भाषा

ENहिગુ
ग्रंथ पाठ

शुक्रनीतिः · अध्याय p1

p1.91

शुक्रनीतिः
प्रथम अध्याय
प्रणम्य जगदाधारं सर्गस्थित्यन्तकारणम् । सम्पूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥
पूर्वदेवैर्यथान्यायं नीतिसारमुवाच तान् । शतलक्षश्लोकमितं नीतिशास्त्रमथोक्तवान् ॥
स्वयम्भूर्भगवाँल्लोकहितार्थं सङ्ग्रहेण वै । तत्सारं तु वसिष्ठाद्यैरस्माभिर्वृद्धिहेतवे ॥
अल्पायुर्भूभृदाद्यर्थं सङ्क्षिप्तं तर्कविस्तृतम् । क्रियैकदेशबोधीनि शास्त्राण्यन्यानि सन्ति हि ॥
सर्वोपजीवकं लोकस्थितिकृन्नीतिशास्त्रकम् । धर्मार्थकाममूलं हि स्मृतं मोक्षप्रदं यतः ॥
अतः सदा नीतिशास्त्रमभ्यसेद्यत्नतो नृपः । यद्विज्ञानान्नृपाद्याश्च शत्रुजिल्लोकरञ्जकाः ॥
सुनीतिकुशला नित्यं प्रभवन्ति च भूमिपाः । शब्दार्थानां न किं ज्ञानं विना व्याकरणाद्भवेत् ॥
प्राकृतानां पदार्थानां न्यायतर्कैर्विना न किम् । विधिक्रियाव्यवस्थानां न किं मीमांसया विना ॥
देहादीनां नश्वरत्वं वेदान्तैर्न विना हि किम् । स्वस्याभिमतबोधीनि शास्त्राण्येतानि सन्ति हि ॥
तत्तन्मतानुगैः सर्वैर्विधृतानि जनैः सदा । बुद्धिकौशलमेतद्धि तैः किं स्याद् व्यवहारिणाम् ॥
सर्वलोकव्यवहारस्थितिर्नीत्या विना नहि । यथाऽशनैर्विना देहस्थितिर्न स्याद्धि देहिनाम् ॥
सर्वाभीष्टकरं नीतिशास्त्रं स्यात्सर्वसम्मतम् । अत्यावश्यं नृपस्यापि स सर्वेषां प्रभुर्यतः ॥
शत्रवो नीतिहीनानां यथाऽपथ्याशिनां गदाः । सद्यः केचिच्च कालेन भवन्ति न भवन्ति च ॥
नृपस्य परमो धर्मः प्रजानां परिपालनम् । दुष्टनिग्रहणं नित्यं न नीत्याऽतो विना ह्युभे ॥
अनीतिरेव सच्छिद्रं राज्ञो नित्यं भयावहम् । शत्रुसंवर्धनं प्रोक्तं बलह्रासकरं महत् ॥
नीतिं त्यक्त्वा वर्त्तते यः स्वतन्त्रः स हि दुःखभाक् । स्वतन्त्रप्रभुसेवा तु ह्यसिधारावलेहनम् ॥
स्वाराध्यो नीतिमान् राजा दुराराध्यस्त्वनीतिमान् । यत्र नीतिबले चोभे तत्र श्रीस्सर्वतोमुखी ॥
अप्रेरितहितकरं सर्वराष्ट्रं भवेद्यथा । तथा नीतिस्तु सन्धार्या नृपेणात्महिताय वै ॥
भिन्नं राष्ट्रं बलं भिन्नं भिन्नोऽमात्यादिको गणः । अकौशल्यं नृपस्यैतदनीतेर्यस्य सर्वदा ॥
तपसा तेज आदत्ते शास्ता पाता च रञ्जकः । नृपः स्वप्राक्तनाद्धत्ते तपसा च महीमिमाम् ॥
वृष्टिशीतोष्णनक्षत्रगतिरूपस्वभावतः । इष्टानिष्टाधिकं न्यूनाचारैः कालस्तु भिद्यते ॥
आचारप्रेरको राजा ह्येतत्कालस्य कारणम् । यदि कालः प्रमाणं हि कस्माद्धर्मोऽस्ति कर्तृषु ॥
राजदण्डभयाल्लोकः स्वस्वधर्मपरो भवेत् । यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ॥
विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः । तपः स्वधर्मरूपं यद्वर्धितं येन वै सदा ॥
देवास्तु किङ्करास्तस्य किं पुनर्मनुजा भुवि । सुदण्डैर्धर्मनिरताः प्रजाः कुर्यान्महाभयैः ॥
नृपः स्वधर्मनिरतो भूत्वा तेजःक्षयोऽन्यथा । अभिषिक्तोऽनभिषिक्तो नृपत्वं तु यदानुयात् ॥
बुद्धया बलेन शौर्येण ततो नीत्याऽनुपालयन् । प्रजाः सर्वाः प्रतिदिनमच्छिद्रे दण्डधृक् सदा ॥
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते । तिर्यञ्चोऽपि वशं याति शौर्यनीतिबलैर्धनैः ॥
सात्त्विकं राजसं चैव तामसं त्रिविधं तपः । यादृक् तपति योऽत्यर्थं तादृग् भवति वै नृपः ॥
यो हि स्वधर्मनिरतः प्रजानां परिपालकः । यष्टा च सर्वयज्ञानां नेता शत्रुगणस्य च ॥
दानशौण्डः क्षमी शूरो निःस्पृहो विषयेष्वपि । विरक्तः सात्त्विकः स हि नृपोऽन्ते मोक्षमन्वियात् ॥
विपरीतस्तामसः स्यात् सोऽन्ते नरकभाजनः । निर्घृणश्च मदोन्मत्तो हिंसकः सत्यवर्जितः ॥
राजसो दाम्भिको लोभी विषयी वञ्चकश्शठः । मनसाऽन्यश्च वचसा कर्मणा कलहप्रियः ॥
नीचप्रियः स्वतन्त्रश्च नीतिहीनश्छलान्तरः । स तिर्यक्त्वं स्थावरत्वं भविताऽन्ते नृपाधमः ॥
देवांशान् सात्त्विको भुङ्क्ते राक्षसांशांस्तु तामसः । राजसो मानवांशांस्तु सत्त्वे धार्य्यं मनस्ततः ॥
सत्त्वस्य तमसः साम्यान्मानुषं जन्म जायते । यद्यदाश्रयते मर्त्त्यस्तत्तुल्यो दिष्टतो भवेत् ॥
कर्मैव कारणञ्चात्र सुगति दुर्गतिं प्रति । कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ? ॥
न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य एव न । न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥
ब्रह्मणस्तु समुत्पन्नाः सर्वे ते किं नु ब्राह्मणाः ? । न वर्णतो न जनकाद् ब्राह्मतेजः प्रपद्यते ॥
ज्ञानकर्मोपासनाभिर्देवताराधने रतः । शान्तो दान्तो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥
लोकसंरक्षणे दक्षः शूरो दान्तः पराक्रमी । दुष्टनिग्रहशीलो यः स वै क्षत्रिय उच्यते ॥
क्रयविक्रयकुशला ये नित्यञ्च पण्यजीविनः । पशुरक्षाः कृषिकरास्ते वैश्याः कीर्तिता भुवि ॥
द्विजसेवार्चनरताः शूराः शान्ता जितेन्द्रियाः । सीरकाष्ठतृणवहास्ते नीचाः शूद्रसंज्ञकाः ॥
त्यक्तस्वधर्माचरणा निर्घृणाः परपीडकाः । चण्डाश्च हिंसका नित्यं म्लेच्छास्ते ह्यविवेकिनः ॥
प्राक्कर्मफलभोगार्हा बुद्धिः सञ्जायते नृणाम् । पापकर्मणि पुण्ये वा कर्तुं शक्तो न चान्यथा ॥
बुद्धिरुत्पद्यते तादृक् यादृक् कर्मफलोदयः । सहायास्तादृशा एव यादृशी भवितव्यता ॥
प्राक्कर्मवशतः सर्वं भवत्येवेति निश्चितम् । तदोपदेशा व्यर्थाः स्युः कार्य्याकार्य्यप्रबोधकाः ॥
धीमन्तो वन्द्यचरिता मन्यन्ते पौरुषं महत् । अशक्ताः पौरुषं कर्त्तुं क्लीबा दैवमुपासते ॥
दैवे पुरुषकारे च खलु सर्वं प्रतिष्ठितम् । पूर्वजन्मकृतं कर्मेहार्जितं तद् द्विधाकृतम् ॥
बलवान् प्रतिकारी स्याद् दुर्बलस्य सदैव हि। स बलाबलयोर्ज्ञानफलप्राप्त्यान्यथा न हि ॥
फलोपलब्धिः प्रत्यक्षहेतुना नैव दृश्यते । प्राक्कर्महैतुकी सा तु नान्यथैवेति निश्चयः ॥
यज्जायतेऽल्पक्रियया नृणां वापि महत् फलम् । तदपि प्राक्तनादेव केचित् प्रागिहकर्मजम् ॥
वदन्तीहैव क्रियया जायते पौरुषं नृणाम् । सस्नेहवर्त्तिदीपस्य रक्षा वातात् प्रयत्नतः ॥
अवश्यम्भाविभावानां प्रतीकारो न चेद् यदि । दुष्टानां क्षपणं श्रेयो यावद् बुद्धिबलोदयम् ॥
प्रतिकूलानुकूलाभ्यां फलाभ्याञ्च नृपोऽप्यतः । ईषन्मध्याधिकाभ्याञ्च त्रिधा दैवं विचिन्तयेत् ॥
रावणस्य च भीष्मादेर्वनभङ्गे च गोग्रहे । प्रातिकूल्यन्तु विज्ञातमेकस्माद् वानरान्नरात् ॥
कालानुकूल्यं विस्पष्टं राघवस्यार्जुनस्य च । अनुकूले यदा दैवे क्रियाल्पा सुफला भवेत् ॥
महती स‌त्क्रियानिष्टफला स्यात् प्रतिकूलके । बलिर्दानेन सम्बद्धो हरिश्चन्द्रस्तथैव च ॥
भवतीष्टं स‌त्क्रिययानिष्टं तद्विपरीतया । शास्त्रतः सदसज्ज्ञात्वा त्यक्त्वाऽसत्सत् समाचरेत् ॥
कालस्य कारणं राजा सदसत्कर्मणस्त्वतः । सुकार्य्योद्यतदण्डाभ्यां स्वधर्मे स्थापयेत् प्रजाः ॥
स्वाम्यमात्यसुहत्कोशराष्ट्रदुर्गबलानि च । सप्ताङ्गमुच्यते राज्यं तत्र मूर्द्धा नृपः स्मृतः ॥
दृगमात्यः सुहच्छ्रोत्रं मुखं कोशो बलं मनः । हस्तौ पादौ दुर्गराष्ट्रौ राज्याङ्गानि स्मृतानि हि ॥
अङ्गानां क्रमशो वक्ष्ये गुणान् भूतिप्रदान् सदा । यैर्गुणैस्तु सुसंयुक्ता वृद्धिमन्तो भवन्ति हि ॥
राजास्य जगतो हेतुर्वृद्धयै वृद्धाभिसम्मतः । नयनानन्दजनकः शशाङ्क इव तोयधेः ॥
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥
न तिष्ठन्ति स्वस्वधर्मे विना पालेन वै प्रजाः । प्रजया तु विना स्वामी पृथिव्यां नैव शोभते ॥
न्यायप्रवृत्तो नृपतिरात्मानमथ च प्रजाः । त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥
धर्मं द्वैतवने राजा विधाय बुभुजे दिवम् । अधर्माश्चैव नहुषः प्रतिपेदे रसातलम् ॥

