सिद्धार्थचरित्रकाव्य · भाग 2133
सवासनोन्मूलितसर्वकिल्विषस्तपोधनः कश्चिदपश्चिमः सताम् ॥ 6.42 ॥
अमुष्य यः शासनमाश्रितो जनो जराविकारादितरङ्गभङ्गुरम् ।
क्रमेण निस्तीर्य स जन्मसागरं प्रयाति निर्वाणपदं निरुत्तरम् ॥ 6.43 ॥
इति प्रवीराः क्षितिपालनन्दनप्रबोधनार्थं विबुधानुभावतः ।
वितेनिरे वाङ्मनसातिगोचरं तपोनिधेस्तस्य चरित्रवर्णनम् ॥ 6.44 ॥
इत्थं श्रुत्वा सारथीनां वचस्तल्लब्धोपायः संसृतेर्निष्क्रमाय ।
सन्तुष्टान्तर्मानसो राजसूनुर्भूयो ऽप्यैच्छत् कर्तुमुद्यानलीलाम् ॥ 6.45 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये षष्ठः सर्गः ॥
सप्तमः सर्गः
सिद्धार्थस्योद्यानप्रवेशः
प्रचोदिताश्वः पुनरेव सूतैः प्रतोदहस्तैर्नरलोकवीरः ।
आखण्डलोदयानमनो ऽभिराममाराममत्यद्भुतमाविवेश ॥ 7.1 ॥
विद्यागृहं पञ्चमपाठकानां विकल्पतूणीरमनन्ययोनेः ।
गञ्जागृहं षट्पदकामिनीनां क्रीडागृहं किञ्च वसन्तलक्ष्म्याः ॥ 7.2 ॥
चराचराणमभिवन्दनीयमागन्तुमुद्यानामहीरुहस्तम् ।
मरुद्वशादानमितैः शिरोभिर्बद्धप्रबालाञ्जलयः प्रणेमुः ॥ 7.3 ॥
परागसम्पत्सिकतावकीर्णे पर्युक्षिते पुष्परसैः पतद्भिः ।
कृतोपहारे गलितैः प्रसूनैरुद्यानमध्ये विजहार वीरः ॥ 7.4 ॥
लताङ्गहारैर्ललितालिगीतैर्वनप्रियामञ्जुरवैश्च वाद्यैः ।
आरामभूमिं स विलोक्य मेने सङ्गीतशालामिव शम्बरारेः ॥ 7.5 ॥
तरुप्रसूनान्यपचेतुकामा वामालका मन्दपदं चरन्त्यः ।
कुमारसेवार्थमुपस्थितानां शङ्कां वितेनुस्तरुदेवतानाम् ॥ 7.6 ॥
आलापमारामविहारिणीनामाकर्णयन्तो हरिणेक्षणानाम् ।
विलज्जमाना इव बद्धमौनास्तस्थुः क्षणं तत्र वसन्तघोषाः ॥ 7.7 ॥
मञ्जीरनादच्छलतो ममार्तिं न सुभ्रु! कुर्या इति नाथतेव ।
पदेन पङ्केरुहकोमलेन पस्पर्श काचिच्छनकैरशोकम् ॥ 7.8 ॥
अशोकयष्टिस्तरुणीजनस्य पादाम्बुजस्पर्शमिवासहिष्णुः ।
नवप्रवालप्रसवापदेशात् कोपानलज्वालमिवोत्ससर्ज ॥ 7.9 ॥
सुधामरीचिद्युतिशीतलेन कराम्बुजस्पर्शसुखेन काचित् ।
उद्भिद्यमानांकुररोमहर्षं पुत्रागतां प्रापयति स्म चूतम् ॥ 7.10 ॥
असूत सद्यः सहकारशाखी नवांकुरन् पुङ्खितचारुपत्रान् ।
अनन्ययोनेरभिमानहेतू नरुन्तुदान् पान्थबधूजनानाम् ॥ 7.11 ॥
सौगन्धिकेन्दीवरवासितेन सलीलमन्तर्मुखसम्भृतेन ।
पुराणमाध्वीकरसेन काचिदशोकतां केसरमानिनाय ॥ 7.12 ॥
मनोज्ञगन्धैर्वकुलद्रुमाणां स्वयं विकीर्णैः सुमनोनिकायैः ।
लताप्रतानेन विचित्रमेका सङ्कल्पयामास विकल्पकाञ्चीम् ॥ 7.13 ॥
उपाहृतैः काञ्चनपुष्पजालैरुदारगन्धैर्नवमल्लिकायाः ।
आपूरयन्ती निजकेशपाशमनङ्गतूणीरमिवाबबन्ध ॥ 7.14 ॥
आवर्ज्यशाखां करपल्लवेन प्रसह्य पुष्पापचयोन्मुखायाः ।
रुषेव कस्याश्चिदशोकयष्टिस्तिरस्करोति स्म दृशं परागैः ॥ 7.15 ॥
करेण साकं मम कोमलेन स्पर्धामिदं किं परुषं भजेत ।
इत्यात्तरोषेव सलीलमेका चूतप्रवालस्य चकार भङ्गम् ॥ 7.16 ॥
सिन्दूरसौन्दर्यसहोदरेण शेफालिकापुष्परजःकणेन ।
चकार सख्याः सविलासमेका फालस्थले चारुतमालपत्रम् ॥ 7.17 ॥
आकृष्य शाखाः सदयं लतानामालूय हस्तेन नवप्रवालम् ।
माणिक्यभूषामपसार्य कण्ठे निवेशयामास पतिः परस्याः ॥ 7.18 ॥
काचित् प्रगल्भा रमणस्य कर्णे निवेशयन्ती किल कर्णपूरम् ।
आवेष्ट्य कण्ठं भुजबन्धनेन कपोलकान्तिं परिचुम्बति स्म ॥ 7.19 ॥
नवप्रसूनैः सकलाङ्गनद्धैर्मनोहराः काश्चन वारिजाक्ष्यः ।
अयुग्मबाणायुधदेवतानामाविष्कृतानामवहन्नभिवयाम् ॥ 7.20 ॥
स्तनाभिरामस्तबकोज्ज्वलानां दन्तच्छदापाटलपल्लवानाम् ।
मध्ये लतानाअं निभृतं वसन्तीं सखीं विवेक्तुं न शशाक काचित् ॥ 7.21 ॥
इत्थं कुमारस्य सहावराधैः सलीलमारामविहारभाजः ।
आलोकनायेव सहस्रभानुराकाशमध्यं परमध्यरुक्षत् ॥ 7.22 ॥
चण्डातपस्पर्शविवर्धमानमरीचिकावापिविहारदक्षः ।
सन्धुक्षयंस्तापमतीव तासां मध्याह्नशंसी मरुदाजगाम ॥ 7.23 ॥
छायास्तरूणामभितः प्रवृत्ताश्चण्डातपे क्षन्तुमिवासमर्थाः ।
मूलालवालं मुहुरम्बुसेकसञ्जातशैत्यं शनकैरुपेयुः ॥ 7.24 ॥
विहारसञ्जातपरिश्रमाणां विलासिनीनामलिकस्थलीषु ।
प्रदुर्बभूवुः श्रमवारिलेशाः प्रद्युम्नकीर्त्यङ्करनिर्विशेषाः ॥ 7.25 ॥
धर्मोदबिन्दुप्रकरा विरेजुः कपोलपालीषु नितम्बिनीनाम् ।
स्नानार्थमानेतुममूः पुरस्तात् तडाकदूता इव सम्प्रयाताः ॥ 7.26 ॥
आरामभूमावतिवाह्य तापं माध्याह्निकं मध्यमलोकपालः ।
आसेव्यमानो वरवर्णिनीभिरम्भोविहारार्थमवाप वापीम् ॥ 7.27 ॥
मन्दानिलान्दोलितवीचिमालाडोलायमानोन्मदराजहंसीम् ।
सम्फुल्लकल्हारविजृम्भमाणसौरभ्यपूरप्लवमानभृङ्गीम् ॥ 7.28 ॥
कुमुद्वतीकोशपुटावतीर्णमाध्वीकधारामधुरप्रवाहाम् ।
उत्तुङ्गकल्लोलवितानरत्नरङ्गस्थलीचंक्रममाणमत्स्याम् ॥ 7.29 ॥
एकत्र फुल्लैर्नवपुण्डरीकैर्गङ्गानुषक्तामिव दृश्यमानाम् ।
रक्तारविन्दैरितरत्र भिन्नैः शोणोपगूढामिव शोभमानाम् ॥ 7.30 ॥
पतत्रिपक्षप्रविकीर्णपद्मपरागसिन्दूरितदिग्विभागाम् ।
स शीकरासूत्रितदुर्दिनाभालोक्य वापीमधिकं ननन्द ॥ 7.31 ॥
दुढावबद्धायतकेशपाशैः शृङ्गानुषङ्गोज्ज्वलपाणिपद्मैः ।
सहावरोधैः स विहार वापीमवातरत् पाशधरप्रभावः ॥ 7.32 ॥
तत्पूर्वमभ्यागतमादरेण तमूर्मिहस्तैः परितभ्य वापी ।
कर्णाभिरामैः कलहंसनादैर्वार्त्तानुयोगं मधुरं चकार ॥ 7.33 ॥
अन्तर्विगाढे सति सुन्दरीभिरुद्वेलतां प्राप महातडागः ।
जलाशयाः स्त्रीषु कृतानुषङ्गाः कथं नु वेलां न विलङ्घ्यन्ति ॥ 7.34 ॥
कठोरकान्ताकुचमण्डलानामाघातभीता इव वेपमानाः ।
कल्लोलमालाः कणिकापदेशान्मुक्तोपहारानुपनिन्युरासाम् ॥ 7.35 ॥
पद्माकरे पङ्कजलोचनाभिर्नरेन्द्रसूनुर्विजहार सार्धम् ।
सलीलमन्तःपुरिकाङ्गनाभिः साकं प्रचेता इव वारिराशौ ॥ 7.36 ॥
कान्ताकरोदञ्चितवारिधाराः कान्तस्य वाह्वोरुपरि प्रकीर्णाः ।
अयत्नबालव्यजनोपचारचातुर्यधुर्याः क्षणमात्रमासन् ॥ 7.37 ॥
परिस्फुरच्छीकरदन्तुराङ्गं पर्यायवल्गत्कुचकुम्भहारम् ।
काश्चित् करैः कान्तमिवापराद्धमास्फालयामासुरमन्दमम्भः ॥ 7.38 ॥
तरङ्गरङ्गे सह भृङ्गगानैः सरोरुहे ताण्डवमादधाने ।
हस्ताम्बुजैरात्तमृणालदण्डैरवादयन् वारिमृदङ्गमन्याः ॥ 7.39 ॥
निमज्जनोन्मज्जनरागिणीभिर्नितम्बिनीभिर्निविडस्तडागः ।
अशुम्भदम्भोनिधिरन्तरान्तराविर्भवन्तीभिरिवाप्सरोभिः ॥ 7.40 ॥
क्रीडातडाकं क्षितिपालसूनुः केयूरभोगीन्द्रवृतेन दोष्णा ।
ममन्थ भूभारधुरन्धरेण मन्थाद्रिणा सिन्धुमिवाब्जनाभः ॥ 7.41 ॥
क्षोणीभुजा कुंकुमवारिधारा यन्त्रप्रयुक्ता रमणीमुखेषु ।
पपात पंकेरुहकाननेषु प्रभेव भानोः प्रथमावतारा ॥ 7.42 ॥
वामभ्रुवस्तं मणिशृङ्गमुक्तैरवाकिरन् कुंकुमवारिपूरैः ।
तथागतः सो ऽयमतीव रेजे सपल्लवश्रीरिव पारिजातः ॥ 7.43 ॥
कस्याश्चिदाविष्कृतचन्द्रिकायाः कराब्जयन्त्रप्रहिताम्बुधारा ।
पपात पत्युर्मणिमौलिबन्धे गङ्गेव देवस्य जटाकलापे ॥ 7.44 ॥
स्वहस्तयन्त्रप्रहिताभिरद्भिः पिधाय कस्याश्चन नेत्रयुग्मम् ।
विटः परस्या विनिमीलिताक्ष्याश्चुचुम्ब बिम्बाधरमादरेण ॥
कयाचिदभ्यर्णजुषः सलीलं कान्तस्य कण्ठे प्रहिताम्बुधारा ।
चेतोभुवा चित्तमृगं ग्रहीतुं व्यापारिता वागुरितेव रेजे ॥ 7.46 ॥
वक्त्रे मनोज्ञस्मितचन्द्रिकाभूद् वक्षोरुहे निर्झरकान्तिरासीत् ।
मध्ये बभूवाभ्रसरिद्विलासो वामभ्रुवां मज्जनवारिधारा ॥ 7.47 ॥
आप्लावयामास करोदकेन वक्त्रं स कस्याश्चन मानवत्याः ।
तदेव तन्मानपरिग्रहस्य जलाञ्जलिप्रक्रममाललम्बे ॥ 7.48 ॥
निमज्य कासाञ्चिदुदञ्चितानां वक्षोरुहाः प्रक्षरदम्बुधाराः ।
चकाशिरे चञ्चुपुटापकृष्टमृणालनाला इव चक्रवाकाः ॥ 7.49 ॥
निराकृते कापि तरङ्गवातैः स्तनोत्तरीये सति लज्जमाना ।
कुचस्थलं नव्यनखव्रणाङ्कं डिण्डीरपिण्डेन तिरश्चकार ॥ 7.50 ॥
कस्याश्चिदन्तःसलिले निमज्य समुच्चलन्त्याः सरसं मुखाब्जम् ।
समुज्जिहानस्य समुद्रमध्यात् तारापतेर्बिम्बमिवाबभासे ॥ 7.51 ॥
अम्भोविहाराकुलितैः पयोभिरपाकृतेष्वञ्जनमण्डनेषु ।
रोषादिवान्तःपुरमुन्दरीणां नेत्रारविन्दान्यरुहणीबभूवुः ॥ 7.52 ॥
पयोधराः पङ्कजलोचनानां पाथोविहारे पतदम्बुधाराः ।
नागेन्द्रकुम्भा इव नद्धहाराः सनिर्झरौघा इव शैलशृङ्गाः ॥ 7.53 ॥
अनङ्गसाम्राज्यमहाभिषेककुम्भाविवाम्भोरुहलोचनायाः ।
वक्षोरुहौ मङ्गलशृङ्गसंस्थैरवाकिरन् वारिभरैः परस्याः ॥ 7.54 ॥
बिभूषणैर्विद्रुमपुष्यरागवैडूर्यगारुत्मतपद्मरागैः ।
अङ्गच्युतैरम्बुजलोचनानां रत्नाकरो ऽभूत् कमलाकरो ऽपि ॥ 7.55 ॥
एवं स कृत्वा सरसीविहारं सहावरोधैः सरसीरुहाक्षः ।
उत्तीर्य तस्यास्तटसन्निविष्टं बद्धोपचारं सदनं विवेश ॥ 7.56 ॥
तत्रानुरक्तैः सह मित्रवर्गैः सङ्कल्पिताकल्पविकल्पवेषः ।
रसोत्तरव्यञ्जनपाकहृद्यमाहारमार्यः परमभ्यनन्दत् ॥ 7.57 ॥
विचित्रपट्टास्तरणोपपन्नं विकीर्णपुष्पप्रकरं कुमारः ।
अभ्यन्तरस्थापितभद्रपीठमास्थानिकं मण्डपमध्यवात्सीत् ॥ 7.58 ॥
तत्र क्षोणीरमणतनयो मण्डपे वाणिनीनां नृत्तारम्भैर्निरुपमरसैर्वाद्यघोषैर्मनोज्ञैः ।
वीणानादैः श्रवणसुभगैर्वेणुनादैश्च हृद्यैः
श्रीमानह्नस्त्रिभुवनगुरुः शेषमेष व्यनैषीत् ॥ 7.59 ॥
इति बुद्धघोषचरिते पद्यचुडामणिनाम्नि महाकाव्ये सप्तमः सर्गः ॥
अष्टमः सर्गः
सूर्यास्तकालवर्णनम्
तत्रान्तरे बिम्बममन्दरागं पपात भानोदिशि पश्चिमायाम् ।
आकाशकोशाद् गलितस्य नीलाद् आकृष्टलीलं मणिदर्पणस्य ॥ 8.1 ॥
आकाशसिन्धोरपराह्णकर्णधाराधिपः संहृतरश्मिजालः ।
प्रक्षेपणीभिः स्फटिकात्मिकाभिर्दिगन्ततीरं तरणिं निनाय ॥ 8.2 ॥
अशोकपुष्पस्तबकाभिताम्रमस्ताचले मण्डलमुष्णभानोः ।
बभार सिन्धोर्मथने विषक्तप्रवालवल्लीवलस्य शोभाम् ॥ 8.3 ॥
भास्वानभीप्सुः परालोकयात्रां पद्माकरेषु प्रतिबिम्बलक्षात् ।
आप्रच्छनार्थं प्रियबान्धवानामम्भोजिनीनामिव सम्प्रविष्टः ॥ 8.4 ॥
क्रमेण मध्यं चरमाम्बुराशेः प्राभाकरं बिम्बमलञ्चकार ।
हरिन्मणिश्याममिवाच्युतस्य वक्षःस्थलं कौस्तुभनाम रत्नम् ॥ 8.5 ॥
आवर्तवेगादपरम्बुराशेरावृत्तबिम्बं हरिदश्वबिम्बम् ।
भूयो ऽपि चक्रभ्रममुन्मृजार्थमारोपितं विश्वसृजेव रेजे ॥ 8.6 ॥
मया विनाब्धिः प्रलयप्रसङ्गं वेला कदाचिन्न विलङ्घितेति ।
सत्यं चकारेव तदङ्गहस्तैरादाय तप्तारुणलोहकूटम् ॥ 8.7 ॥
दिनावसानेन परीक्षकेण मन्दप्रदीप्तिद्युमणिर्महार्हः ।
और्वाग्निना तेजयितुं किलान्तरुदन्वङ्गारभरे निरस्तः ॥ 8.8 ॥
अस्तङ्गते भर्तरि भृङ्गमालामङ्गल्यसूत्रं दिवसान्तधात्री ।
अम्भोजिनीनामपसौरभाणामपाकरोदम्बुरुहोपकण्ठात् ॥ 8.9 ॥
विश्लेषदुःखादिव तिग्मभानोः सङ्कोचभाजां नलिनीवधूनाम् ।
शोकाग्निधूमालिरिवोज्जजृम्भे भृङ्गावली पङ्करुहाननेम्यः ॥ 8.10 ॥
सौरभ्यलोभात् सविधे चरन्ती भृङ्गावली पद्मवनेषु रेजे ।
वियोगिनीभिर्नलिनीवधूभिर्व्यापारितोद्वन्धनवागुरेव ॥ 8.11 ॥
विहाय भास्वान् नलिनीं सरागामस्तङ्गतो ऽभून्मम बाल्यमित्रम् ।
इत्यातियोगादिव चक्रवाकस्त्यक्त्वा प्रियां दीनतरं ररास ॥ 8.12 ॥
प्रतायमाना प्रथमेतरस्मिन् काष्ठान्तराले कनति स्म सन्ध्या ।
दिवानिशान्यो ऽन्यनिपीडनेन जाज्वल्यमाना ज्वलनप्रभेव ॥ 8.13 ॥
अस्तङ्गतं भास्करमम्बरश्रीरालोक्य शोकातिशयाकुलेव ।
नक्षत्रमुक्ताक्षवटं दधाना सन्ध्यातपं चीवरमाललम्बे ॥ 8.14 ॥
रुद्राक्षमालावलयोज्ज्वलानि तपोधनानां करपल्लवानि ।
सन्ध्याप्रणामाय सभृङ्गचक्रैः सङ्कोचमापुः सह पद्मषण्डैः ॥ 8.15 ॥
आकाशनीलोत्पलभृङ्गभङ्गिराशावधूनीलपटोत्तरीयम् ।
विश्वम्भराभूमिगृहप्रवेशो ऽप्यजृम्भतान्धङ्करणी तमिस्रा ॥ 8.16 ॥
निष्यन्दमानैरिव चन्द्रकान्तैर्निर्वापितानां तपनोपलानाम् ।
समीओइरणोत्था इव धूमसार्थास्तमोभरास्तरुरन्तरिक्षम् ॥ 8.17 ॥
प्रदोषवेधाः प्रवरस्य ताराप्रशस्तिवर्णान् लिखितुं हिमांशोः ।
पयोदवीथीफलकं तमिस्रमषीप्रकारैर्मलिनीचकार ॥ 8.18 ॥
शर्वस्य सन्ध्याधृतताण्डवस्य कण्ठप्रभापुञ्ज इवान्धकारः ।
ज्वलिष्यतामोषधिपादपानां किञ्चावृणोद् धूम इवान्तरिक्षम् ॥ 8.19 ॥
आवव्रुराकाशमतिप्रभूता आशान्तपर्यस्ततमः समूहा ।
कूलङ्कषाः प्रावृषि वारिराशिं कलिन्दपुत्र्या इव वारिपूराः ॥ 8.20 ॥
विभावरीचम्पककर्णपूरा बभासिरे वेश्मसु दीपलेखा ।
पलायमानस्य रवेः पटिष्ठैर्बन्दीकृता भास इवान्धकारैः ॥ 8.21 ॥
जिज्ञासमानास्तिमिरप्रवृत्तिमर्कस्य चारा इव सञ्चरन्तः ।
सन्ध्याकृशानोरिव विष्फुलिङ्गास्तमोमणीनां व्यरुचन् निकायाः ॥ 8.22 ॥
निशान्धकारप्रकराम्बुवाहनिष्ठ्यूतधाराकरकाभिरामैः ।
तारागणैर्दन्तुरमन्तरिक्षं कान्तिं दधौ कैरवकाननस्य ॥ 8.23 ॥
निरंकुशानां तिमिरद्विपानां शुण्डाविकीर्णैरिव शीकरौघैः ।
उद्दामशोभैर्निकरैरुडूनां तारापथः शर्करिलो बभूव ॥ 8.24 ॥
तमालनीलं तगरावदातैस्तारागणैर्दन्तुरमन्तरिक्षम् ।
अगस्त्यपीतस्य जहार सिन्धोराकीर्णमुक्तानिकरस्य शोभाम् ॥ 8.25 ॥
समुद्रगर्भान्तरमाश्रयन्तं तमो ऽपहं चन्द्रमसं तनूजम् ।
समुद्वहन्ती शतमन्तुकाष्ठा शनैर्मुखे पाण्डरतामयासीत् ॥ 8.26 ॥
चकाशिरे चन्द्रमसः समुत्थाः समुद्रगूढस्य मयूखमालाः ।
