शिशुपालवध · अध्याय 16
दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः
अभिधाय तदा तदप्रियं शिशुपालो ऽनुशयं परं गतः ।
भवतो ऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम्
विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः
अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम्
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरके ऽपि संप्रति ।
प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम्
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।
सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः
विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचो ऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना
मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा
अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम्
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात्
हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव को ऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः
परितप्यत एव नोत्तमः परितप्तो ऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयो ऽधमः
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता
परितोषयिता न कश्चन स्वगतो यस्य गुणो ऽस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम्
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।
वदिता न लघीयसो ऽपरः स्वगुणं तेन वदत्यसौ स्वयम्
विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
दधतो ऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे
नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम्
समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।
हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः
यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम्
निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत्
विदुरेष्यदपायमात्मना परतः श्रद्दधते ऽथवा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीते ऽनुभवादृते ऽल्पधीः
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।
अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम्
अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत्
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनको ऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः
अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम्
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
भजते कुपितो ऽप्युदारधीरनुनीतिं नतिमात्रकेण सः
हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठमीक्षते वदनं सो ऽपि न जातु विद्विषाम्
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधते ऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते
समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम्
तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे
दधतो ऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम्
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः ।
अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ
न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।
चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम्
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः
भूतभूतिरहीनभोगभाग्विजितानेकपुरो ऽपि विद्विषाम् ।
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम्
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित्
घनपत्रभृतो ऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति
इति पूर इवोदकस्य यः सरितां प्रावृषिजस् तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः
इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति
परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वये ऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नो ऽधरो ऽलक्तकैर् अच्छाच्छे पतिताञ्जने च नयने श्रोण्यो ऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषाम् इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि
विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यते ऽसौ
मूल पाठ: Śiśupālavadha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0