत्

19.69

रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्रमलोडयत्

19.70

शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्रासीदतिसीदति

19.71

अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः

19.72

अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।
कनत्सकामसेनाके मन्दकामकमस्यति

19.73

दधतो ऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयमुपाययुः

19.74

येनाङ्गमूहे व्रणवत्सरुचा परतो ऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतो ऽमरैः

19.75

निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम्

19.76

अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा

19.77

विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः

19.78

असृग्जनो ऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम्

19.79

चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनमाबभौ

19.80

बन्धौ विपन्ने ऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके

19.81

कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव

19.82

युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान्पराजिग्ये मानवानभियोगतः

19.83

अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता

19.84

नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना

19.85

अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया

19.86

विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः

19.87

उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैरदृश्यत परः पुमान्

19.88

तं श्रिया घनयानस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयानघया श्रितम्

19.89

विद्विषो ऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम्

19.90

विदितं दिवि के ऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिमेति नः

19.91

नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत्

19.92

तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः

19.93

पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।
योयो गुणेन संयुक्तः स स कर्णान्तमाययौ

19.94

प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरे ऽपि पुरो ऽपरैः

19.95

दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेपैकक्षणेनैव सायकानहितांश्च सः

19.96

शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः

19.97

न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।
मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि

19.98

लोकालोकी कलो ऽकल्ककलिलो ऽलिकुलालकः ।
कालो ऽकलो ऽकलिः काले कोलकेलिकिलः किल

19.99

अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने

19.100

वररो ऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः

19.101

मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम्

19.102

राजराजी रुरोजाजेरजिरे ऽजो ऽजरो ऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः

19.103

उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः

19.104

क्रूरारिकारि कीरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोर्ऽकरुक्

19.105

विधातुमवतीर्णो ऽपि लघिमानमसौ भुवः ।
अनेकमरिसंघातमकरोद्भूमिवर्धनम्

19.106

दारी दरदरिद्रो ऽरिदारूदारो ऽद्रिदूरदः ।
दूरादरौद्राददरद्रोदोरुद्दारुरादरी

19.107

एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः

19.108

शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरे ऽरिशिरः शरैः

19.109

व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतो ऽपि हृदये लेगुरेषां न पत्रिणः

19.110

नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः

19.111

आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम्

19.112

भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः

19.113

मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः

19.114

दाददो दद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददो ऽददः

19.115

प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः

19.116

सदामदबलप्रायः समुद्धृरसो बभौ ।
प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः

19.117

द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः

19.118

सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।
महो दधे ऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम्

19.119

इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेर् एत्याधोमुख्यं प्रविशन्भूमिमाशु ।
शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम्

19.120

सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेर् एकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे

मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc