सिद्धार्थचरित्रकाव्य · भाग 120
सिद्धार्थचरित्रं काव्यम्
आचार्यबुद्धघोषविरचितं
पद्यचूडामणिमहाकाव्यम्
प्रथमः सर्गः
मङ्गलम्
कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम् ।
कैवल्यकल्पद्रुममूलकन्दं वन्दे महाकन्दलमर्कबन्धुम् ॥ 1.1 ॥
यस्यैकदेशं यतयो ऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः ।
शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव ॥ 1.2 ॥
तथापि तत्राहितभक्तिशक्त्या तदेतदाख्यातुमहं प्रवीणः ।
तथाहि तत्पादसमाश्रयेण रजो ऽपि लक्ष्मीं कुरुते हि पुंसाम् ॥ 1.3 ॥
अस्ति प्रशस्ता कपिलेति नाम्ना काचित् पुरी कामदुघा प्रजानाम् ।
यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धिं शिथिलीकरोति ॥ 1.4 ॥
सम्भाव्यते यत्र सुधामरीचिः सौधध्वजस्तम्भनिलीनबिम्बः ।
मुखारविन्दद्युतिमोषरोषादारोपितः शूलमिवाङ्गनाभिः ॥ 1.5 ॥
वीथीषु माणिक्यमयीषु यस्यां ज्योतींषि भान्ति प्रतिबिम्बितानि ।
अनङ्गचापादपकृष्यमाणान्मुक्ताफलानीव परिच्युतानि ॥ 1.6 ॥
उत्सेधिनो यत्र गृहाः प्रभूणामुदस्तजैत्रध्वजदण्डवाहाः ।
आलोलघण्टाक्वणितैरजस्रमभ्यर्थिनो दातुमिवाह्वयन्ति ॥ 1.7 ॥
रथ्यासु रत्नोपहितासु यस्यां बिम्बप्रविष्टाः करिणो विभान्ति ।
कूलाद्रिकूटा इव कुण्डलीन्द्रसाहायकं कर्तुमधः प्रवृत्ताः ॥ 1.8 ॥
पाञ्चालिका यद्गृहपञ्जरेषु प्रपञ्चिताः काञ्चनसञ्चयेन ।
भूमाभिभूतारिपुराहृतानां पुष्यन्ति शोभां पुरदेवतानाम् ॥ 1.9 ॥
आरुह्य सौधानतिमेघमार्गान् वर्षान्धकारेष्वपि वासरेषु ।
कथानभिज्ञा धनगर्जितानां वसन्ति यस्यां वनिता वियुक्ताः ॥ 1.10 ॥
यत्रालयाः काञ्चनकेतुदण्डैरुदञ्चितैर्दोभिरिवातिदीर्घैः ।
अपाहरन्तीव कृताभ्यसूयाः शोभां शुनासीरपुरालयानाम् ॥ 1.11 ॥
यदङ्गनाः सौधसमीपलग्नामादाय हस्तैरमृतांशुलेखाम् ।
निवेशयन्त्यो निजकुन्तलेषु विडम्बयन्ति श्रियमम्बिकायाः ॥ 1.12 ॥
यन्मण्डपाः प्रौढनिदाघतप्ताश्चञ्चत्पताकारसनाञ्चलेन ।
आस्वादयन्तीव तुषाररश्मिं सुधारसेन स्वदमानबिम्बम् ॥ 1.13 ॥
विलोक्य चैत्यध्वजसिंहमुद्रां भयाकुले क्वापि गति कुरङ्गे ।
निशाकरो यत्र नितम्बिनीनां साधर्म्यमभ्येति सहाननाब्जैः ॥ 1.14 ॥
यच्चन्द्रशालास्वबलाजनानां वितन्वतां विभ्रममण्डनानि ।
आदर्शतामाश्रयते निशासु पुरोगतं पूर्णसुधांशुबिम्बात् ॥ 1.15 ॥
यत्रेन्द्रनीलोपलगोपुराणां विजृम्भमाणाः किरणप्रणालाः ।
चण्डांशुबिम्बे ऽपि सनीडभाजि क्षणं वितन्वति कलङ्कशङ्काम् ॥ 1.16 ॥
यत्रापगाः स्वच्छजलान्तरालसंक्रान्ततीरस्थितकेलिशैलाः ।
मदोष्मणा मग्नसुरद्विपाया महेन्द्रसिन्धोः श्रियमाश्रयन्ते ॥ 1.17 ॥
यत्रौकसां रत्नविनिर्मितानामुच्चावचैरुच्चलितैर्मयूखैः ।
वर्षावसाने ऽपि महेन्द्रचापैराभाति सन्नद्धमिवान्तरिक्षम् ॥ 1.18 ॥
प्रासादमालासु हिरण्यमयीषु प्रारब्धलीलाः प्रमदा यदीयाः ।
सुमेरुशृङ्गेषु विहारिणीनां सुराङ्गनानां द्युतिमाक्षिपन्ति ॥ 1.19 ॥
यत्रालयानां प्रविजृम्भमाणाः प्रभाविरोहाः स्फटिकाचितानाम् ।
आसन्नभाजां हरितां हयानां यान्तीव कर्णक्षणचामरत्वम् ॥ 1.20 ॥
मरीचिभिर्यन्मणितोरणानां विसृत्वरैर्विच्छुरितप्रवाहा ।
मध्येनभो भाति महेन्द्रसिन्धुः कलिन्दजाकर्बुरितान्तरेव ॥ 1.21 ॥
समुच्छ्रितैः सौधतलेषु यस्यां मत्स्यध्वजैर्मारुतकम्पमानैः ।
सार्धं विगृह्णन्ति सपत्नबुद्ध्या मरुत्स्रवन्तीमकराः सरोषम् ॥ 1.22 ॥
रतिश्रमो यत्र विलासिनीनां प्रासादमभ्रङ्कषमाश्रितानाम् ।
विनीयते गन्धवहेन मन्दं मन्दाकिनीवीचिविहारभाजा ॥ 1.23 ॥
सुधासनाथेन सुधामयूखः कलासमग्रः करपल्लवेन ।
विलिम्पतीव क्षणदासु यस्यां क्रीडागृहाणामुपरिस्थलानि ॥ 1.24 ॥
यत्रेन्द्रनीलोपलकुट्टिमेषु प्रविष्टबिम्बां प्रथमेन्दुलेखाम् ।
मृणालखण्डस्पृहया मरालाश्चञ्चूपुटैश्चर्वितुमुत्सहन्ते ॥ 1.25 ॥
अभ्युद्गतं यद्गृहधूपराशिमकाण्डघाटीपटुराहुदर्शम् ।
पश्यन् भयेनैव पतिर्दिनानामन्तर्दधात्यम्बुधराटवीषु ॥ 1.26 ॥
बिम्बप्रविष्टाः स्फटिकस्थलीषु वक्रश्रियो यद्वरवर्णिनीनाम् ।
विकासिनां व्योमनदीजलेषु सरोरुहाणां वितरन्ति शङ्काम् ॥ 1.27 ॥
सालं यदीयं समतीत्य गन्तुमपारयन् धिक्कृतचक्रवालम् ।
पतिस्त्विषामुत्तरदक्षिणार्धव्याजेन तत्पार्श्वभुवा प्रयाति ॥ 1.28 ॥
प्रभञ्जनक्षोभविजृम्भिताभिर्वीचिभिरुल्लङ्घिततीरदेशम् ।
खातं यदीयं कलशाम्बुराशिं जेतुं समुद्योगमिवातनोति ॥ 1.29 ॥
कनन्ति कालागरुधूपमिश्रा यत्सौधचीनध्वजवैजयन्त्यः ।
कल्लोलभिन्नास्तपनात्मजायाः स्वर्लोकसिन्धोरिव वीचिमालाः ॥ 1.30 ॥
महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः ।
धर्मानुरोधार्जनशुद्धवृत्तिः शुद्धोदनो नाम यथार्थनामा ॥ 1.31 ॥
विभुः प्रतापानलमेव वीध्रं विवाहसाक्ष्ये विरचय्य वीरः ।
यः पर्यणैषीदरिराजलक्ष्मीं कृपाणधाराजलपातपूर्वम् ॥ 1.32 ॥
यः पूर्वमाधाय महाभिषेकं कृतेभकुम्भैर्गलदस्रपूरैः ।
पश्चादरीणां हृदयारविन्दैः पुपोष पूजां रणदेवतायाः ॥ 1.33 ॥
पाणौ कृपाणी विरराज यस्य विभूषिताङ्गी पुलकाक्षरेण ।
आकारणाय द्विषतां यमेन सम्प्रेषिता शासनपत्रिकेव ॥ 1.34 ॥
निरुद्धभूभृन्महिमातिरेको निःशेषपीताहितवाहिनीशः ।
यच्चन्द्रहासो भुवनप्रसादं प्रासूयतागस्त्य इवोदयेन ॥ 1.35 ॥
यो वाहिनीं मेघ इवात्तधन्वा विपक्षभूभृत्कटकप्रभूताम् ।
आसारयन्नाकुलराजहंसां चक्रे समुच्चेलकबन्धनृत्ताम् ॥ 1.36 ॥
अलंकृताङ्गाः सुभटान्त्रमाल्यैरादाय शृङ्गानिव नागहस्तान् ।
यद्वैरिरक्ताम्बुतरङ्गिणीषु व्यात्युक्षिलीला विदधुः पिशाचाः ॥ 1.37 ॥
प्रशस्तिवध्वा प्रवरस्य यस्य प्रतापदीपाञ्जनसंग्रहाय ।
आस्थापितं पात्रमिवेन्द्रनीलमभ्रं घनश्यामलमाबभाषे ॥ 1.38 ॥
आपूरिते निर्भरमन्तरिक्षे यस्याण्डकुक्षिम्भरिभिर्यशोभिः ।
पृथ्वीपतीनां यशसः प्रसर्तुमासीत् परेषामिव नावकाशः ॥ 1.39 ॥
यशस्तदीयं यदि नाभविष्यच्छीतांशुशुभ्रं शिशिरोपचारः ।
सोढुं प्रतापानलमप्रसह्यमपारयिष्यत् कथमेष लोकः ॥ 1.40 ॥
भुजेन भोगीन्द्रधुरन्धरेण यस्मिन् दृढं भूवलयं दधाने ।
प्रत्यर्थिकान्ताभुजवल्लरीभ्यः पपात भूषावलयं विचित्रम् ॥ 1.41 ॥
दयालुमाश्रित्य तमत्युदारं वनीपका नापरमभ्यगच्छन् ।
आसाद्य वाराकरमम्बुबाहाः कासारमन्यं किमु कामयन्ते! ॥ 1.42 ॥
तस्यांसधारासदने ऽवतंसमाल्यासवस्यन्दनितान्तशीते ।
बहिः प्रतापज्वरविह्वलेव विमुक्तलौया विजहार लक्ष्मीः ॥ 1.43 ॥
तस्याभिषेके सचिवावमुक्तैर्गङ्गादितीर्थोपनतैः पयोभिः ।
शत्रुप्रतापानलशक्तितरासि सहैव पुंसां हृदयज्वरेण ॥ 1.44 ॥
सुवर्णरूपं सुमनोनिषेव्यं तुङ्गं सुधर्मास्पदमद्वितीयम् ।
तं भूभृतं मेरुमिव प्रपन्नाश्चकाशिरे षड्गुणरत्नसार्थाः ॥ 1.45 ॥
अन्यत्र कर्णः सुधियामसक्तस्तस्यापदानश्रवणे ससज्ज ।
अपास्य पीयूषरसं सुराणां रसान्तरे किं रमते रसज्ञा! ॥ 1.46 ॥
सहस्रशस्सन्त्वपरे ऽपि भूपास्तेनैव सौराज्यवती धरित्री ।
अनेकरत्नप्रभवो ऽयुदन्वान् रत्नाकरो ऽभून्ननु कौस्तुभेन ॥ 1.47 ॥
महात्मना तेन मखैरजस्रमाहूयमानेष्वमृताशनेषु ।
परिष्क्रियाजायत पारिजातः परं सुराधीश्वरराजधान्याः ॥ 1.48 ॥
तस्यापदानानि तटस्थिताभिः सङ्गीयमानानि सुराङ्गनाभिः ।
आकर्ण्य हर्षाद् द्रवतीव मेरुरद्यापि निष्यन्दजलापदेशात् ॥ 1.49 ॥