पीत्पा प्रवाहं तिमिभिः सरन्ध्रैः शिरोभिरूर्ध्वप्रहिता इवाप ॥ 8.27 ॥
अर्धोदितः शीतकरस्य बिम्बः किञ्चित् समाविष्कृतलाञ्छनश्रीः ।
शृङ्गारयोनेस्त्रिजगज्जिगीषोर्विषाङ्कितो बाण इवार्धचन्द्रः ॥ 8.28 ॥
तमालनीलस्य समुद्रविष्णोस्ताराधिभूमण्डलपुण्डरीकम् ।
आवर्तनाभीविवरादुदस्थादालक्ष्यचिह्नभ्रमराभिरामम् ॥ 8.29 ॥
समुज्जिहानं लवणाब्धिमध्यात् तारापतेर्मण्डलमुत्तरङ्गात् ।
उवाह तस्मादभिमथ्यमानादुन्मज्जदैरावतकुम्भलीलाम् ॥ 8.30 ॥
उद्यच्छमानस्तुहिनांशुमाली यतः प्रवालारुणमण्डलो ऽभूत् ।
तद्वाडवेनार्णमूषिकायामावर्जितैराहित एव रत्नैः ॥ 8.31 ॥
सधैर्यमादाय तटेषु पादं पूर्वाद्रिमारोहति राजसिंहे ।
भूता इव ध्वान्तमतङ्गजेन्द्रा महीभृतां गह्वरमाश्रयन्ते ॥ 8.32 ॥
अस्ताद्रिशृङ्गस्खलिताग्रपादः पपात भास्वानपराम्बुराशौ ।
इतीव भीतः कटकान् करेण स्पृष्ट्वारुरोह प्रथमाद्रिमिन्दुः ॥ 8.33 ॥
नवोदयालोहितमिन्दुबिम्बं विदिद्युते पार्वणमम्बरान्ते ।
सायाह्नमुद्राधिकृतेन धातुद्रवेण संन्यस्तमिवैकचिह्नम् ॥ 8.34 ॥
विभावरीशः करपल्लवेन भृङ्गावलीमङ्गलसूत्रमालाम् ।
कुसुद्वतीनां कुमुदोपकण्ठे संयोजयामास सकौतुकानाम् ॥ 8.35 ॥
आकर्ण्य गानं मधुपाङ्गनानां कर्णामृतं पीत इवामृतांशुः ।
दिदेश ताभ्यो मकरन्दगर्भमामुद्रितं कैरवकोशजातम् ॥ 8.36 ॥
पत्युः करस्पर्शपरिश्लथस्य तमिस्रकेशस्य निशाङ्गनायाः ।
नवप्रसूनैरिव विप्रकीर्णैर्नक्षत्रजालैः शुशुभे नभःश्रीः ॥ 8.37 ॥
विपक्वताराधिपबिम्बशङ्खविमुक्तमुक्ताफलदन्तुरेव ।
व्योमापगाशीकरराजितेव विदिद्युते तारकिता नभःश्रीः ॥ 8.38 ॥
आकाशशय्यातलमश्नुवाने सुधाकरे भर्तरि सानुरागे ।
श्यामाङ्गनायास्तिमिरान्तरीयमाकाशमध्यादपयातमासीत् ॥ 8.39 ॥
पतिः पशुनामिव कालकूटं पतिं नदीनामिव कुम्भयोनिः ।
आदाय चन्द्रः करपल्लवेन गाढान्धकारं कवलीचकार ॥ 8.40 ॥
वियोगदुःखादिव पाण्डराङ्गीं विलम्बमानभ्रमरालकान्ताम् ।
कुमुद्वतीमासवपुष्पदिग्धामाश्वासयामास करेण चन्द्रः ॥ 8.41 ॥
वेलाजलेषु मणिदर्पणविभ्रमेषु च्छायागतेन शशलाञ्छनमण्डलेन ।
वाराकरो वरुणभूपतिना मणीनामेकाकरो रचितमुद्र इवाशशङ्क ॥ 8.42 ॥
अन्तः परिस्फुरितबालतमालकान्तिरालक्ष्यते स्म रजनीकरमण्डलश्रीः ।
आसृक्वभागविवृताननसैंहिकेयदंष्ट्राकरालगरलद्रवमुद्रितेव ॥ 8.43 ॥
बिम्बं प्रदर्शितकुरङ्गकलङ्करेखं व्यक्तं बभौ कुमुदिनीकुलदैवतस्य ।
आवर्तमण्डलमिवाचलसार्वभौमकन्याकलिन्दतनयामिलनोपजातम् ॥ 8.44 ॥
अन्तःस्फुरन्मृगकलङ्कमभंगुराभमत्यर्थमेव शुशुभे द्विजराजबिम्बम् ।
ताटङ्कचक्रमिव दन्तमयं तमिस्रावामभ्रुवो मरकताङ्कितमध्यदेशम् ॥ 8.45 ॥
अन्तर्मलीमसमभादमृतांशुबिम्बमम्भोदवातमलिनोदरदर्पणाभम् ।
कण्ठप्रभप्रसरकर्बुरितान्तरालं भिक्षाकपालमिव किञ्च कपालपाणेः ॥ 8.46 ॥
स्पष्टे प्रदोषसमये नरपालसूनुस्त्वष्ट्रा समारचितमङ्गलमण्डनश्रीः ।
वाराङ्गनाभिरभितो मणिदीपिकाभिरासेवितः स्वभवनं पुनराजगाम ॥ 8.47 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये अष्टमः सर्गः ॥
नवमः सर्गः
कुमारस्य नीराजनम्
आगत्य गेहमध्यास्य कुमारो भद्रपीठिकाम् ।
आरब्धं मातृधात्रीभिरारात्रिकमुपाददे ॥ 9.1 ॥
महाराजाधिराजस्य तनयो मण्डपस्थितः ।
सिंहासनमियायैष सिंहसंहननस्ततः ॥ 9.2 ॥
वारवामालकास्तस्य मधुराकृतयः पुरः ।
आरेभिरे दर्शयितुमद्भतं नृत्तविभ्रमम् ॥ 9.3 ॥
असक्तहृदयस्तासाम् अङ्गहारमनोहरे ।
सङ्गीते नवगीते ऽपि स चिन्तामन्तरा ददौ ॥ 9.4 ॥
तदा बभौ कुमारो ऽसौ चामरैरमरोच्छ्रितैः ।
समीरणसमुद्धूतैस्तरङ्गैरिव सागरः ॥ 9.5 ॥
ध्वजरत्नपताकाभिः शुशुभे क्षोणिमण्डलम् ।
अन्तरिक्षमिवानेकविद्युद्वल्लीभिरावृतम् ॥ 9.6 ॥
कालागरुमहाधूमवल्लीवेल्लितमम्बरम् ।
कृष्णोरगशताकीर्णं रसातलमिवाबभौ ॥ 9.7 ॥
ब्रह्माण्डकुक्षिम्भरिभिर्बधिरीकृतदिङ्मुखैः ।
अनेकपटहध्वानैराध्मातमभवन्नभः ॥ 9.8 ॥
ऐरावत्य इवाकाशरङ्गेष्वमरयोषितः ।
घनवाद्यरवाश्चक्रुरखण्डं ताण्डवक्रमम् ॥ 9.9 ॥
तासां तरलसञ्चारदृष्टिभिर्मुखमण्डलैः ।
तारापथस्थलमभुत् सहस्रमृगलाञ्छनम् ॥ 9.10 ॥
विद्याधराश्च गन्धर्वा वीणागर्भितपाणयः ।
पूर्वापदानमुखराः पुरस्तस्य प्रतस्थिरे ॥ 9.11 ॥
महेन्द्रकरविक्षिप्ताः मन्दारसुमनोभराः ।
भुवनक्षोभगलिताः पुष्फुरुस्तारका इव ॥ 9.12 ॥
इत्थमाराधितो देवैर्दशत्रितययोजनम् ।
अतीत्य पन्थानमसावगादनवमां नदीम् ॥ 9.13 ॥
मरालमहिलालीढमृणालदलमेदुराम् ।
गम्भीरमकरारावमुखरीकृतदिङ्मुखाम् ॥ 9.14 ॥
तरङ्गशीकरासरतारादन्तुरिताम्बराम् ।
सरसीरुहसौरभ्यसुरभीकृतमारुताम् ॥ 9.15 ॥
कल्लोलवल्लीवलयसमुल्लासितसारसाम् ।
कलहंसकलत्राणां कण्ठदघ्नोर्मिमण्डलीम् ॥ 9.16 ॥
मीनविक्षिप्तकल्हारपुञ्जकिञ्जल्करञ्जिताम् ।
विनिद्रकमलोदीर्णमधुद्रवतरङ्गिताम् ॥ 9.17 ॥
तारणाय महाम्भोधेस्तन्वन् गुणनिकामिव ।
चिन्तायुक्तेन वाहेन तां नदीमुदतीतरत् ॥ 9.18 ॥
उत्तीर्य तस्याः पुलिने तुरगादवतीर्य सः ।
छन्नं निवर्तयामास दत्वा भूषाश्च वाहनम् ॥ 9.19 ॥
आदिकल्पसमुद्भूतामादिब्रह्मसमाहृताम् ।
अग्रहीदग्रणीः पुंसां तपोधनपरिष्क्रियाम् ॥ 9.20 ॥
आदाय तापसाकल्पमनल्पगुणगुम्भितम् ।
आच्छाद्य तेन चात्मानमधत्त तपसि स्थितिम् ॥ 9.21 ॥
अथावलोक्य लोकेशं दीक्षितं शक्रदिङ्मुखम् ।
आनन्दमन्दहसितैरिव पाण्डरतामयात् ॥ 9.22 ॥
समस्तलोकनाथस्य तस्य शास्तुरिवाज्ञया ।
शतमन्युदिशाधत्त सन्ध्यापाटलमम्बरम् ॥ 9.23 ॥
तस्यावलोकनायैव शास्यवंशशिखामणेः ।
अध्यास्त कूलकूटस्थः प्रथमाद्रिं गभस्तिमान् ॥ 9.24 ॥
अज्ञानमेवं जगतामपसार्यं त्वयेत्यपि ।
अस्यादिशन्निव रविरन्धकारमपाकरोत् ॥ 9.25 ॥
ज्ञानालोकस्त्रिजगतामेवमेव त्वयेति च ।
अस्यादिशन्निवालोकमाविश्चक्रे विकर्तनः ॥ 9.26 ॥
दीक्षिते भूभृतां नाथे निर्विण्णा इव भूभृतः ।
अरुणातपलक्षेण चक्रिरे वल्कधारणम् ॥ 9.27 ॥
आदित्यबन्धोर्बोधैकसिन्धोः समुदयादिव ।
प्रबोधमुद्रामभजन् सकलाः कमलाकराः ॥ 9.28 ॥
कृतकृत्यं तमुद्दिश्य कृताञ्जलिपुटा इव ।
आअबद्धमुकुलास्तस्थुरशेषाः कुमुदाकराः ॥ 9.29 ॥
सन्मार्गदेशिकस्यास्य तीर्थिका इव तेजसा ।
तपनस्य समाक्रान्तास्तारका निस्त्विषो ऽभुवन् ॥ 9.30 ॥
अवकाशप्रदानार्थमिव तत्कीर्तिसंहतेः ।
अशेषमाशाविवरमानशे ऽतिविशालताम् ॥ 9.31 ॥
सिद्धार्थमुखशीतांशुं दृष्ट्वा दीप्तं दिवापि च ।
व्रीडावशादिव विधुर्बभूव विगतच्छविः ॥ 9.32 ॥
जगदेकगुरोस्तस्य दर्शनादिव दीप्तिमान् ।
विगतोदयरागश्रीर्विवेशाकाशमाश्रमम् ॥ 9.33 ॥
मनोरथशतप्राप्तप्रव्रज्यारसनिर्वृतः ।
दिनानि कानिचित् तस्यास्तीरे चिक्षेप देशिकः ॥ 9.34 ॥
अन्येद्युरथ भिक्षार्थमादिभिक्षुर्बुभुक्षितः ।
व्यतीत्य दूरमध्वानं बिम्बसारपुरीमगात् ॥ 9.35 ॥
विशङ्कटशिलासालविजितावधिभूधरान् ।
पातालागाधपरिखापल्वलीकृतसागराम् ॥ 9.36 ॥
घोटीखुरपुटीकोटिक्रोडीकृतधरातलाम् ।
माद्यन्मदावलाधीशमदपङ्किलवीथिकाम् ॥ 9.37 ॥
माणिक्यसौधवलभीवलमानमरालिकाम् ।
वातायनमुखोदीर्णधूमराजिविराजिताम् ॥ 9.38 ॥
बालाचलतुलाकोटिवाचालहरिदञ्चलाम् ।
मन्दानिलसमाधूतध्वजचूडालमन्दिराम् ॥ 9.39 ॥
वलारिकार्मुकस्मेरमणितोरणमांसलाम् ।
वल्लीकिसलयारब्धरथ्यावन्दनमालिकाम् ॥ 9.40 ॥
विशालविशिखाभोगमेखलोज्ज्वलमध्यमाम् ।
विहारवापिकावीचीसमीचीनोपशाखिकाम् ॥ 9.41 ॥
तत्र भिक्षां समादातुं तपोधनशिखामणिः ।
वीथीषु वीथीषु शनैर्विजहार विनायकः ॥ 9.42 ॥
मोहापनोदमप्येनं मुनीन्द्रमभिवीक्षिताः ।
मुग्धा विदग्धाः सकला मोहनिद्रां प्रपेदिरे ॥ 9.43 ॥
विगतोन्मेषसम्मेषविष्फारीकृतचक्षुषाम् ।
मनोभवारिरप्यासां मनोभवमजीजनत् ॥ 9.44 ॥
तत्र भिक्षां समादाय शिक्षापादविचक्षणः ।
तदभ्यर्णगतं तूर्णं शिलोच्चयमशिश्रियत् ॥ 9.45 ॥
उपकण्ठकलालापकालकण्ठमनोहरम् ।
कण्ठीरवकराघातचूर्णीकृतगजाकुलम् ॥ 9.46 ॥
वेतण्डशुण्डादण्डाभकुण्डलीश्वरमण्डितम् ।
शिखण्डिमण्डलारब्धताण्डवं पाण्डराह्वयम् ॥ 9.47 ॥
विशालशिखरोद्देशविश्रान्तजलदाध्वगम् ।
विहरन्मत्तमातङ्गपुनरुक्तमहोपलम् ॥ 9.48 ॥
विशङ्कटशिलाकोटिपाटिताम्बरकोटरम् ।
पञ्चास्यपाणिओअर्यस्तगजमौक्तिकविस्तृतम् ॥ 9.49 ॥
निर्झरीपूरनिर्धौतकलधौतशिलातलम् ।
मेखलोपान्तविलसत्पुलिन्दपृतनापतिम् ॥ 9.50 ॥
तडाके तस्य सिद्धार्थः स्नात्वा निकटवर्तिनि ।
स्थित्वा तटशिलापट्टे भिक्षान्नरसमन्वभूत् ॥ 9.51 ॥
अपरेद्युर्विनिर्गत्य तस्मादेष पुरान्तरे ।
पिण्डपातविधिं कृत्वा प्रापदभ्यर्णकाननम् ॥ 9.52 ॥
तडाकनिकटे नद्यास्तटे शैले च कानने ।
निवसन् दिवसानेष निन्ये मान्यो बहूनपि ॥ 9.53 ॥
तपोवनेषु धन्येषु दुःसाधानि तपांस्यपि ।
चचार धीरहृदयः संसारक्लेशशान्तये ॥ 9.54 ॥
अप्राप्य निर्वाणपदं दुश्चरैश्वरितैरपि ।
को वाभ्युपायस्तस्यार्थे भवेदित्याकुलो ऽभवत् ॥ 9.55 ॥
एकदा पारमीभाग्यपरिपाकप्रकाशनम् ।
स्वप्नपञ्चकमद्राक्षीत् सुचरित्रनिधिः प्रगे ॥ 9.56 ॥
दृष्ट्वावबुध्य स्वप्नार्थं प्रत्यवेत्य विचक्षणः ।
निश्चिकायाहमद्यैव निर्वृतिं प्राप्नुयामिति ॥ 9.57 ॥
कृत्वा दिनमुखाचारं भिक्षावेलां प्रतीक्ष्य सः ।
आसाञ्चक्रे वटस्याधः पूजाविहितसत्कृतेः ॥ 9.58 ॥
अथ काचिद् विशालाक्षी देवतां तन्निवासिनोम् ।
अधिकृत्य तदा नित्ये पायसं प्रार्थनापरा ॥ 9.59 ॥
तच्छङ्कयैव सा तस्मै ददौ पात्रेण पायसम् ।
तदादाय महासत्त्वो ययौ नैरञ्जरातटम् ॥ 9.60 ॥
तस्याः शरन्निशाकाशविमले सलिले मुनिः ।
स्नात्वा सुवर्णपात्रस्थं बुभुजे पायसं बुधः ॥ 9.61 ॥
ततः किसलयालोकबालातपविलासिनि ।
मनोज्ञकोकिलालापवाचालहरिदञ्चले ॥ 9.62 ॥
मन्दानिलाधूतलताडोलादुर्ललितालिनि ।
बालचूतांकुरास्वादमोदमानवनप्रिये ॥ 9.63 ॥
मन्दारकोरकस्यन्दिमकरन्दसुगन्धिनि ।
मदगन्धवहस्पन्दकन्दलीकृतकौतुके ॥ 9.64 ॥
उत्फुल्लमञ्जरीपुञ्जपिञ्जरीकृतसत्पथे ।
भ्रमद्भ्रमरझङ्कारहुङ्कारचकिताध्वगे ॥ 9.65 ॥
विहङ्गपक्षविक्षिप्तपरागभरपांसुले ।
माकन्दमधुसन्दोहजम्बालितमहीतले ॥ 9.66 ॥
प्रफुल्लसुमनोवल्लीमतल्लीयुतमारुते ।
वसन्तकालसामन्तसाम्राज्यमणिमण्डपे ॥ 9.67 ॥
तालीतमालहिन्तालबहुले सालकानने ।
स्थित्वा माध्यन्दिनं तापं निनाय नरनायकः ॥ 9.68 ॥
दिनावसाने सम्प्राप्ते याममात्रावधौ यतः ।
उत्थाय भगवान् बोधिं प्रपेदे प्राज्यविक्रमः ॥ 9.69 ॥
ब्रह्मणोपहितान् दर्भान् आदाय निजपाणिओना ।
चिक्षेप देशिकवरः प्राच्ये बोधिमहीतले ॥ 9.70 ॥
तत्र कन्दर्पदर्पाणाम्भेद्यमतिकोमलम् ।
अपराजितपर्यङ्कम् आविरासीन्महासनम् ॥ 9.71 ॥
आरुरोहासनं तुङ्गम् अनङ्गरिपुमद्भुतम् ।
अंशुमानिव पूर्वाद्रिम् अशेषजनबोधकः ॥ 9.72 ॥
आरुढबोधिपर्यङ्कम् अभंगुरगुणं सुराः ।
अमुमारेभिरे स्तोतुम् अवाङ्मनसगोचरम् ॥ 9.73 ॥
नमः सुगुणमाणिक्यसिन्धवे रविबन्धवे ।
नमः संसारपाथोधिसेतवे मुनिकेतवे ॥ 9.74 ॥
नमः सकलसंक्लेशहारिणे गुणहारिणे ।
नमः समस्ततत्त्वार्थवेदिने ऽद्वयवादिने ॥ 9.75 ॥
करुणापूरलहरीपरीवाहितचक्षुषे ।
भागधेयनिधानाय भगवन्! भवते नमः ॥ 9.76 ॥
कन्दर्पदर्पनिर्भेदकर्मठस्त्वं न चापरः ।
पञ्चाननं विना को हि कुञ्जरं शासितुं क्षमः! ॥ 9.77 ॥
शूरस्त्वमेव दुर्वारगर्वतीर्थिकमर्दने ।
मन्दरेण विना सिन्धुं मथितुं केन पार्यते! ॥ 9.78 ॥
चुलुकीकरणे शूरस्त्वमेव भववारिधेः ।
कुम्भयोनिं विना को हि कोविदः सिन्धुचूषणे ॥ 9.79 ॥
कुशलो ऽत्र भवानेव श्रोणीवलयबोधने ।
को वा विधुर्विना चन्द्रं कुमुदाकरहासने! ॥ 9.80 ॥
भवक्लेशं त्वमेवेश! निःशेषयितुमीशिषे ।
हर्तुमन्यः किमीशीत हरिदश्वादृते तमः ॥ 9.81 ॥
एताभिरेषां स्तुतिभिरेधमानगुणोदयम् ।
बोधिमूलतलारूढं बुद्धं शुश्राव मन्मथः ॥ 9.82 ॥
श्रुत्वा मनोभूः क्षुभितान्तरात्मा विरक्तबुद्धापशदं विजेतुम् ॥
को वाभ्युपायो भुवने मम स्यादित्याशु चिन्ताज्वरनिर्दुतो ऽभूत् ॥ 9.83 ॥
इति श्रीबुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये नवमः सर्गः ॥
दशमः सर्गः
मारसन्नद्धतावर्णनम्
अत्रान्तरे निविडमास्थितबोधिमूलमावेगवानभिषिषेणयिषुर्मुनीन्द्रम् ।
अध्यास्य मत्तकरिणं गिरिमेखलाख्यमाहूतसैन्यनिवहो निरगादनङ्गः ॥ 10.1 ॥
निर्गत्य निह्नतदिगन्तरकन्दरेण निर्घातभीमजयदुन्दुभिनिःस्वनेन ।
सन्त्रासिताखिलजनेन महाबलेन साकं शनैरवततार धरामनङ्गः ॥ 10.2 ॥
सम्भ्रान्तशाङ्खिकशताननपूर्यमाणो मारस्य सान्नहनिको वरशङ्खघोषः ।
संग्रामशश्वदुपलालितपाञ्चजन्यनादस्य न व्यसन मब्धिशयस्य चक्रे ॥ 10.3 ॥
निस्साणघोरनिनदो निखिलान्तरिक्षकुक्षिम्भरिः प्रसृमरो मकरध्वजस्य ।
दम्भोलिघोषजनितश्रवणोत्सवस्य देवस्य केवलमजायत दत्तहर्षः ॥ 10.4 ॥
वेतण्डमण्डलविडम्बितचण्डवायुवेगावखण्डितकुलाचलगण्डशैलम् ।
संवर्तसागरसमुद्गतभङ्गतुङ्गत्वङ्गत्तुरङ्गमतरङ्गितसर्वदिक्कम् ॥ 10.5 ॥
आढौकमानरथमण्डलचक्रनेमिधाराविदारितधरातलसन्निवेशम् ।
पादातपादपतनाशनिपाट्यमानपातालसन्तमससान्द्ररजो ऽन्धकारम् ॥ 10.6 ॥
आधूयमानकरवालकरालकालच्छायासमुच्चलनशाद्वलितान्तरिक्षम् ।