तस्मिन् नृपे तन्वति दानवर्षं नैको ऽप्यसम्पूर्णमनोरथो ऽभूत् ।
महाघने वर्षति बद्धधारमलब्धपूर्त्त्यस्ति सरः किमुर्व्याम्! ॥ 1.50 ॥
नदीव सिन्धोर्नलिनीव भानोः कलेव चेन्दोः कमलेव विष्णोः ।
सौदामिनीवाम्बुधरस्य तस्य मायेति नाम्ना महिषी बभूव ॥ 1.51 ॥
तस्याः प्रवालोदरसोदराभं युग्मं पदाम्भोरुहयोर्बभार ।
सामन्तकान्तालकवल्लरीणां पुष्पायमाणान् नखपूर्णचन्द्रान् ॥ 1.52 ॥
विजृम्भमाणा नखरत्नदीप्तिः पदस्य तस्याः पतिदेवतायाः ।
चकार शङ्कां शरणागतायाः स्वर्भानुभीत्या शशिचन्द्रिकायाः ॥ 1.53 ॥
आकारमत्यद्भुतसन्निवेशं दधानयोर्दशितसौकुमार्यम् ।
तज्जङ्घयोस्तादृशकान्तिमत्योर्न चाधिकं नापि समं बभूव ॥ 1.54 ॥
ये दर्शनीया द्विपराजहस्ता ये चाभिजाताः कदलीविशेषाः ।
तदूरुकाण्डद्वयजृम्भमाणसौन्दर्यरत्नाकरबिन्दवस्ते ॥ 1.55 ॥
माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्ष्मापतिधर्मपत्नी ।
वसुन्धरेवार्णवरत्नगर्भवेलासमालिङ्गितसैकतान्ता ॥ 1.56 ॥
सुरार्णवावर्तमनोज्ञशोभं नतभ्रुवो ऽलक्ष्यत नाभिरन्ध्रम् ।
कुचाद्रिकान्तिद्रवनिर्झरस्य निम्नीकृतं स्थानमिव प्रपातैः ॥ 1.57 ॥
तस्या वपुःक्षेत्रमनङ्गशालि सौन्दर्यनिष्यन्दजलैर्जिषेक्तुम् ।
आसूत्रिता यौवनहालिकेन त्रयीव कुल्या त्रिवली चकाशे ॥ 1.58 ॥
विलग्नमालग्नवलित्रयीकं दरिद्रताजन्मगृहं तदीयम् ।
अमर्त्यगङ्गाजलवेणिकाभिराश्लिष्टमाकाशमिवाबभासे ॥ 1.59 ॥
तमालनीला नवरोमराजिस्तस्या बभौ तामरसेक्षणायाः ।
विवृण्वती बाल्यदशाविनाशमुत्पातधूमावलिरुत्थितेव ॥ 1.60 ॥
आतन्वतश्चेतसि कोमलाङ्ग्याः कोदण्डशिक्षां कुसुमायुधस्य ।
मौर्वी बहिर्बिम्बगतेव मान्या तन्व्याश्चकाशे तनुरोमरेखा ॥ 1.61 ॥
विजृम्भमाणेन विलङ्घ्य वेलां तस्यास्तरुण्याः स्तनमण्डलेन ।
निःशेषमाक्रान्तनिजावकाशमासीदवलग्नशेषम् ॥ 1.62 ॥
मृणालिका विभ्रमदीर्घिकाया विद्युल्लता यौवनमेघपंक्तेः ।
मङ्गल्यमाला मकरध्वजस्य बाहा बभौ वामविलोचनायाः ॥ 1.63 ॥
आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे ।
निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ 1.64 ॥
तदाननेन्दुं भुवि निस्सपत्नं निर्मातुकामेन पितामहेन ।
अकारि पद्मं ध्रुवमात्तगन्धमन्तःकलङ्कं च सुधांशुबिम्बम् ॥ 1.65 ॥
तरुप्रवालाश्चलसौकुमार्यात् सिन्धुप्रवालाः स्थिरकर्कशत्वात् ।
न जग्मुरस्या नलिनेक्षणाया बिम्बाधरौपम्यकथाप्रसङ्गम् ॥ 1.66 ॥
बिम्बाधरोष्ठद्युतिरायताक्ष्यास्तस्या विलासस्मितविप्रकीर्णा ।
सन्ध्येव बन्धुकरुचिश्चकाशे चन्द्रातपैः शारितसन्निवेशा ॥ 1.67 ॥
नितान्तकान्तालिकचन्द्रलेखानिष्यन्दसौन्दर्यमहाप्रणाली ।
सीमान्तरेखा नयनान्तनद्योर्नासा बभासे नवयौवनायाः ॥ 1.68 ॥
कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः ।
आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ 1.69 ॥
बभूव तस्या नयनोत्पलस्य नीलोत्पलस्यापि महान् विशेषः ।
अमोघमस्त्रं कुसुमायुधस्य पूर्वं द्वितीयं तु तपःसु शीर्णम् ॥ 1.70 ॥
तस्या विशालेन विलोचनेन विलासगर्भेण विजीयमानाः ।
अद्यापि वासं वनकन्दरेषु ह्रियेव कुर्वन्ति कुरङ्गशावाः ॥ 1.71 ॥
सौभाग्यवाराकरवीचिकाभ्यां तारुण्यकल्पद्रुमशाखिकाभ्याम् ।
भ्रूवल्लरीभ्यां वदनं तदीयं बभाविवाब्जं भ्रमरावलीभ्याम् ॥ 1.72 ॥
रराज राजीवविलोचनाया ललाटरेखा रचितालकान्ता ।
आलक्ष्यनामाक्षरबिन्दुपंक्तिरनङ्गजैत्रध्वजपट्टिकेव ॥ 1.73 ॥
विलोलदृष्टिद्वयलोभनीयं तस्या मुखं साम्यमुपाचकार ।
परिप्लुतान्तःपरिवर्तमानपाठीनयुग्मस्य पयोरुहस्य ॥ 1.74 ॥
गोरोचनागौररुचिश्चकाशे स षट्पदश्यामलकेशपाशा ।
धूमोद्गमैर्धूसरिताग्रभागा मान्योदया मङ्गलदीपिकेव ॥ 1.75 ॥
अर्धासिकां भर्तुरनन्यलभ्यां भद्रासने सैव परं प्रपेदे ॥
अन्याः किमर्हन्त्यपहाय लक्ष्मीं वक्षोनिवासं मधुसूदनस्य ॥ 1.76 ॥
महीपतिर्मान्यगुणोज्ज्वलायां तस्यां महिष्यां तनयाभिलाषी ।
प्रदीपधूपप्रमुखैः पदार्थैः स देवताराधनतत्परो ऽभूत् ॥ 1.77 ॥
ममज्ज तीर्थेषु जजाप मन्त्रं ततान दानानि तपश्चकार ।
शुश्राव धर्मं सुजनं सिषेवे स पुत्रहेतोः सह धर्मपत्न्या ॥ 1.78 ॥
इति गतवति पुण्यैर्दीर्घदीर्घे ऽपि काले, पतिरवनिपतीनां पुत्ररत्नं न भेजे ।
तदपि च ववृधे तत्प्रार्थना तस्य पुंसां विरमति न हि यत्नः कार्यसिद्धेः पुरस्तात् ॥ 1.79 ॥
इति बुद्धघोषाचार्यविरचिते पद्यचूडामणिनाम्नि महाकाव्ये सिद्धार्थचरिते प्रथमः सर्गः ॥
द्वितीयः सर्गः
देवानां तुषितपुरीगमनम्
तत्रान्तरे जगति पूर्वनिमित्तमासीद् दृष्ट्वा तदद्भुतममर्त्यगणाः समेताः ।
सर्वज्ञतावसर एष तवेति वक्तुं जग्मुः पुरीं सुरगुरोस्तुषिताअभिधानम् ॥ 2.1 ॥
उत्तुङ्गनीलमणिमन्दिरजृम्भमाणरोचिश्छटाच्छुरणशाद्वलितान्तरिक्षाम् ।
प्रक्रीडमानमृगशावविलोलदृष्टिच्छायासमुच्चलनचन्द्रकिलोपकण्ठाम् ॥ 2.2 ॥
लीलाचकोररसनाञ्चललिह्यमानप्रासाददन्तवलभीकिरणप्ररोहाम् ।
तिर्यक्प्रवृत्तमणितोरणदीर्घरश्मिमालावलीगुणितवन्दनमालिकाभाम् ॥ 2.3 ॥
शिञ्जानपञ्चशरचक्रितकार्मुकज्याझङ्कारवेगचलिताध्वगवामनेत्राम् ।
दर्पान्धदिग्गजकपोलमदप्रवाहकल्लोलिनीसलिलकर्दमितप्रतोलीम् ॥ 2.4 ॥
शम्पासहस्रचतुरस्रसरोरुहाक्षीदेहप्रभापुनरुदीरितदीपमालाम् ।
सौधस्थलोपरिसमुच्छ्रितवैजयन्तीचीनांशुकाकलितदिग्वनितावगुण्ठाम् ॥ 2.5 ॥
पुष्पावचायवलमानपुरन्ध्रिवर्गपीनस्तनोन्नतिविकल्पितकेलिशैलाम् ।
माकन्दकोरकगलन्मकरन्दपूरधारानुबद्धपुनरुक्ततटाकतोयाम् ॥ 2.6 ॥
श्रृङ्गारमण्डपशिरोनवरत्नतेजःसञ्चारसञ्चितशतक्रतुचापशोभाम् ।
मन्दारकल्पहरिचन्दनपारिजातसन्तानसंहृतदरिद्रकथाप्रसङ्गाम् ॥ 2.7 ॥
तत्र स्थितं सुरगणा ददृशस्तमेनं सिंहासने विविधरत्नशिलानिबद्धे ।
विभ्राजमानबहुधातुविचित्रवर्णे मेरोर्मृगेन्द्रमिव सानुतटप्रदेशे ॥ 2.8 ॥
माणिक्यमौलिवलभीसविधस्थितेन मान्येन मङ्गलसितातपवारणेन ।
पूर्वाचलस्य सुषमां मणितुङ्गश्रृङ्गसंलक्ष्यपूर्णशशिनः प्रतिपक्षयन्तम् ॥ 2.9 ॥
प्रत्यग्रहाटकशिलाफलकायतस्य फालस्थलस्य परितः प्रसृतैर्मखैः ।
आशाविशालनयनाननमण्डनानामाकल्पयन्तमिव कान्तिसुधाविभागम् ॥ 2.10 ॥
आयामशालिभिरमन्ददयासमुद्रवेलाजलेषु विहरद्भिरपाङ्गपातैः ।
आपादयन्तममराधिपराज्यलक्ष्म्याः क्रीडासरोरुहततीरिव दिङ्मुखेषु ॥ 2.11 ॥
आकाशकन्दरदरीषु वितायमानैरानन्दमन्दहसितैरधिकप्रसन्नैः ।
सन्धुक्षणाय निजकीर्त्तिपयःपयोधेः सम्पादयन्तमिव शाश्वतमिन्दुलोकम् ॥ 2.12 ॥
अभ्यर्णवर्त्तिभिरकृत्रिमभक्तिशोभैरात्मीयबिम्बसदृशैः सह मित्रवर्गैः ।
आभाषणेष्वधरविद्रुमरागलक्ष्यादन्तःस्फुरन्तमनुरागमिवोद्गिरन्तम् ॥ 2.13 ॥
आनन्दवाष्पजलजर्जरदृष्टिपातमभ्युल्लसत्पुलकभूषितगण्डरेखम् ।
आकर्णयन्तमभिजातनिजापदानमग्रे कुशीलवगणैरभिगीयमानम् ॥ 2.14 ॥
कल्पद्रुमप्रसवकल्पितकर्णपूररिच्छोलिकाविगलितैर्मकरन्दपूरैः ।
बाहुद्वयस्य महनीयपराक्रमस्य वीराभिषेकमहिमानमिवाचरन्तम् ॥ 2.15 ॥
उत्तुङ्गबाहुयुगलोदयशैलजाततेजोदिवाकरयशोहिमरश्मिशङ्काम् ।
आतन्वतारुणसितोपलनिर्मितेन मङ्गल्यकुण्डलयुगेन मनोज्ञगण्डम् ॥ 2.16 ॥
मन्दारपुष्पकलिकापरिकल्पितेन माल्येन मान्यभुजमध्यविलम्बितेन ।
कण्ठप्रणालिमुखगत्वररक्तधारमादर्शयन्तमिव मैत्रबलावतारम् ॥ 2.17 ॥
अभ्युद्गतैररुणरागमनो ऽभिरामैरामुक्तरत्नवलयांकुररश्मिजालैः ।
निर्भिद्यमाननिजशौर्यमहःप्रवालसञ्छादिताविव भुजौ विटपौ दधानम् ॥ 2.18 ॥
अङ्गैरमन्दहरिचन्दनपङ्कलिप्तैरभ्यन्तरेषु कुतकुंकुमपत्रलेखैः ।
पक्षीन्द्रचञ्चुपुटपाटनजर्जराङ्गां जीमूतवाहनदशामिव दर्शयन्तम् ॥ 2.19 ॥
नानाविधाभरणरत्नमरीचिदण्डैदिङ्मण्डलेषु परितः परिजृम्भमाणैः ।
आगामिबोधिपदवैभवचिह्नभूतामृद्धिपदर्शनधुरामिव शिक्षयन्तम् ॥ 2.20 ॥
आपादपद्ममभितः प्रविजृम्भिताभि रम्भोजरागपतपतकाभरणप्रभाभिः ।
तस्मात् प्रभृत्युपरिभाविमुनित्वमुद्रां काषायधारणकलामिव शीलयन्तम् ॥ 2.21 ॥
संक्रान्तसौधवलभीमणिपुत्रकेण वक्षः कवाटफलकेन मनोहरेण ।
साक्षादुरःस्थलविहारिसमुद्रराज कन्यस्य कैटभरिपोः कलयन्तमाभाम् ॥ 2.22 ॥
निष्यन्दमानमकरन्दनिरन्तरेण रक्तोत्पलेन करपङ्कजलालितेन ।
सद्यो विपाटनगलद्रुधिरारुणेन नेत्रोत्पलेन शिविराजमिवोपलक्ष्यम् ॥ 2.23 ॥
आलेपचन्दनविसृत्वरगन्धलोभा दालीयमानमलिनामभितो निकायम् ।
अज्ञानगाढतिमिरौधमिवान्तरस्थं तेनैव दिक्षु नितरामपसारयन्तम् ॥ 2.24 ॥
आशामुखप्रसृमरैररभिनन्दनीयैराश्चर्यसंहननकान्तिसुधाप्रवाहैः ।
आप्लावयन्तमिव निर्जरराजलोकमात्मप्रतापतपनातुरमन्तिकस्थम् ॥ 2.25 ॥
आलोकबाहुवलयस्खलनारवारवाचालिताखिलहरिन्मुखमण्डलीभिः ।
आरादमर्त्यपुरवारविलासिनीभिराधूयमानसितचामरचक्रवालम् ॥ 2.26 ॥
वक्षःस्थलेन वलमानमनोज्ञहारतारावलीवलयिना गगनोपमेन ।
आकाशसिन्धुलहरीपरिरभ्यमाणमाभासयन्तममराद्रितटावलेपम् ॥ 2.27 ॥
अम्भोरुहाकृतिमभङ्गरपद्मरागभङ्गीभिरारचितमद्भुतपादपीठम् ।
दानाभिभूतनतपद्मनिधिप्रकाशं सव्येतरेण चरणेन परामृशन्तम् ॥ 2.28 ॥
अंघ्रेरक्तलकरसद्युतिहारिणीभिरभ्युद्गताभिररुणांगुलिदीधितीभिः ।
वन्दारुदेववदनाम्बुजबोधनाय बालातपप्रसरवर्षमिवाचरन्तम् ॥ 2.29 ॥
नक्षत्रनाथकरकन्दलमांसलेन नव्येन पादनखदीधितिजालकेन ।
निष्यन्दमानसुरनिर्झरिणीमरन्दधाराभिरामचरणाब्जमिवाब्जनाभम् ॥ 2.30 ॥
संसारेघोरपरितापजुषां जनानां संरक्षणाय किमयं समयो न वेति ।
जिज्ञासया क्षणमिवावतरीतुकामं माणिक्यकुट्टिमतलप्रतिमानिभेन ॥ 2.31 ॥
दृष्ट्वा जगत्त्रयगुरुं शिरसा प्रणेमुर्दूरानतेन तुषितालयपारिजातम् ।
वाचामतीत्य पदवीमभिवर्तमानमारेभिरे स्तुतिभिरर्चयितुं च देवाः ॥ 2.32 ॥
दीनावलोकनदशान्तरजृम्भमाणकारुण्यपूरपरिवाहमहाप्रणालैः ।
अस्मानपाङ्गय विनिद्रसरोजमुद्राकर्णेजपैस्तव सुरेन्द्र! कटाक्षपातैः ॥ 2.33 ॥
स्वैरोज्जिहानसुषमाभरदुग्धसिन्धुकल्लोलकन्दलकरम्बितगात्रयष्टे ।
चूडावतंस! तुषितालयदेवतानां तुभ्यं नमः परमकारुणिकव्रताय ॥ 2.34 ॥
प्रज्ञाप्रधानमहिषीपदपट्टबन्धसम्भावनातिशयसम्भृतनिर्वृताय ।
सर्वोत्तराश्रमकथामृतपानलीलागोष्ठीपराय गुणवारिधये नमस्ते ॥ 2.35 ॥
मैत्रीकलत्रकुचभारपटीरपङ्कपत्रावलीमकरिकाङ्करमण्डिताय ।
तेजस्तरङ्गितदिगन्तरकन्दराय, त्रैलोक्यभाग्यपरिपाकभुवे नमस्ते ॥ 2.36 ॥
मारप्रतापबडवानलकीलजालजाज्वल्यमानजननार्णवधर्मनावे ।
दिवपालशेखरितशासनपत्रिकाय दिक्यानुभाव! जगदेकगुरो! नमस्ते ॥ 2.37 ॥
निष्यन्दमाननिरपायकृपाप्रवाहवीचीविटङ्कवलमानविशालदृष्टे ।
ध्यानामृतद्रवतरङ्गितचित्तवृत्ते! देवादिदेव! जगदेकदृशे नमस्ते ॥ 2.38 ॥
निर्व्याजकृत्तगलनिर्गलदस्रधारानिर्वापितक्षुधितराक्षसजाठराग्ने ।
निर्वाणकेलिकृतिनिर्मितिसूत्रधार! नेत्राभिराम! सुरराज! नमो नमस्ते ॥ 2.39 ॥
गन्धर्वराजमहिलाजनगीयमानकीर्त्तिप्रवाहपरिवाहितदिङ्मुखाय ।
भव्यानुरक्षणपराय फलोन्मुखीनभाग्याधिकाय भगवन्! भवते प्रणामः ॥ 2.40 ॥
नित्यप्रवृत्तनिरवद्यमहाप्रदानशोभापराजितसुरद्रुइमकामधेनो ।
शुद्धाशयाय सुचरित्रविभूषणाय तुभ्यं नमस्तुषितलोकधुरन्धराय ॥ 2.41 ॥
राकासुधाकिरणबिम्बमनो ऽभिरामवक्त्रावधूतवरवारिजवैभवाय ।
शान्ताशयाय शफरध्वजबाहुवीर्यमुष्टिन्धयाय मुनिमान्यधिये नमस्ते ॥ 2.42 ॥
शृङ्गारितायतदिगन्तमदावलेन्द्रशुण्डारकाण्डपरिभावुकबाहुदण्डम् ।
सौन्दर्यकन्दलितचारुमुखारविन्दं वन्दामहे वरदराज! भवन्तमेव ॥ 2.43 ॥
वीर! त्वमेव विजिताखिलदिङ्मुखस्य मीनध्वजस्य विनिपातविधौ विदग्घः ।
सिंहाद् ऋते जगति कः खलु धीरचेता दन्तावलं जयति जर्जरिताद्रिकूटम् ॥ 2.44 ॥
विद्वेषतापमखिलं जगतां विनेतुं शक्तस्त्वमेव शरणागतपुण्यराशे ।
धाराधरं तरलविद्युतमन्तरेण दावानलं शमयितुं भुविः कः क्षमेत! ॥ 2.45 ॥
मोहान्धकारमुषितानि जगत्त्रयाणि पुण्याधिक! त्वमसि बोधयितुं प्रवीणः ।
को वा विकासयितुमर्हति कोकबन्धुं भानुं विना शरदि पङ्कजकाननानि ॥ 2.46 ॥
तृष्णाप्रवाहमवशोषयितुं जनानां तेजस्विनामधिप! दक्षतरस्त्वमेव ।
कल्पावसानबडवानलमन्तरेण कः पारयेज्जगति पातुमपामधीशम् ॥ 2.47 ॥
धीर! त्वमेव जननाम्बुनिधेस्त्रिलोकीं पारं परं गमयितुं पटुतामुपैषि ।
को वा विहाय भुवेन कुहनावराहं क्षोणीसमुद्धृतिविधौ कुशलः पयोधेः ॥ 2.48 ॥
इत्थं सुपर्वविहितां स्तुतिमादरेण श्रुत्वा प्रसन्नहृदयस्तुषिताधिराजः ।
गम्भीरवारिधरगर्जितमन्दरेण तान् प्रत्युवाच वचसा मधुराक्षरेण ॥ 2.49 ॥
भो भोःपुरन्दरमुखा हरिदन्तपालाः सम्भूय यूयमिह सादरमागताः किम् ।
कार्य मया किमपि चेद् भवतामभीष्ट मावेद्यतामलमिह स्तुतिसम्पदेति ॥ 2.50 ॥
ते ऽपि प्रसन्नमनसः प्रणिपत्य तस्मै व्यज्ञापयन् विनयनम्रितपूर्वकायाः ।
देवाधिदेव! जगतामवबोधनाय, सन्तिष्ठते समुचितो ऽवसरस्तवेति ॥ 2.51 ॥
आकर्ण्य तद्वचनमश्रुतपूर्वमेषां कालादिचिन्तनपरः क्षणमेष भूत्वा ।
निश्चित्य तत् सकलमेव निधिर्गुणानां प्रत्यब्रवीत् पुनरमून् प्रथितापदानः ॥ 2.52 ॥
शुद्धोदनस्य सुततामहमेत्य सत्यं सम्बोधनं त्रिजगतां नियतं करिष्ये ।
अङ्गैर्धनैरसुभिरप्यहमेतदेव सम्प्रार्थ्य पुण्यनिचयं कृतवान् पुरेति ॥ 2.53 ॥
इति कृतवति तस्मिन् सत्यसन्धे प्रतिज्ञां परहितपरभावे पारमीपारनिष्ठे ।
प्रमुदितमनसस्ते स्फीतरोमाञ्चदण्डप्रचयनिचुलिताङ्गाः प्रत्यगच्छन् यथेच्छम् ॥ 2.54 ॥
अथ कानिचिदेव वासराणि क्षपयित्वा त्रिदिवे स देवराजः ।
विदधे विविधव्रतोज्ज्वलायां प्रतिसन्धिं पृथिवीपतेर्महिष्याम् ॥ 2.55 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये द्वितीयः सर्गः ॥
तृतीयः सर्गः
दौहृदलिङ्गाधानम्
अथोदयं शाक्यमहीपतीनामानन्दमालीजनलोचनानाम् ।
आश्वासनं सज्जनमानसानामाधत्त सा दौहृदलिङ्गमार्या ॥ 3.1 ॥
विवर्धमानेन च मध्यमेन श्यामायमानेन च चूचुकेन ।
गर्भोदयो ऽभूदलसेक्षणायास्तस्याः सखोनामनुमानगम्यः ॥ 3.2 ॥
महामुनीनामपि माननीये गर्भत्वमातस्थुषि बोधिसत्त्वे ।
मध्यस्तदीयो मनसो ऽपि सूक्ष्मः प्रियादिव स्फीततरो बभूव ॥ 3.3 ॥
यथा यथा वृद्धिमवाप तस्या मध्यं महिष्या महनीयमूर्त्तेः ।
तथा तथा वृद्धिमवाप गात्रमपुत्रताशोककृशस्य भर्त्तुः ॥ 3.4 ॥
स्तनद्वयस्याग्रमभूद् विवर्णं साकं सपत्नीवदनेन तस्याः ।
किञ्चाननं गर्भभरालसायाः कीर्त्त्या समं पाण्डुरमास भर्त्तुः ॥ 3.5 ॥
अन्तर्गतस्याद्भुतविक्रमस्य विश्वत्रयीविस्मयनीयमूर्त्ते ।
प्रतापवह्नेरिव धूपजालैस्तस्याः स्तनः श्याममुखो बभूव ॥ 3.6 ॥
तस्याः स्तनद्वन्द्वमनिन्दिताङ्ग्याः श्यामं शिखायामवशेषपाण्डु ।
तटाभिघाताहितपङ्कमुद्रामाधत्त नागाधिपकुम्भलक्ष्मीम् ॥ 3.7 ॥
वृद्धा वितेनुर्विविधौषधीभिः पुत्रस्य रक्षामुदरस्थितस्य ।
सैव स्मरोपद्रवपीडितानां बभूव रक्षा भुवनत्रयाणाम् ॥ 3.8 ॥
पुण्ये मुहूर्ते पुंरुहूतलक्ष्मीः कुलानुरूपं गुरुगर्भवत्याः ।
यथाक्रमं पुंसवनादि कृत्यं निर्वर्तयामास नृपो महिष्याः ॥ 3.9 ॥
प्रभातवेलेव सहस्रभानुं प्रदोषलक्ष्मीरिव शीतरश्मिम् ।
भद्रे मुहूर्ते नृपधर्मपत्नी प्रासूत पुत्रं भुवनैकनेत्रम् ॥ 3.10 ॥
तत्रान्तरे तामरसैरुदारैरुदञ्चितैरञ्चितपञ्चवर्णैः ।
सञ्छादिता तस्य विहारहेतोः कृतोपहारेव बभूव पृथ्वी ॥ 3.11 ॥
शाखासु शाखासु समुद्भवद्भिविचित्रपत्रैः शतपत्रजातैः ।
चकाशिरे तस्य विलोकनाय सञ्जातनेत्रा इव शाखिनो ऽपि ॥ 3.12 ॥
अस्माकमुत्पत्तिरिवात्र भूमौ बुद्धाङ्कुराणामपि दुर्लभेति ।
सन्दर्शनायेव शरीरभाजां नालीकमासीन्नभसः स्थले ऽपि ॥ 3.13 ॥
अस्योपदेशादखिलो ऽपि सत्यं निर्वाणमभ्येष्यति जीवलोकः ।
किमस्मदभ्युज्ज्वलनैरतीव निर्वाणमीयुर्निरयाग्नयो ऽपि ॥ 3.14 ॥
महात्मनस्तस्य महीध्रपातगुरूणि पादाक्रमणानि सोढुम् ।
अपारयन्तीव भृशं चकम्पे विश्वम्भरा विश्लथशैलबन्धा ॥ 3.15 ॥
तालप्रमाणाः सहसा धरित्रीं भित्त्वा समुत्तस्थुरुदप्रवाहाः ॥
पुण्यात्मनस्तस्य नमस्क्रियार्थं भुजङ्गलोका इव शेषवश्याः ॥ 3.16 ॥
अमुष्य सर्वत्र वितायमानैराकाशङ्गासलिलावदातैः ।
यशःप्रवाहैरिव लिप्यमाना दिशः समस्ताः विशदीबभूवुः ॥ 3.17 ॥
æजातः पृथिव्यामधिपो मुनीनाम्æ इति ब्रुवाणा इव विष्टपानाम् ।
मङ्गल्यशङ्खानकमर्दलाद्यवाद्यप्रभेदाः स्वयमेव रेणुः ॥ 3.18 ॥
महानुभावस्य महाभिषेकसम्भावनां कर्तुमिव प्रवृत्ताः ।
व्यतीत्य वेलां सकलाः समुद्राः प्रचेलुरभ्युच्छ्रितवीचिहस्याः ॥ 3.19 ॥
चचाल मेरोरचलाभिधानं चस्खाल सिन्धोर्लवणोदवार्ता ।
आख्या स्रवन्तीत्यगलत्स्रवन्त्यास्थिरेति भूमेरभिधा व्यरंसीत् ॥ 3.20 ॥
ववर्ष वर्षासमयं विनापि वलाहको वारिधिधीरघोषः ।
आश्चर्यकर्माणि बभूवुरित्थं जाते सतामग्रसरे कुमारे ॥ 3.21 ॥
आस्फालितानेकमृदङ्गघोषवाचालिताशान्तदरीमुखाणाम् ।
आनन्दनृत्तभ्रमिघूर्णमानवसुन्धरान्दोलितभूधराणाम् ॥ 3.22 ॥
अन्योन्यसम्मर्दविशीर्णहारमुक्तावलीतारकितस्थलीनाम् ।
प्रक्षिप्तपिष्टातकपांसुमुष्टिशृङ्गारिताशेषदिगन्तराणाम् ॥ 3.23 ॥
परस्पराक्षिप्तविभूषणानां पर्यस्तचूडामणिशेखराणाम् ।
एकालयस्येव जगत्त्रयाणां बभूव तज्जन्ममहोत्सवश्रीः ॥ 3.24 ॥
प्रत्यग्रगर्भच्छविपाटलेन सुतेन माता सुतरां चकाशे ।
नव्योदयालोहितविग्रहेण वेलेव बालेन सुधाकरेण ॥ 3.25 ॥
प्रतप्तचामीकरभास्वरेण प्रसर्पता तस्य शरीरभासा ।
प्रसूतिकागर्भगृहप्रदीपाः प्रत्यूषताराप्रतिमा बभूवुः ॥ 3.26 ॥
अत्यद्भुतामात्मजजन्मवार्तां श्रृण्वन् स शुद्धान्तजनान्नरेन्द्रः ।
आनन्दमूर्च्छाकुलचित्तवृत्तिः कर्तव्यमूढः स्तिमितो बभूव ॥ 3.27 ॥
पदार्थमेतत्प्रियदानयोग्यमदृष्टवान् स त्रिषु विष्टपेषु ।
सर्वस्वदानेन तथापि राजा सम्भावयामास तमत्युदारः ॥ 3.28 ॥
भद्रे मुहूर्ते स पतिः प्रजानां ददर्श देव्याः स्तिमितायताक्षः ।
कुमारमुत्सङ्गतले शयानं तटे तटिन्या इव हंसशावम् ॥ 3.29 ॥
अश्रान्ततृष्णेन विलोचनेन मुखेन्दुमास्वादयतः स्वसूनोः ।
आसीत् पितुः कण्टकिताङ्गयष्टेरानन्दबाष्पप्रसरो निरोधः ॥ 3.30 ॥
स्तनन्धयस्याननचन्द्रबिम्बममन्दसौन्दर्यसुधानिधानम् ।
निपीय नेत्राञ्जलिना नितान्तं नृपाधिपो निर्वृतिमाससाद ॥ 3.31 ॥
स जातकर्मादिकमत्युदारं सूनोः समापय्य पुरोहितेन ।
ऽसिद्धार्थ ऽ इत्यस्य जगत्प्रशस्यामनन्ययोग्यामकरोदभिख्याम् ॥ 3.32 ॥
नवाम्बुवाहेन नभःस्थलीव नव्येन तारापतिना निशेव ।
मृगेन्द्रशावेन महाटवीव विभूषिता सन्ततिरास तेन ॥ 3.33 ॥
अव्यक्तवर्णाभिरमुष्य वाग्भिर्यथा नृपः प्रीतमना बभूव ।
तथा न गानैरपि गायकानां महाकवीनामपि वाग्विलासैः ॥ 3.34 ॥
निसर्गसौरभ्यनितान्तहृद्यं तस्याननं तादृशसौकुमार्यम् ।
बभूव सामान्यमयातयामं लीलाब्जमन्तःपुरसुन्दरीणाम् ॥ 3.35 ॥
मनो ऽभिरामैर्मणिकिङ्कणीनां मातुर्मुदं मांसलयन्निनादैः ।
आत्मीयबिम्बानुनयाभिमानश्चिक्रीड सूनुर्मणिमेदिनीषु ॥ 3.36 ॥
आतन्वता पांसुविहारमाप्तैरमात्यपुत्रैः सह बालकेन ।
संग्रामभूधूलिषु भाविनीषु स्वैरं विहर्तुं विहितेव योग्या ॥ 3.37 ॥
स धीरमन्तःपुरसिंहशावैः संक्रीडमानः सह राजसूनुः ।
अत्यद्भुतस्यात्मपराक्रमस्य शिक्षामिवैषां चिरमन्वतिष्ठत् ॥ 3.38 ॥
अनुप्रवृत्तान्मणिघण्टिकानामारावहर्षाद् गृहराजहंसान् ।
तताट पादेन तदीयराजशब्दासहिष्णुः किल तान् कुमारः ॥ 3.39 ॥
नखांकुशाघातविधूतमूर्धा मुखारवप्रस्रुतवृंहितश्रीः ।
मङ्गल्यनिर्वृत्तमदाम्बुरेखो बालो वितेने मदहस्तिलीलाम् ॥ 3.40 ॥
अभ्युल्लसच्चम्पकदामदीप्तिरालोकसम्भावितजीवलोकः ।
स दारको दीप इव प्रदीप्तः शोकान्धकारं विनिनाय पित्रोः ॥ 3.41 ॥
कृतोपवीतं गलितातिबाल्यं समस्तविद्यापरिशीलनाय ।
तमर्पयामास कुमारवर्यमाचार्यहस्तेषु पतिः पृथिव्याः ॥ 3.42 ॥
स देशिकेन्द्रैरुपदिश्यमाना विद्याः समस्ताः सकलाः कलाश्च ।
जग्राह मेधावितयाचिरेण वर्षाघनो वारिनिधेरवाप ॥ 3.43 ॥
अनन्यसामान्यधियं कुमारमासाद्य विद्याः सुतरां विरेजुः ।
शरत्प्रसन्नं गगनावकाशं ताराधिपस्येव मयूखमालाः ॥ 3.44 ॥
नितान्तमानन्दयता प्रजानां मनांसि सद्यो हरता तमांसि ।
चन्द्रोदयेनेव महासमुद्रः शाक्यान्वयस्तेन समुल्ललास ॥ 3.45 ॥
प्रभेव भानोः प्रतिभेव सूरेः शिखेव दीपस्य दयेव साधोः ।
ज्योत्स्नेव चन्द्रस्य सुधेव सिन्धोस्तस्योदितासीन्नवयौवनश्रीः ॥ 3.46 ॥
आरोप्य तारुण्यविशेषशाणं रौषाणितानीव मनोभवेन ।
अङ्गान्यभिव्यञ्जितलक्षणानि विभक्तसन्धीनि बभूवुरस्य ॥ 3.47 ॥
तस्यांध्रियुग्मं सहजाभिरूप्यं रेखासहस्राररथाङ्गचिह्नम् ।
नव्यानि नालीकवनानि नूनं नखप्रभचन्द्रिकया जहास ॥ 3.48 ॥
वलित्रयालंकृतिदर्शनीयविलग्नभागो नरपालसूनुः ।
मन्थाचलो वासुकिभोगवेष्टः लेखोल्लसन्मध्य इवालुलोके ॥ 3.49 ॥
गुणैः समस्तै सह राजसूनोर्नितम्बबिम्वः प्रथिमानमाप ।
दोषैरशेषैः सममेव तस्य मध्यप्रदेशः कृशतामयासीत् ॥ 3.50 ॥
नाभिह्रदस्तस्य नरेन्द्रसूनो रोमावलीकेतननीलयष्टिम् ।
निखातुकामेन मनोभावेन निर्वर्तितो गर्त इवाबभासे ॥ 3.51 ॥
श्रियः सरोजान्तरदुःस्थिताया विशृङ्खलं दातुमिवावकाशम् ।
पुण्यात्मनस्तस्य भुजान्तराअलं बभूव विन्ध्याद्रिशिलाविशालम् ॥ 3.52 ॥
शूरस्य तस्य क्षितिपालसूनोर्वृक्षःकवाटे सति वज्रसारे ।
चक्रुः कवाटं सदनेषु सत्त्वा विभूषणार्थं न तु रक्षणार्थम् ॥ 3.53 ॥
भुजो भुजङ्गाधिपभोगदीर्घस्तस्य प्रजापालनपण्डितस्य ।
अक्षेपणीयः प्रतिभूपतीनां त्रैलोक्यरक्षापरिघो बभूव ॥ 3.54 ॥
रेखाभिरत्यन्तपरिस्फुटाभिस्तत्कन्धरा बन्धुरसन्निवेशा ।
गाढादरालिङ्गितकान्तिलक्ष्मीकेयूरमुद्राभिरिवावबभासे ॥ 3.55 ॥
मुग्धस्य तस्यास मुखाम्बुजस्य महोत्पलस्यापि महान् विशेषः ।
वाणिमलोलां वहति स्म पूर्वं स्वभावलोलामितरतु लक्ष्मीम् ॥ 3.56 ॥
वाण्या वरेण्यस्य मुखे वसन्त्या मञ्जीरशिञ्जानमिवास सूक्तम् ।
नखप्रभेव स्मितचन्द्रिकासीन्मुक्ताक्षमालेव च दन्तपंक्तिः ॥ 3.57 ॥
तदाननाम्भोरुहकान्तिलक्ष्म्यास्तद्गण्डभित्तिर्मणिदर्पणश्रीः ।
तत्कर्णपाशश्च विलासडोला तदीक्षणं विभ्रमदीर्धिकासीत् ॥ 3.58 ॥
भ्रूवल्लरी तस्य मनोज्ञमूर्त्तेस्तारांशुलीढोभयकोटिभागा ।
कोदण्डलीलेव विजित्य मारादात्मीकृतारोपितभृङ्गमौवी ॥ 3.59 ॥
प्रसन्नमूर्णावलयाभिरामं ज्योतिर्मयं तस्य मुखारबिन्दम् ।
भूयिष्ठमन्तर्गतचन्द्रलेखां बालार्कबिम्बश्रियमाततान ॥ 3.60 ॥
ऊर्णाभिरामा नरपालसूनोर्निटालभूमिर्नितरां चकाशे ।
वप्रक्रियाभग्ननिलीनदन्तिदन्तांकुरा मेरुशिलातटीव ॥ 3.61 ॥
विनाङ्गरागेण विनाङ्गदेन विनावतंसेन विना स्रजापिउ ।
आविष्कृतासेचनकालमासीदङ्गः तदीयं नवयौवनेन ॥ 3.62 ॥
आनन्दयित्री हरिणेक्षणानामदुष्टिपूर्वा पुरुषान्तरेषु ।
निर्व्याजभूषा निखिलाङ्गयष्टेस्तस्योदितासीत् समुदायशोभा ॥ 3.63 ॥
विश्वम्भरावलयधारणयोग्यबाहोः सूनोर्नृपः सुरपतिप्रतिमस्वभावः ।
माणिक्यकुम्भभरितैर्मणिमन्त्रपूतैस्तीर्थैश्चकार युवराजपदाभिषेकम् ॥ 3.64 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये तृतीयः सर्गः ॥
चतुर्थः सर्गः
सिद्धार्थविवाहप्रस्तावः
अथो कुमारस्य कुलोद्वहस्य करग्रहं कारयितुं नरेन्द्रः ।
का सास्य योग्या भुवि कन्यकेति चिन्तयामास समेतबन्धुः ॥ 4.1 ॥
तत्रान्तरे कोलियभूमिपालः कुमारिकां मे कुलरत्नदीपाम् ।
दास्यामि सूनोस्तव सर्वथेति सन्देशपत्रं विससर्ज तस्मै ॥ 4.2 ॥
आकर्ण्य सन्देशमुखादुदन्तमतीव सन्तुष्टमनाः क्षितीशः ।
तथैव सज्जीक्रियतां त्वयेति सन्देशमस्मै प्रजिघाय भूयः ॥ 4.3 ॥
तथेति सो ऽपि प्रतिगृह्य तस्मै सन्देशपत्रं समुदीर्णहर्षः ।
प्रचक्रमे कारयितुं कुमार्या विवाहदीक्षोत्सवमत्युदारम् ॥ 4.4 ॥
आरोपिताभ्रङ्कषकेतुमालमाबद्धकौशेयवितानशोभम् ।
अभ्युच्छ्रितेन्द्रायुधतोरणाङ्कमभ्यन्तरस्थापितपूर्णकुम्भम् ॥ 4.5 ॥
आस्तीर्णमुक्तासिकताभिराममाकीर्णनानाकुसुमौपहारम् ।
आरब्धवैवाहिकसंविधानमन्तःपुरं भूमिपतेर्बभूव ॥ 4.6 ॥
अभ्यक्तगात्रीमधिवासितेन तैलेन गन्धामलकोपलिप्ताम् ।
वराङ्गनास्ता मणिकुम्भमुक्तैरम्भोधरैः सादरमभ्यषिञ्चन् ॥ 4.7 ॥
स्नानावसाने नरदेवकन्या पाथोभरार्द्रं परिमुच्य वासः ।
समाददे चारुतरं दुकूलं चन्द्रातपं शारदिकेव रात्रिः ॥ 4.8 ॥
ततः प्रकीर्णाभिनवप्रसूने चतुष्कमध्ये विनिवेश्य सख्यः ।
नानाविधैराभरणैर्नरेन्द्रकन्यामलञ्चक्रुरतिप्रवीणाः ॥ 4.9 ॥
अन्तःसमावेशितफुल्लमल्लीधम्मिल्लबन्धस्तरलेक्षणायाः ।
ततान तारागणशारितस्य गाढान्धकारस्तबकस्य कान्तिम् ॥ 4.10 ॥
आकुञ्चिताग्रैरलकैः प्रशस्तैस्तस्या मुखाम्भोरुहमाबभासे ।
तदीयसौरभ्यसमृद्धिलोभादालीयमानैरिव चञ्चरीकैः ॥ 4.11 ॥
सिन्दूरक्लृप्त क्षितिपालपुत्र्या विवाहदीक्षातिलको विरेजे ।
प्राप्ताधिपत्यस्य मनोभवस्य प्रतापबाकार्क इवोज्जिहानः ॥ 4.12 ॥
कर्णावसक्ताः कमलेक्षणाया यवाङ्कुराः सातिशयं विरेजुः ।
त्रिलोकजिष्णोः कुसुमायुधस्य कीर्त्तिप्ररोहा इव जृम्भमाणाः ॥ 4.13 ॥
कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः ।
आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य ॥ 4.14 ॥
विन्यस्तकालाञ्जनदर्शनीयं विलोचनं मीनविलोचनायाः ।
अत्युग्रहालाहलपङ्कदिग्धामनङ्गबाणश्रियमन्वयासीत् ॥ 4.15 ॥
अनन्यसाधारणपाटलिम्नस्तस्या मनोज्ञस्य रदच्छदस्य ।
आकल्पिता यावकपङ्कभतिरभूतपूर्वां न चकार शोभाम् ॥ 4.16 ॥
अलंकृतं मौक्तिककुण्डलाभ्यामम्भोरुहाक्ष्या मुखामार्द्रहासम् ।
पार्श्वद्वयावस्थितपुण्डरीककोशं शरत्कोकनदं जिगाय ॥ 4.17 ॥
आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे ।
निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव ॥ 4.18 ॥
तस्या वपुश्चन्दनपङ्कलिप्तमामोदिकालागरुभक्तिचित्रम् ।
कलिन्दजाकर्बुरितान्तरायाः शोभामपुष्यत् सुरशैवलिन्याः ॥ 4.19 ॥
पयोधरद्वन्द्वमनिन्दिताङ्ग्याः परिस्फुरन्निस्तलताअरहारम् ।
आकीर्णतारानिकराभिरामामस्ताद्रिशृङ्गश्रियमन्वगच्छत् ॥ 4.20 ॥
बलित्रयालंकृतमध्यदेशा तन्वी विलोलस्तनभारहारा ।
तरङ्गिता शीकरजालिताङ्गचक्राह्वया शैवलिनीव रेजे ॥ 4.21 ॥
माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्षोणिपतेस्तनूजा ।
वसुन्धरा वारिधिरत्नगर्भवेलासमालिङ्गितसैकतैव ॥ 4.22 ॥
रराज तस्या नवरोमराजिरारोहतस्तुङ्गपयोधराद्रिम् ।
शृङ्गारयोनेरवलम्बनार्थमालम्बितेन्दीवरमालिकेव ॥ 4.23 ॥
अनर्घचामीकरकल्पिताभिरलंक्रियाभिः सुतनुश्चकाशे ।
समुज्ज्वला नूतनमञ्जरीभिः सञ्चारिणी चम्पकवल्लरीव ॥ 4.24 ॥
अलक्तकासङ्गविवृद्धरागमंघ्रिद्धयं कोमलमायताक्ष्याः ।
नवातपस्पर्शविशेषदृश्यां नालीकशोभां नमयाञ्चकार ॥ 4.25 ॥
आकल्पसौन्दर्यदिदृक्षयेयमाबिभ्रती स्फाटिकमात्मदर्शम् ।
विदिद्युते पूर्णशशाङ्कविम्बसम्पर्किणी शातमखी दिशेव ॥ 4.26 ॥
अनन्तरं बन्धुरगात्रयष्टेः पुरोधसः पूर्णमनोरथायाः ।
न केवलं कौतुकमाबबन्धुः कराम्बुजे किञ्च हदम्बुजे ऽपि ॥ 4.27 ॥
एवं समापय्य कुमारिकाया वैवाहिकं मण्डनसंविधानम् ।
कुतूहली कौलियभूमिपालस्तस्थौ वरस्यागममीक्षमाणः ॥ 4.28 ॥
अथ स्ववेश्मन्यधिराजसूनुः स्नातानुलिप्तो नवधौतवासाः ।
उल्लासिकां लोकविलोचनानामुद्वाहभूषामुररीचकार ॥ 4.29 ॥
सुवर्णसूत्रग्रथितान्तरेण क्षौमोत्तरीयेण स राजसूनुः ।
विद्युत्पिनद्धेन शरद्घनेन वियत्तलाभोग इव व्यराजत् ॥ 4.30 ॥
विशालवक्षःस्थललम्बितेन मुक्ताकलापेन बभौ कुमारः ।
विराजमानेन तटोपकण्ठं छायापथेनेव सुवर्णशैलः ॥ 4.31 ॥
प्रसन्नगम्भीरवपुः कुमारः प्रवालमुक्तामयकुण्डलाभ्याम् ।
चण्डांशुताराधिपमण्डलाभ्यामलंकृतो मेरुरिवालुलोके ॥ 4.32 ॥
वरश्चकाशे हरिचन्दनार्द्रो बालातपाताम्र इवोदयाद्रिः ।
धातुच्छटाविच्छुरितः करीव सन्ध्यामहःसान्द्र इवामृतांशुः ॥ 4.33 ॥
आदर्शबिम्बे प्रतिमाशरीरमामुक्तरत्नाभरणस्य यूनः ।
वैकर्तनं मण्डलमास्थितस्य पुंसः पुराणस्य पुपोष लक्ष्मीम् ॥ 4.34 ॥
अलंक्रियाजायत देहकान्तिर्नैसर्गिकी तस्य नरेन्द्रसूनोः ।
एईश्वर्यचिह्नानि परं बभूवुरन्यानि माणिक्यविभूषणानि ॥ 4.35 ॥
उक्षिप्तमुक्तातपवारणश्रीरुद्धूतबालव्यजनोपचारः ।
आरुह्य वैवाहिकमौपवाह्यं जगाम सन्बन्धिगृहं कुमारः ॥ 4.36 ॥
तमागतं शाक्यकुलप्रदीपं क्षोणीपतिः कोलियचक्रवर्त्ती ।
स्वयं पदाभ्यामभिगम्य दूरं वैवाहिकं मण्डपमानिनाय ॥ 4.37 ॥
ददर्श धीरः क्षितिपालपुत्रीं तत्र स्थितां तारकराजवक्त्राम् ।
लीलारविन्देन करस्थितेन पयोधिकन्यामिव भासमानाम् ॥ 4.38 ॥
सोत्कण्ठमालोकयतः कुमारीं सुधांशुशोभापरिभावुकाङ्गीम् ।
अतीत्य वेलामधिराजसूनोरानन्दसिन्धुः प्रससार दूरम् ॥ 4.39 ॥
यत् कार्यते तत्र पतिव्रताभिः कृत्वा तदेतत् सकलं कुमारः ।
तया समं तामरसायताक्ष्या जताम वैतानिकवेदिमध्यम् ॥ 4.40 ॥
उदर्चिषस्तस्य हुताशनस्य हविर्भिरुच्चैर्ज्वलतः पुरस्तात् ।
क्रियाकलापे कृतधीः पुरोधाः संयोजयामास वधूकुमारौ ॥ 4.41 ॥
आसीत् कुमारः पुलकप्ररोहैरुदञ्चितैः कञ्चुकिताङ्गयष्टिः ।
वैकक्षमाल्यच्युतकेसरास्तद्गुप्त्यै बभूवुर्गुणरत्नराशेः ॥ 4.42 ॥
आविर्भवद्भिः श्रमवारिलेशैरार्द्राङ्गुलिः कोलियकन्यकासीत् ।
विवाहधाराजलशीकरास्तद्व्याजीबभूवुर्विपुलेक्षणायाः ॥ 4.43 ॥
आलोकलोभादभिवर्तमाना निवर्तमानास्त्रपया च शश्वत् ।
तयोरपाङ्गप्रसरास्तदानीं डोलाविहारश्रियमन्वभूवन् ॥ 4.44 ॥
अभ्यस्तया संवरणाम्बुशेरावर्तचक्रभ्रमलीलयेव ।
वरः समं वामदृशा कृशानोः प्रदक्षिणाप्रक्रममन्वतिष्ठत् ॥ 4.45 ॥
कन्याकुमारौ कमनीयरूपावालोक्य होमाग्निरदृष्टपूर्वौ ।
प्रदक्षिणार्चिःस्फुरणच्छलेन श्लाघाशिरःकम्पमिवाचचार ॥ 4.46 ॥
गुरुप्रयुक्ता कुलपालिका सा लाजोपहार विससर्ज वह्नौ ।
मरुद्विधूता लतिकेव पुष्पं चूतद्रमे स्यूतनवप्रवाले ॥ 4.47 ॥
समुद्गता धूमततिः कृशानोः समीपलग्ना मुखसारसस्य ।
अम्लाननीलायतनालभङ्गीम ङ्गीचकाराम्बुजलोचनायाः ॥ 4.48 ॥
तस्मादुदीर्णा नवधूमराजिस्तस्या मुखे तद्ग्रहणप्रसन्ने ।
क्षणं समालक्ष्यत सञ्चरन्ती सरोरुहे षट्पदमालिकेव ॥ 4.49 ॥
वक्त्रारविन्दं परितः प्रकीर्णा वामभ्रुवो मङ्गलधूमराजिः ।
अन्यामृतांशुभ्रमतः प्रयातामधत्त साक्षात् परिवेषलक्ष्मीम् ॥ 4.50 ॥
वक्त्राम्बुजं वामदृशः परीता वैवाहिकी मङ्गलधूमपंक्तिः ।
बभार नीलांशुकनिर्मितस्य मुहूर्तवक्त्रावरणस्य शोभाम् ॥ 4.51 ॥
कालाञ्जनोच्छ्वासविकूणिताक्षं धर्मोदकक्लिष्टकपोलपत्रम् ।
विवर्णकर्णोत्पलमाननाब्जं बभूव धूमग्रहणान्मृगाक्ष्याः ॥ 4.52 ॥
इति क्रमेणाहितपाणिपीडस्तया सहैव श्वसुरौ कुमारः ।
ननाम तावप्यनुमोदमानावाशीर्भिरेतावनुवर्धयेताम् ॥ 4.53 ॥
अन्यांश्च सर्वानपि बन्धुवर्गान् सम्भाव्य जायासहितः कुमारः ।
निर्गत्य तस्मान्निजराजधानीप्रदक्षिणाय प्रवरो जगाम ॥ 4.54 ॥
तस्मिन् मुहूर्ते कपिलाङ्गनानां कुमारनिध्यानपरायणानाम् ।
सौधेषु सौधेषु समुद्बभूवुः शृङ्गारचेष्टा मदनोपदिष्टाः ॥ 4.55 ॥
तथा हि काचित् करपल्लवेन कल्हारमालामवलम्बमाना ।
स्वयं वरीतुं किल राजधानीसोपानमार्गं त्वरया जगाम ॥ 4.56 ॥
नेत्रस्य तद्दर्शननिश्चलस्य मा मूदिदं रोध इतीव मत्वा ।
अपास्य कालाञ्जनमायताक्षी वातायनं सत्वरमाप काचित् ॥ 4.57 ॥
विभूषणैरन्तरिते मदङ्गे नैसर्गिकीं कान्तिमसौ न पश्येत् ।
इतीव नैपथ्यमकल्पयन्ती काचित् प्रपेदे सहसा गवाक्षम् ॥ 4.58 ॥
व्याकोशमेतद् यदि कर्णपाशे निवेशयेयं सुरभि द्विरेफः ।
मां पीडयेदित्यवधीर्य मन्ये कर्णोत्पलं कापि जगाम जालम् ॥ 4.59 ॥
तदाननालोकनहर्षजातः स्तनस्य रोमोद्गम एव भुषा ।
इतीव पत्रावलिमुत्सृजन्ती वातायनाभ्यर्णमवाप काचित् ॥ 4.60 ॥
पतिव्रतायाः परदर्शनाय यात्रा न युक्तेति निरुन्धतीव ।
नितम्बबिम्बाद् रसना गलन्ती कस्याश्चिदघ्रिं कलयाञ्चकार ॥ 4.61 ॥
एकावलीं काचिदनर्पयित्वा कण्ठोकण्ठं करपङ्कजेन ।
समुद्वहन्ती त्वरमाणचेतास्तस्योपहारार्थमिव प्रतस्थे ॥ 4.62 ॥
ताभिस्तदुद्वीक्षणतत्पराभिर्निरन्तराः सौधतलप्रदेशाः ।
जगज्जिगीषोर्मकरध्वजस्य सेनानिवेशप्रतिमा बभूवुः ॥ 4.63 ॥
वीथीषु वीथीषु विलासिनीनां तस्मिन्निपेतुस्तरलाः कटाक्षाः ।
प्रासादजालान्तरिताङ्गयष्टेः प्रसूनकेतोरिव पुष्पबाणाः ॥ 4.64 ॥
तमायताक्ष्यः स्पृहणीइयमङ्गादङ्गान्तरं गन्तुमशक्नुवानैः ।
आकर्णपूरप्रसृतैरपाङ्गैरालोकयामासुरतृप्तिभाजः ॥ 4.65 ॥
तासां कुमारः शतपत्रमित्रैर्विलोचनैर्विस्मयनिर्निमेषैः ।
अङ्गेषु सर्वत्र निषिक्तबिम्बैः साक्षात् सहस्राक्ष इवाबभासे ॥ 4.66 ॥
यत्रैव यत्रैव कुमारगात्रे व्यापारितं लोचनमङ्गनाभिः ।
तत्रैव तत्रैव बभूव कान्तिनिर्यासनिःस्यूतमिवानुषक्तम् ॥ 4.67 ॥
तासां कुमाराकृतिरातुराणामस्पन्दविस्फारितलोचनानाम् ।
विनेतुकामेव मनोभवार्तिं प्रत्येकमन्तर्हृदयं विवेश ॥ 4.68 ॥
काचित् तदा कण्टकिताङ्गयष्टिस्तदाननाम्भोरुहनिर्विशेषम् ।
आजिघ्रदानन्दनिमीलिताक्षी करस्थितं विभ्रमपुण्डरीकम् ॥ 4.69 ॥
काचित् तदाकर्षणसिद्धमन्त्रं कामोपदिष्टं किल जप्तुकामा ।
करेण मन्दं भ्रमयाञ्चकार मुक्ताक्षमालामिव हारयष्टिम् ॥ 4.70 ॥
शुकावचञ्चूपुटपाटलेन नखेन काचिद् विलोलेख नव्यम् ।
पाणिस्थितं केतकगर्भपत्रमनङ्गसन्देशमिवास्य कर्तुम् ॥ 4.71 ॥
आलेख्यलीलाफलकं सतूलिमेकं दधाना करपल्लवेन ।
आत्मानमालिख्य वराय तस्मै दातुं समुद्योगवतीव तस्थौ ॥ 4.72 ॥
चेतोभुवः पुष्पशिलीमुखानां परागवर्षैः पततामजस्रम् ।
कस्याश्चिदासीत् कलुषीकृतेव दृष्टिः समुद्यद्बहुलाश्रुपूरा ॥ 4.73 ॥
उद्भिन्नरोमोद्गमलोभनीया रराज कस्याश्चन गण्डपालिः ।
धृताङ्कुरा चित्तग्रहप्रवेशे मनोभुवो मङ्गलपालिकेव ॥ 4.74 ॥
आकर्णमाकृष्टशरासनस्य कामस्य कादम्बकदम्बकानाम् ।
पक्षीनिलेनेव विधूयमाना काचिच्चकम्पे स्खलदुत्तरीया ॥ 4.75 ॥
धर्मोदबिन्दुप्रकरैरुदीर्णैः करम्बिता काचन राजते स्म ।
कोदण्डवल्लीव दृढावकृष्टा निष्ठ्यूतमुक्ताङ्कुरिता स्मरस्य ॥ 4.76 ॥
मनः प्रतोलीं विशतः प्रकीर्णैर्मनोभुवः पादपरागजालैः ।
काचिद् दृशं कर्बुरविग्रहेव विवर्णभावं प्रतिपद्यते स्म ॥ 4.77 ॥
कुमारमेनं कुलशैलधुर्यं भर्त्तारमाप्तुं परमाभिरूप्यम् ।
बिम्बाधरेयं जननान्तरेषु किं वाकरोत् पुण्यमगण्यरूपम् ॥ 4.78 ॥
सुधानिधानं तुहिनांशुबिम्बं लक्ष्मीविमानानि च पङ्कजानि ।
आतन्वता पूर्वममुष्य वक्त्रनिर्माणयोग्येव कृता विधात्रा ॥ 4.79 ॥
निर्माणकाले भुवनत्रयस्य सम्भृत्य सम्भृत्य समर्पितेन ।
सौन्दर्यसारेण सरोजजन्मा प्रायेण चक्रे युवराजमेनम् ॥ 4.80 ॥
युवानमेनं युगदीर्घबाहुं द्रष्टुं त्रिलोकस्पृहणीयशोभम् ।
अस्माकमक्ष्णामयुतं विरिञ्चिस्त्रिलोकवेदी न चकार कस्मात् ॥ 4.81 ॥
अमुष्य वक्त्रामृतभानुबिम्बसम्भूतसौन्दर्यसुधोपयोगात् ।
आपद्यते दृष्टियुगं न केषामत्रैव जन्मन्यनिमेषभावम् ॥ 4.82 ॥
इत्यादिमासां गिरमत्युदारामाकर्णयन् कर्णसुखायमानाम् ।
प्रदक्षिणीकृत्य पुरीं कुमारः प्राविक्षदन्तर्भवनं नृपस्य ॥ 4.83 ॥
प्रविश्य दूरावनतेन मूर्ध्ना बद्धप्रणामाञ्जलिकुड्मलेन ।
तया समेतः शकवंशदीपः प्रियोत्तरङ्गं पितरं ववन्दे ॥ 4.184 ॥
उत्थाप्य दूरानतमूढभार्यमुदञ्चिताभ्यां भुजपञ्जराभ्याम् ।
रोमोद्गमाध्यासितगात्रययष्टिरुर्वीपतिः सादरमालिलिङ्ग ॥ 4.185 ॥
अनन्तरं काञ्चनपात्रासंस्थैः कर्पूरदीपैः परिवारनार्यः ।
अमुष्य भद्रासनमास्थितस्य नीराजनं मङ्गलमन्वतिष्ठन् ॥ 4.183 ॥
इति विहितविवाहं विश्वविश्रान्तकीर्त्ति त्रिजगदवनदीक्षाबद्धकक्षं कुमारम् ।
नरपतिरवलोक्य प्रीयमाणः स मेने निजकुलमतितुङ्गं निहनुतारातिगर्वम् ॥ 4.187 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये चतुर्थः सर्गः ॥
पञ्चमः सर्गः
त्रयो महाप्रासादाः
ततः कुमारस्य समग्रवैभवो नराधिनाथो नवयौवनश्रियः ।
ऋतूत्सवानामुपसेवनक्षमानकारयत् त्रीनतुलान् महालयान् ॥ 5.1 ॥
स तेषु सद्मस्वधिराजनन्दनो विचित्रविन्यासविशेषशालिभिः ।
विनोद्यमानो वरवारयोषितां विलासनृत्तैर्विजहार हारिभिः ॥ 5.2 ॥
बभूव वर्षासमयो ऽथ मेदिनी कठोरधर्मज्वरशान्तिकर्मठः ।
अशेषकान्तारशिखण्डिमण्डलीविलासलास्यक्रमदेशिकेश्वरः ॥ 5.3 ॥
पयोधराः केचन काचमेचकाश्चकाशिरे चण्डसमीरणेरिताः ।
शनैः शनैरम्बरकृष्णभोगिना विमुच्यमाना इव जीर्णकञ्चुकाः ॥ 5.4 ॥
तदा समारुह्य विहारमण्डपं सहैव वध्वा सरसीरुहेक्षणः ।
प्रदर्शयन् मीनदृशः पयोधरान् प्रचक्रमे वर्णयितुं तपात्ययम् ॥ 5.5 ॥
इतः सरोजाक्षि! विलोकयाम्बुदानुदन्वदम्भोभरपश्यतोहरान् ।
वियत्तलाभोगविलासदर्पणप्रविष्टभूमण्डलबिम्बसन्निभान् ॥ 5.6 ॥
ऋतुश्रिया दीप्ततडित्प्रदीपिकासमार्जितैरञ्जनसञ्चयैरिव ।
नतभ्रु! नव्यैः शकलैः पयोमुचां नभःस्थली पात्रमियं विभाव्यते ॥ 5.7 ॥
पयोदकालेन चिरप्रवासिना समागतेनाभिनवं प्रिये! दिशाम् ।
विमुच्यमाना इव केशवेणयो विभान्ति कामं नवमेघपंक्तयः ॥ 5.8 ॥
तपात्ययाभ्यागमनेन शाम्यतो निदाघरूपस्य कृपीटजन्मनः ।
विजृम्भमाणा इव धूमवीचयो विशन्ति मेघावलयो वियत्तलम् ॥ 5.9 ॥