हेलावकुण्डलितकार्मुककाननज्याविष्फारवेगबधिरीकृतविश्वलोकम् ॥ 10.7 ॥
आस्फालिताप्रतिमभैरवभेरिघोरकोलाहलध्वनियथार्थनभो ऽभिधानम् ।
शुण्डाकरण्डविवरप्रवितन्यमानशूत्कारशीकरकरालितमेघमार्गम् ॥ 10.8 ॥
क्षोणीतलान्तरनिरन्तरजृम्भमाणधूलोनिकायचुलुकाकृतसिन्धुपूरम् ।
नासीरवीरसमुदीरितसिंहनादसन्नाहगर्जितसमस्तगुहान्तरालम् ॥ 10.9 ॥
दोधूयमानसितचामरिकानिकायसम्पादिताद्भुतशरत्समयावतारम् ।
संरब्धपुष्पशरशासनचोद्यमानचक्रं क्रमेण चतुरङ्गबलं चचाल ॥ 10.10 ॥
कल्पान्तकालघटमानघनाघनौघगम्भीरघोरघनगर्जितनिर्विशेषैः ।
आपादितैर्मकरकेतनवाद्यकारैराध्मातमण्डमभवत् पटहप्रणादैः ॥ 10.11 ॥
अभ्युद्भतै रमितसैन्यपरागजालैरन्धीकृताकुलदृशामहिपुङ्गवानाम् ।
आविश्चकार भुवनेषु परं निपीडामाडम्बरः पटहजो मदनप्रयाणे ॥ 10.12 ॥
अत्यन्तमन्धयति दिङ्मुखमम्बुवाहसन्दोहरोचिषि चमूरजसां समूहे ।
नौका इवोद्धुरसरस्वति नष्टमार्गा भ्रेमुर्भृशं सुरपथे सुमनोविमानाः ॥ 10.13 ॥
वातोत्थितं महति सैनिकधूलिमध्ये सञ्चारिणस्सुमनसां व्यरुचन्विमानाः ।
संहारताण्डवितसागरवारिपूरे पारिप्लवा इव मुहुः जगदण्डखण्डाः ॥ 10.14 ॥
कल्पक्षयक्षुभितमारुतवेगभीमकन्दर्पसैन्यकबलीकृतभीतभीताः ।
अभ्युल्लसद्बहलरेणुभरापदेशादम्भोधयो गगनमुत्पतिता इवासन् ॥ 10.15 ॥
प्रत्यर्थिदन्तिजयसिन्धुरदन्तभिन्नक्ष्माभृद्गुहान्तरगता इव चान्धकाराः ।
आवव्रुरम्बरमभङ्गुरजृम्भमाणाः सेनापरागनिकरा भ्रमराभिरामाः ॥ 10.16 ॥
अत्युल्बणैरमितसैन्यपरागपूरैरापूरिओतं गगनकन्दरमाबभासे ।
आप्लाविताखिलपथैर्यमुनाप्रवाहैराश्लिष्यमाणमिव लावणसिन्धुमध्यम् ॥ 10.17 ॥
अभ्युच्छ्रितैरवनिमांसलपांसुजालैरत्युल्बणं गगनमण्डलमास्तृणानैः ।
आशाङ्गना मदनसायकपातभीतेरामुक्तनीलघनकञ्चुलिका इवासन् ॥ 10.18 ॥
धूलीभरे चुलुकितार्णवतोयपूरे स्वैरप्रचार मभितः प्रतिपद्यमाने ।
कल्पक्षयो ऽमिति कैटभजिद् भ्रमेण भूयो ऽपि विश्वमुदरे परिहर्तुमैच्छत् ॥ 10.19 ॥
पर्यापतत्तुरखण्डितभूसमुत्थैः पाथोधयः कबलिताः परुषैः परागैः ।
मत्तेभगण्डगलितैर्मदवारिपूरैर्भूयो बभूवुरधिकं पुनरुक्ततोयाः ॥ 10.20 ॥
अम्भोधिसम्पदवलुण्ठनकुम्भयोनिरभ्युद्गतो मकरकेतनसैन्यरेणुः ।
अम्भोजिनीपतिरसौ मम वैरिबन्धुरित्यन्तराहितरुषेव तिरश्चकार ॥ 10.21 ॥
अभ्युद्गतं परिभवं निजवंशकेतोरत्युग्रमीक्षितुशक्त इवांशुमालो ।
कन्दर्पसैन्यघनधूलिपरम्पराषु गाढान्धकारितदिशासु तिरोबभूव ॥ 10.22 ॥
आतन्यमानबलरेणुघनान्धकारैराकम्पमानकरिकेतुशतह्रदाभिः ।
अश्वीयफेनकणिकाकरकाकदम्बैर्वर्षावतार इव हर्षकरो बभूव ॥ 10.23 ॥
प्रौढान्धकारितदिशावलये प्रसर्पत्युच्छृङ्खले रजसि रुद्धनभो ऽवकाशे ।
पाताललोक इव भूवलयो बभूव भूसन्निवेश इव पुण्यकृतां निवासः ॥ 10.24 ॥
अश्वीयपाददलितादवनीतलान्तादभ्युच्छ्रिते च नितरां निखिले परागे ।
भूमीधराः परमभूमिधरा बभूवुः शेषो ऽपि केवलमभूत् फणमालभारी ॥ 10.25 ॥
दिग्दिन्तिनां मुखपटप्रकटोपमेये सेनापरागनिकरे सति जृम्भमाणे ।
पाथोधयः सपदि पङ्कधयस्तदासन् पाथोधरा नभसि पङ्कधरा बभूवुः ॥ 10.26 ॥
आपीतसर्वमकराकरवारिराशेराशावकाशगगनेष्वमितस्य रेणोः ।
चक्राचले बहिरिव प्रसराय चक्रुराशागजा विवरमादृतवप्रघाताः ॥ 10.27 ॥
सेनाम्बुधौ जयिपदातिमहाप्रवाहे मग्नाः कुलक्षितिधरा इव वारणेन्द्राः ।
त्वङ्गत्तरङ्गनिवहा इव तुङ्गवाहाअ नौमण्डला इव रथाः सुतरां विरेजुः ॥ 10.28 ॥
मध्ये लसन्मकरलाञ्छनदर्शनीया मारस्य रेजुरमला जयकेतुपट्टाः ।
अम्भोनिधिं निजबलोदधिना विजित्य बन्दीकृता इव तदीयपुरन्ध्रिवर्गाः ॥
अन्तः समुद्भवदमर्षमहाग्निजात धूमावलीमलिनकञ्चुकसञ्चिताङ्गम् ।
अत्यन्तभीषणमनेकसहस्रबाहुमात्मानमात्तविविधास्त्रमसावकार्षीत् ॥ 10.30 ॥
आप्लाविताखिलदिगन्तमहीध्ररन्ध्रमाकृष्टकल्पविलयक्षुभितार्णवाभम् ।
आकारितं मकरकेतुरदृष्टपारमाकारभीषणमकारयदात्मसैन्यम् ॥ 10.31 ॥
आशामशेषमवनीतलमश्नुवानैरावेष्टितः परिकरैरमितप्रभावैः ।
आरूढबोधितलवेदिमभिन्नधैर्यमभ्याससाद मुनिपुङ्गवमात्मयोनिः ॥ 10.32 ॥
आमुक्तचारुतरचीवरवारवाणमारूढयोगगजबन्धुरकन्धराग्रम् ।
आरब्ध योद्धुमविकम्पितशौर्यराशिं पुष्पायुधः स्फुरदमर्षकषायिताक्षः ॥ 10.33 ॥
तस्यान्तिके शमदमामृतवारिराशेर्मुक्ता बभूवुरमला विशिखाः स्मरस्य ।