पुरन्दराक्रान्तिभयेन ये पुरा पयोनिधिं प्रापुरलूनपक्षकाः ।
समुत्पतन्तीव त एव भूधरास्ततः समुदद्यन्नववारिदच्छलात् ॥ 5.10 ॥
मृगाक्ष् इ! विद्युल्लतिकाकरम्बिम्बितैर्नभो ऽवकाशो जलदैर्विराजते ।
पयोनिधिर्विद्रुमवल्लिवेल्लितैर्युगक्षये कर्दमगोलकैरिव ॥ 5.11 ॥
शिखण्डिनामद्भुतताण्डवश्रियामरण्यरङ्गे मधुरप्रणादिनाम् ।
विलोक्य विद्युन्नयनेन विभ्रमान् प्रशंसतीव स्तनितेन तोयदः ॥ 5.12 ॥
कलापिनः काञ्चनकाहलोपमान् फणीन्द्रलोकान् परिगृह्य चञ्चुभिः ।
गभीरकेकामुखरीकृताम्बरा नदन्ति चक्रीकृतबर्हमण्डलाः ॥ 5.13 ॥
सुवर्णकारेण तपात्ययात्मना पयोदपालीनिकषोपलान्तरे ।
निघृष्यमाणा इव हेमराजयस्तडिल्लता भान्ति चकोरलोचने ॥ 5.14 ॥
मलीमसं केवलमङ्गमन्तरं विशुद्धमन्तःकरणं तु मामकम् ।
इति स्फुरच्चञ्चलदीधितिच्छलाद् विभिद्य तं दर्शयतीव वारिदः ॥ 5.15 ॥
समुद्रनेमीवहनस्य भारिणश्चतुर्महासागरमध्यवर्तिनः ।
कूलाद्रिकूटेषु तडिद्गणावृता विभान्ति सीता इव मेघपंक्तयः ॥ 5.16 ॥
विजित्य विश्वत्रयमद्भुतश्रिया प्रदानशौर्येण पयोमुचामुना ।
समुच्छ्रितानां तरलाक्षि! विद्युतो जयध्वजानां जनयन्ति संशयम् ॥ 5.17 ॥
सितच्छदोत्सारणवेत्रयष्टयो विलोलदृष्टे! विलसन्ति विद्युतः ।
धनाघनैः प्रोषिततर्जनक्रियाविघूर्ण्यमानाः करशाखिका इव ॥ 5.18 ॥
शतह्रदापादितचारुमौर्विकं सलीलमादाय महेन्द्रकार्मुकम् ।
पयोदकालः शबरः शरव्रजैरपुण्डरीकां विदघाति मेदिनीम् ॥ 5.19 ॥
भुजङ्गभुग्वान्तफणामणिश्रियः स्फुरन्ति भूम्ना पुरुहूतगोपकाः ।
प्रचण्डधाराहतरत्नसूदरप्रकीर्णरत्नोपलखण्डकान्तयः ॥ 5.20 ॥
शरन्निशाकाशतलोदरप्रभासहोदरे नूतनशाद्वलस्थले ।
पतन्ति वज्रायुधगोपकीटकाः समग्रन्ध्यारुणतारकोपमाः ॥ 5.21 ॥
æवियत्पृथिव्योः कियदन्तरं भवेत्æ इति प्रमातुं प्रथमेन वेधसा ।
प्रसार्यमाणा इव मानरज्जवः पतन्ति धाराः परितः पयोमुचाम् ॥ 5.22 ॥
इयं चकोराक्षि! पयोदमालिका प्रकामवाचाटबकोटमण्डली ।
उपात्तशङ्खा स्फुटमिक्षुधन्वनः प्रयाणमुद्घोषयतीव दिङ्मुखे ॥ 5.23 ॥
वकावलीविभ्रमकण्ठकम्बवो वितीर्णशक्रायुधचित्रकम्बलाः ।
नमन्ति शैलेषु नवाभ्रकुञ्जरास्तटाभिघातार्थमिवोढगर्जिताः ॥ 5.24 ॥
क्षणप्रभाचम्पकदामभूषणा दिशः सुरेन्द्रायुधचारुशेखराः ।
पयोदशृङ्गैर्नववारिगर्भितैः परस्पराभ्युक्षमिव प्रकुर्वते ॥ 5.25 ॥
विगाहमानस्य नभःस्थलीगृहं निदाधजिष्णोरृतुचक्रवर्तिनः ।
घनेन बद्धा इव तोरणस्रजः सुरेन्द्रचापाः सुतरां चकासति ॥ 5.26 ॥
प्रकम्पितायां कठकाषलीलया दिगन्तभित्तौ स्तनयित्नुदन्तिना ।
विशीर्यमाणा इव तारकागणाः पलाण्डुभासः करकाः पतन्त्यमूः ॥ 5.27 ॥
पयःप्रवाहैः सममेव वारिदः परं समादाय महापयोनिधेः ।
पुनर्विभक्ता इव मौक्तिकोत्कराः स्फुरन्ति वर्षोपलशर्कराः क्षितौ ॥ 5.28 ॥
यथा यथा वृष्टिभिरभ्रमण्डले विजृम्भते वैद्युतहव्यवाहनः ।
तथा तथा पान्थमृगीदृशां ध्रुवं विजृम्भते चेतसि मन्मथानलः ॥ 5.29 ॥
निदाघतापज्वलिता वनस्थली प्रसारयन्ति स्फुटकन्दलीकरम् ।
मयूरकेकाविरुतैर्मनोहरैः पयोदमभ्यर्थयतीव जीवनम् ॥ 5.30 ॥
विनिद्रकान्तारविनम्रवाटिकाप्रसूनकिञ्जल्कपरागवाहिनः ।
हरन्ति मन्दाः पवमानकन्दलाः शिखण्डिनां ताण्डवजं परिश्रमम् ॥ 5.31 ॥
विशङ्कटामम्बरराजवीथिकां वलाहकानामटतामितस्ततः ।
प्रतायमाना इव पादपांसवः पतन्ति मन्दं परितः पयःकणाः ॥ 5.32 ॥
विघुष्यमाणे तडिताभ्रमंडले विधाय साक्ष्ये नववैद्युतानलम् ।
ऋतुः पुरोधास्तटिनीसमुद्रयोः प्रवर्तयत्यूर्मिकरग्रहोत्सवम् ॥ 5.33 ॥
अनेन कालेन विनामृतद्रवैर्निकाममापादितसर्वसम्पदा ।
अशेषतो भूरपि सर्वथा भजेदपुत्रिणीनामधिदेवतापदम् ॥ 5.34 ॥
इति प्रशंसामुखरे सकौतुकं स्ववृत्तिमुद्दिश्य नरेन्द्रनन्दने ।
उपोढलज्जा इव दिङ्मुखान्तरे तिरोबभूवुः सकलाः पयोधराः ॥ 5.35 ॥
दिगङ्गनावर्णघृतानुलेपनं सितच्छदस्वैअविहारवीथिका ।
सरोजिनीयौवनविभ्रमोदयः समाविरासीत् समयो ऽथ शारदः ॥ 5.36 ॥
तडित्प्रियायाः सविलाससम्पदो बलाकिकायाश्च विशुद्धजन्मनः ।
वियोगदुःखादिव मौनमुद्रिताः प्रपेदिरे पाण्डरतां पयोधराः ॥ 5.37 ॥
कदर्थितात्मीयगुणप्रकाशने क्षयं प्रपन्ने सति वारिदागमे ।
प्रमोदहासा इव दिङ्मृगीदृशां समुद्बभूवुः कलहंसमण्डलाः ॥ 5.38 ॥
सितच्छदानां श्रवणार्तिकारणं निशम्य कोलाहलमुत्कचेतसाम् ।
वियोगभाजस्तरुणीजना भृशं निनिन्दुरन्तःकरणेन भार्गवम् ॥ 5.39 ॥
अनन्तरत्नाकरफेनमण्डलैरनङ्गकीर्तिस्तबकभ्रमावहैः ।
मरालवृन्दैर्वलमानपक्षकैरपूरि सर्वं हरिदन्तकन्दरम् ॥ 5.40 ॥
विकासिनां सप्तपलाशभूरुहां विजृम्भमाणाः परितो रजोभराः ।
हरिन्मुखानामधिवासचूर्णंकभ्रमं वितेनुः प्रथमानसौरभाः ॥ 5.41 ॥
प्रवर्त्यमाने प्रमदैर्मदावलैः समुल्वणे दानजलाभिवर्षणे ।
गते ऽपि वर्षासमये महापगा बभूवुरत्यन्तविवृद्धजीवनाः ॥ 5.42 ॥
कलाधिनाथः करजालमुज्ज्वलं प्रसारयामास हरित्सु निर्भरम् ।
चिरोत्सुकानां कुमुदाकरश्रियां दृढाङ्गपालीमिव कर्तुमुन्मनाः ॥ 5.43 ॥
वितायमानैः स्मितचन्द्रिकाभरैस्तरङ्गिताः क्षोमविशेषपाण्डरैः ।
विलज्जमाना द्विजराजदर्शनाद् धृतावगुण्ठा इव दिग्वधूटिकाः ॥ 5.44 ॥
पतङ्गदावानललङ्घितात्मनां तमस्तमालद्रुमषण्डसम्पदाम् ।
मरुत्प्रकीर्णा इव भस्मधूलयः शशङ्किरे शारदमेघपंक्तयः ॥ 5.45 ॥
विसृत्वरैः शारदिकैः पयोधरैर्विडम्बयामास विकीर्णमम्बरम् ।
तरङ्गभङ्गैः कलशाम्भसां निधेर्युगान्तभिन्नैर्लवणोदधेर्द्युतिम् ॥ 5.46 ॥
कृताभिषेकाः प्रथमं घनाम्बुभिघृतोत्तरीयाः शरदभ्रसञ्चयैः ।
विलिप्तगात्र्यः शशिरश्मिचन्दनैर्दिशो दधुस्तारकहारयष्टिकाम् ॥ 5.47 ॥
कृताप्लवानामचिरेण वारिदैर्दिशावधूनां रुचिराम्बरत्विषाम् ।
शरीरलग्ना इव तोयविप्रुषश्चकाशिरे सातिशयेन तारकाः ॥ 5.48 ॥
विकासिनश्चन्द्रकरोपलालनाद् विरेजिरे कैरवकोशराशयः ।
शरत्प्रसन्नेषु तडाकवारिषु प्रविष्टबिम्बा इव तारकागणाः ॥ 5.49 ॥
विकस्वरा व्यञ्जितकण्टकांकुरा विमुक्तमाध्वीकमुदश्रुबिन्दवः ।
सरोजषण्डाः शरदं समागताः विलोक्य विस्मेरमुखा इवाबभुः ॥ 5.50 ॥
विकासभाजामभितः सरोरुहां विलीयमानैर्मकन्दनिर्झरैः ।
अगाधतां प्रापुरतीव पूरिताः शरत्कृशा अप्यखिलाः सरोवराः ॥ 5.51 ॥
विपक्वपुण्ड्रेक्षुपरुमुखच्युतैर्निरन्तरा मौक्तिकसारसञ्चयैः ।
उदारकैदारककुल्यकातटाः प्रपेदिरे ताम्रनदीतटोपमाम् ॥ 5.52 ॥
विपाकभूम्नाभिविदीर्णदाडिमीफलप्रकीर्णैर्नवबीजबालकैः ।
करम्बिताः काननभूमयो बभुः पुनः समुद्यत्सुरगोपका इव ॥ 5.53 ॥
आनन्दपाकोदयशालिभिः फलैरवाङ्मुखीनाः कलमा ललक्षिरे ।
उपस्थितामात्मविनाशविक्रियां विचिन्त्य शोकावनता इवाधिकम् ॥ 5.54 ॥
विकीर्णपङ्काङ्कितशृङ्गकोटयः खुरार्धचन्द्रक्षयकूलभूमयः ।
मुहुर्नदन्तो वृषभा मदोद्धतास्तटाभिघातं सरितां वितेनिरे ॥ 5.55 ॥
अत्रान्तरे राजकुमारमेनमाहूय पृथ्वीपतिराबभाषे ।
अयं जनः पुत्र! तवास्त्रशिक्षाविलोकनं प्रत्यभिवाञ्छतीति ॥ 5.56 ॥
श्रुत्वा तु तत्सूर्यकुलावतंसः प्रत्युज्जगाद प्रथमं नृपाणाम् ।
आलोक्यतां तात! ममास्त्रशिक्षा प्राप्ते दिने सप्तमसङ्ख्ययेति ॥ 5.57 ॥
अथागते सप्तमवासरान्ते प्रजापतिर्बन्धुजनेन सार्धम् ।
तस्यास्त्रशिक्षाप्रविलोकनार्थम् अध्यास्त भद्रासनमन्तरेण ॥ 5.58 ॥
एकेन बाणासनमाततज्यम्, अन्येन हस्ताम्बुरुहेण बाणम् ।
समाददानः स पिनद्धमूर्तिरग्रे गुरोराविरभूत् कुमारः ॥ 5.59 ॥
किं पुष्पधन्वा प्रतिमब्धमूर्तिः, किं वावतीर्णो मधवान् सधन्वा! एवंविधा प्रादुरभूत् प्रजानां विकल्पना विस्मितमानसानाम् ॥ 5.60 ॥
अदृष्टपूर्वामतिलोकशिल्पाम् अत्यद्भुतामप्रतिमप्रभावः ।
बहुप्रकारां पितुरस्त्रशिक्षां सन्दर्शयामास स वीरवर्यः ॥ 5.61 ॥
दृष्ट्वास्त्रशिक्षां जगदेकबन्धोरभूतपूर्वामवनीतलेषु ।
आत्मानमाखण्डलतुल्यधामा विशामधीशो बहु मन्यते स्म ॥ 5.62 ॥
इत्थं धीरो दर्शयित्वास्त्रशिक्षां धानुष्काणामग्रगण्यस्तरस्वी ।
आगोपालं स्तूयमानापदानो लोकैरुच्चैराससादात्मगेहम् ॥ 5.63 ॥
सङ्गीतमङ्गलमहोत्सवसङ्गिनीभिः साकं वधूभिरनुरागतरङ्गिताभिः ।
क्रीडागृहेषु विहरन् क्षितिपालसूनुर्वर्षाणि कानिचिदसौ क्षपयाञ्चकार ॥ 5.64 ॥
इति बुद्धघोषविरचिते पद्यचूडामणिनाम्नि महाकाव्ये पञ्चमः सर्गः ॥
षष्ठः सर्गः
वसन्तसमयवर्णनम्
प्रादुर्बभूव समयः सुभगो वसन्तः प्रस्तावनालिकुलकोकिलकूजितानाम् ।
बाणाशयो मकरकेतनसायकानाम् मौहूर्तिको मलयमारुतनिर्गमानाम् ॥ 6.1 ॥
उच्चण्डदण्डधरकासरसौर्वभौमसन्नाहभीत इव चण्डमयूखमाली ।
सद्यो विवर्तितहयो यमदिङ्मुखान्ताद् यात्रामधत्त हिमभूधरसम्मुखीनाम् ॥ 6.2 ॥
चन्द्रोदयोज्ज्वलमुखेन झषध्वजाज्ञां व्याकुर्वता विमलसूक्ष्मतराम्बरेण ।
वन्या वसन्तसमयेन परिग्रहत्वसम्भाविता सपदि पुष्पवती बभूव ॥ 6.3 ॥
कलेन गाढतरमानपरिग्रहाणां प्राणानिलान् रसयितुं प्रमदाजनानाम् ।
उल्लासितेव रसना कुसुमद्रुमाणाम् अद्भासते स्म नवकोमलपल्लवश्रीः ॥ 6.4 ॥
उन्मोचयन् परिणतच्छदकञ्चुलीकामुद्भावयन् मुकुलजालकरोमहर्षम् ।
उल्लोलयन् भ्रमरकेशभरं लतानाम् उद्यानभूषु विजहार वसन्तकालः ॥ 6.5 ॥
आरुह्य मन्दमलयानिलमौपवाह्यमाशाजयप्रचलितस्य मनोभवस्य ।
सूनप्रसूतिरभवन्नवलाजवृष्टिः पुंस्कोकिलध्वनिरभूद् वरशङ्खघोषः ॥ 6.6 ॥
मन्दानिलेन वहता वनराजिमध्याद् उत्थापितः कुसुमकोणकरेणुरुच्चैः ।
सेनापराग इव दिग्विजयोद्यतस्य चेतोभुवः प्रसरति स्म दिगन्तरेषु ॥ 6.7 ॥
पुष्पायुधस्य नृपतेः परपुष्टवर्गः संग्रामसम्भ्रमसहान् सहकारबाणान् ।
सञ्चेतुकाम इव सञ्चितचारुपत्रान् बभ्राम विभ्रमवनेषु नवांकुरेषु ॥ 6.8 ॥
वीरेण मारसुभटेन विभिद्य बाणैर्बद्धा महाविटपिनां विटपान्तरेषु ।
व्याकीर्णकेशनिचया इव शत्रुमुण्डा व्यालोलभृङ्गनिवहाः स्तबका विरेजुः ॥ 6.9 ॥
भृङ्गाभिमुद्रितमुखा मकरन्दपूरैः पूर्णोदरा रुरुचिरे सुमनोगुलुच्छाः ।
वीरस्य मारनृपतेर्विजयाभिषेकं कालेन कर्तुमिव रत्नघटाः प्रणीताः ॥ 6.10 ॥
ओघीकृता मलयमारुतचन्दनेन पुष्फोर पूगवननूतनपुष्पपालिः ।
चेतोभवस्य नृपतेर्मधुना सलीलम् आन्दोलिता ललितचामरमालिकेव ॥ 6.11 ॥
पुंस्कोकिलाअः पुनरनङ्गजयापदानगाथासदृक्षकलपञ्चमकूजितानि ।
पेठुः प्रसन्नमधुरोज्ज्वलपेशलानि प्रत्यग्रचूतकलिकासु वनस्थलीषु ॥ 6.12 ॥
उद्वेलसम्भृतमधुव्रतदानराजिरुच्छृङ्खलो मलयमारुतगन्धहस्ती ।
मानग्रहाद्रिकटकेषु मनस्विनीनां वप्रक्रियाविहृतिमाचरति स्म मन्दम् ॥ 6.13 ॥
मन्दानिलक्षितिपमङ्गलपाठकानां माकन्दगन्धगजमण्डनडिण्डिमानाम् ।
उद्दामकामविजयोत्सवघोषणामाम् उज्जृम्भते स्म रुतमुन्मदषट्पदानाम् ॥ 6.14 ॥
आमूलचूडमभितः प्रविजृम्भमाणो बालप्रवाहनिवहो वनपादपानाम् ।
मानान्धकारहरणाय मनस्विनीनां बालातपप्रसरविभ्रममाललम्बे ॥ 6.15 ॥
निरन्तरस्मेरमणीचकानां निष्यन्दमानाभिरनोहकानाम् ।
मधूलकासारमहानदीभिर्वनं नदीमातृकतामयासीत् ॥ 6.16 ॥
तटोपकण्ठं मकरन्दसिन्धोः प्रसूनधूलीपुलिनाभिरामे ।
आबद्धचक्राः सह कामिनीभिरारेभिरे पातुमलिप्रवीराः ॥ 6.17 ॥
वीरुन्मयीं विभ्रमयन्त्रडोलामारोप्य भृङ्गीमविगीतगीताम् ।
समीरणैरात्मगरुत्समुत्थैः सानन्दमान्दोलयति स्म भृङ्गः ॥ 6.18 ॥
अशोकयष्ट्याः स्तबकोपनीतमादाय पुष्पासवमाननेन ।
सम्भोगभिन्नां तरणद्विरेफः सचाटुकं पाययति स्म कान्ताम् ॥ 6.19 ॥
अङ्गं समासाद्य लताङ्गनानां षडंघ्रिडिम्भाः स्तबकस्तनेषु ।
प्रत्यग्रपुष्पासवदुग्धपानं प्रपेदिरे विस्मृतलोलभावाः ॥ 6.20 ॥
अनेकसंग्रामविमर्दशीर्णां पुराणमौर्वीमपनीय भारः ।
कोदण्डयष्टेर्मकरन्दयष्टेरपूर्वमौर्वीकरोद् द्विरेफैः ॥ 6.21 ॥
अनन्ययोनेरपदानगाथां मधोः सकाशादिव शिक्षयन्तः ।
शाखासु शाखासु महीरुहाणां शनैः शिशिञ्जुः कलकण्ठशावाः ॥ 6.22 ॥
उत्क्षिप्तशाखाच्छलबाहुदण्डाश्चूतद्रुमाः शूर्पकशासनाज्ञाम् ।
कर्णाभिरामैः कलकण्ठनादैरुद्धोषयामासुरिवाध्वगानाम् ॥ 6.23 ॥
विनेतुकामस्य विलासिनीनां माअनद्विपेन्द्रं मकरध्वजस्य ।
हेमांकुशानामवहन्नभिख्यामग्रे नताः प्रौढपलाशकोशाः ॥ 6.24 ॥
परिभ्रमत्षट्पदकर्बुराणां पंक्तिः पलाशद्रुममञ्जरीणाम् ।
देदीप्यमानस्य शिलावलस्य दीप्तिं ययौ दर्शितधूमराशेः ॥ 6.25 ॥
आमोदलुब्धैरलिनां कदम्बराकृष्यमानः सुमनोगुलुच्छः ।
ग्रासीकृतो राहुमुखेन राकाकलानिधेर्बिम्ब इवाबभासे ॥ 6.26 ॥
तटीपटीरद्रुमसङ्गभाजां सरीसृपाणामिव साहचर्यात् ।
वियोगिनश्चन्दनशैलजन्मा विमूर्च्छयामास मुहुः समीरः ॥ 6.27 ॥
मधुशीकरदुर्दिनान्धकारे वनलक्ष्मीरतिदूतिकोपितानाम् ।
भ्रमरीमभिसत्वरीं प्रमत्तः सचमत्कारमरीरमद् द्विरेफः ॥ 6.28 ॥
वकुलद्रुमवाटिका वरस्त्रीमुखगण्डूषमधुद्रवाभिषेकम् ।
अनुभूय नवांकुरापदेशादवहन्नञ्चितरोमहर्षशोभाम् ॥ 6.29 ॥
सहकारवनीषु सञ्चरन्त्या मधुलक्ष्म्या इव नूपुरप्रणादाः ।
कलकण्ठभुवः कलप्रलापाः श्रवसः पारणमादधुर्जनानाम् ॥ 6.30 ॥
अङ्गनावदनपद्मपूरणीमादरेण परिपीय वारुणीम् ।
उद्ववाम पुनरेव केसरः स्यन्दमानमकरन्दकैतवात् ॥ 6.31 ॥
परिमललहरीषु पादपानां भरितसमस्तदिगन्तरापगासु ।
जलविहरणमाचचार दिर्घं मलयमहीधरमन्दगन्धवाहः ॥ 6.32 ॥
मनोभवो मण्डलितास्त्रमौर्विकागभीरविष्फारविराविताम्बरम् ।
अशेषसांसारिकशेमुषीमुषो ववर्ष चूतांकुरशातसायकान् ॥ 6.33 ॥
इति प्रवृत्ते मधुमासवैभवे विधातुमुद्यानविहारमुत्सुकः ।
रथं समारुह्य नरेन्द्रनन्दनः सहावरोधेन विनिर्जगाम सः ॥ 6.34 ॥
ततः कुमारस्य पुरन्दरश्रियः प्रबोधकालो ऽयमिति प्रबोधितुम् ।
क्रमेण वृद्धातुरलुप्तजीवितान् प्रदर्शयामासुरमुष्य देवताः ॥ 6.35 ॥
क्रमेण पश्यन् पुरतः स्थितानमून् नितान्तमुद्विग्नमनाः नृपात्मजः ।
किमेतदित्याअहितविभ्रमः स्वयं पुरोगतान् पर्यनुयुंक्त सारथीन् ॥ 6.36 ॥
सविस्तरं ते ऽपि सुरैरधिष्ठिता नरेन्द्रपुत्रस्य विरक्तिकारणम् ।
क्रमेण तेषामतिमात्रदुःसहं जराविकारादिकमाचचक्षिरे ॥ 6.37 ॥
निशम्य तेषां वचनं नृपात्मजो निकामनिर्वेदविभाविताशयः ।
नियन्त्रितोद्यानविहारकौतुको निवर्तयाश्वानिति सूतमब्रवीत् ॥ 6.38 ॥
अनन्तरं तस्य पुरः सुराधिपैरदर्शि शान्तानुशयस्तपोधनः ।
विवृद्धकारुण्यसमुद्रवीचिकाविटङ्कविश्रान्तविशाललोचनः ॥ 6.39 ॥
प्रतप्तचामीकरगौरविग्रहः प्रवालभङ्गारुणचारुचीवरः ।
प्रसन्नपूर्णेन्दुनिभाननद्युतिः प्रभूतमैत्रीपरिवाहिताशयः ॥ 6.40 ॥
तमेनमालोक्य च शाक्यनन्दनस्तपस्विनामग्रसरं सविस्मयः ।
क एष का वास्य चरित्रचातुरीत्यपृच्छदभ्याशजुषः स्वसारथोन् ॥ 6.41 ॥
अयं महाभाग! विशुद्धमानसः पवित्रशीलः परमार्थदेशिकः ।
मूल पाठ: Siddhārthacaritrakāvya · Edition: unknown source · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0