शुद्धात्मनामकृतदानफलोन्नतीनां किं किं न सिध्यति कृताक्षयपक्षकाणाम् ॥ 10.34 ॥
तस्मिन् क्षमामयतनुच्छमादधाने धैर्योदधौ तपनचण्डतमप्रभावे ।
कुण्ठीकृतात्मगतयः कुसुमास्त्रबाणाः कृत्या इव प्रतिनिवृत्य तमेव जघ्नुः ॥ 10.35 ॥
मारस्य मार्गणगणाः सुमनायमानाः सत्पक्षसम्भृतसमागतयो ऽप्यवापुः ।
तं स्थूललक्षमुपगम्य न दानलाभं को वा ददातु गुणहीनविचेष्टिताय ॥ 10.36 ॥
चक्रीकृतायतशरासनमास्थितेन सम्प्रेषिताः शितशरा मकरध्वजेन ।
आसाद्य बुद्धमभजन् सुमनोमयत्वं सत्सङ्गतिः सुरलतेव न किं करोति ॥ 10.37 ॥
सम्प्राप्य शान्तहृदयं मुनिसार्वभौमं संविद्विशेषरहितेष्वपि सायकेषु ।
सद्यो गतेषु मृदुतां स हि शम्बरारिर्व्यारोषदग्धहृदयो मृदुतां न भेजे ॥ 10.38 ॥
चेतोभवस्य सफला अपि सायकास्ते तं प्राप्य शान्तहृदयं विफला बभूवुः ।
दैवे समेयुषि पराङ्मुखतां हि सर्वं हस्तोपयातमपि हन्त! विनाशमेति ॥ 10.39 ॥
इत्थं जगत्त्रयतिरस्करणक्षमेषु सर्वेषु हन्त! विशिखेषु निरर्थकेषु ।
वैरग्रहान्धहृदयो मथनाय तस्य मारो महाप्रलयमारुतमादिदेश ॥ 10.40 ॥
आमूलभागधुतदिव्यनदीसमुद्यदम्भोभराहितयथाध्युषिताभिषेकः ।
अभ्यर्चनार्थमिव सम्भृतपुष्परेणुरक्षोभितं मुनिमवाप महासमीरः ॥ 10.41 ॥
तं प्रात्य सर्वगुणभारगुरुं मुनीन्द्रं न प्रागभवच्चलयितुं स महाजवो ऽपि ।
नैतद् विचित्रमखिलाटविघस्मरस्य दावानलस्य न हि मूर्छति शक्तिरप्सु ॥ 10.42 ॥
एवं महापवनवारिधरादिकेषु व्यर्थीभवत्सु विपुलेष्वपि चायुधेषु ।
पुष्पायुधः पुनरियेष पुमांसमाद्यं वाक्सायकैर्हृदयमर्मतुदैर्विजेतुम् ॥ 10.43 ॥
नैव त्वदीयमिदमासनमस्मदीयमुत्थाय तूर्णममुतः सहसापयाहि ।
आपूरिता परमपारमिका मयैव तत्साक्षिणी मम महापृतनेत्यवोचत् ॥ 10.44 ॥
अङ्कात् प्रसार्य करपल्लवमादिभिक्षुर्यावज्जगाद गिरमिद्धतपप्रभावः ।
मारः पलायत ततो महता बलेन भ्रष्टातपत्ररथकेतुकुथेन भीतः ॥ 10.45 ॥
माराङ्गनास्तदनु मन्थरदृष्टिपाता वाचालरत्नपदनूपुरपारिहार्याः ।
सद्यः समेत्य चतुरस्रविशालगर्भं चक्रुस्तदग्रभुवि ताण्डवमत्युदारम् ॥ 10.46 ॥
अन्तःसमाहितसमाधिरसानुषक्तमालोक्य शाक्यकुलनन्दनमप्रकम्प्यम् ।
कर्णामृतानि वचनानि च कातराक्ष्यः कामाङ्गना विदधिरे करुणाक्षराणि ॥ 10.47 ॥
अस्यै पतन्मदनसायकविह्वलायै दृष्टिप्रदानमपि कर्तुमपारयन्तम् ।
उत्पाट्य लोचनयुगं द्विजपुङ्गवाय त्वां दत्तवानिति कथं ब्रुवते पुराणाः ॥ 10.48 ॥
मग्नां महामकरकेतनवारिराशौ मामित्थमाधिविधुरामवलम्बशून्याम् ।
उद्धर्तुमप्यकुशलो जननाम्बुराशेरुत्तारयिष्यसि कथं त्वमशेषलोकम् ॥ 10.49 ॥
दृष्ट्वास्मदीयमनवद्यतमं विलासं श्लाघाशिरोविधुतिमप्यतिदूरयन्तम् ।
उच्छीद्य मस्तकमुदस्तरिपुप्रभावं त्वां दत्तवानिति वदन्ति कथं कवीन्द्राः ॥ 10.50 ॥
पुण्यात्मनामधिपते! पुरुषोत्तमत्वमाप्तुं पदं त्वमभिवाञ्छसि किं तपोभिः ।
अस्मासु कामपि वधूमधिरोपय त्वं वक्षस्तटे महति मेरुशिलाविशाले ॥ 10.51 ॥
भद्रान्ववायमथ वा परमेश्वरत्वमाकांक्षसे समुपयातुमलं तपोभिः ।
कामप्यमूषु कमलायतदृष्टिपातां वामालकां त्वमधिरोहयं वामभागे ॥ 10.52 ॥
आनन्दकन्दलितलोचनविभ्रमाणाम् अम्भोरुहप्रकरगर्वगलग्रहाणाम् ।
आविःस्मिताननरुचामवलोकनानां पात्रीभवन्ति सुदृशां ननु भाग्यवन्तः ॥ 10.53 ॥
आकृष्टरक्तपरपुष्टवचोविलासाद् आलोचनान्तविवृतादृतकर्णपेयात् ।
आश्चर्यभङ्गिसुभगादपरोक्षसौख्यादाभाषणान्मृगदृशाममृतं किमन्यत् ॥ 10.54 ॥
अश्रान्तपानसहमौषधमात्मयोनितापोदयेष्वनुपदंशमनो ऽभिरामम् ।
अक्षीयमाणमधरामृतमङ्गनानामास्वाद्यतामयति पुण्यवतां हि पुंसाम् ॥ 10.55 ॥
एवंविधैर्ललितभावरसानुविद्धैर्नृत्तक्रमैर्निरुपमैर्वचसां विलासैः ।
आलोक्य बुद्धमविकम्पितचित्तवृत्तिं लज्जावशात् प्रतिनिवृत्य ययुस्तरुण्यः ॥ 10.56 ॥
इत्थं पुष्पशरासनस्य विजयव्यापारशुष्कस्थितां
सम्बोधिप्रसदां निवेश्य सुदृशं श्रीबोधिमूले वरः ।
सिद्धार्थश्चिरवासनापरिगतानुच्छिद्य दोषद्विषो-
मुक्तिक्षेत्रकुटुम्बरक्षणविधौ मूधार्भिषिक्तो ऽभवत् ॥ 10.58 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये सिद्धार्थचरिते दशमः सर्गः ॥
मूल पाठ: Siddhārthacaritrakāvya · Edition: unknown source · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0