वेणो नष्टस्त्वधर्मेण पृथुर्वृद्धस्तु धर्मतः । तस्माद्धर्मं पुरस्कृत्य यतेतार्थाय पार्थिवः ॥
यो हि धर्मपरो राजा देवांशोऽन्यश्च रक्षसाम् । अंशभूतो धर्मलोपी प्रजापीडाकरो भवेत् ॥
अराजके हि सर्वस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चापि मात्रा निर्हत्य शाश्वतीः ॥
जङ्गमस्थावराणाञ्च हीशः स्वतपसा भवेत् । भागभाग्रक्षणे दक्षो यथेन्द्रो नृपतिस्तथा ॥
वायुर्गन्धस्य सदसत्कर्मणः प्रेरको नृपः । धर्मप्रवर्तकोऽधर्मनाशकस्तमसो रविः ॥
दुष्कर्मदण्डको राजा यमः स्याद् दण्डकृद् यमः । अग्निः शुचिस्तथा राजा रक्षार्थं सर्वभागभुक् ॥
पुष्यत्यपां रसैः सर्वं वरुणः स्वधनैर्नृपः । करैश्चन्द्रो ह्लादयति राजा स्वगुणकर्मभिः ॥
कोशानां रक्षणे दक्षः स्यान्निधीनां धनाधिपः । चन्द्रो यथा विना सर्वैरंशैर्नो भाति भूपतिः ॥
पिता माता गुरुर्भ्राता बन्धुर्वैश्रवणो यमः । नित्यं सप्तगुणैरेषां युक्तो राजा न चान्यथा ॥
गुणसाधनसन्दक्षः स्वप्रजायाः पिता यथा । क्षमयित्र्यपराधानां माता पुष्टिविधायिनी ॥
हितोपदेष्टा शिष्यस्य सुविद्याध्यापको गुरुः । स्वभागोद्धारकृद् भ्राता यथाशास्त्रं पितुर्धनात् ॥
आत्मस्त्रीधनुगुह्यानां गोप्ता बन्धुस्तु मित्रवत् । धनदस्तु कुबेरः स्याद् यमः स्याच्च सुदण्डकृत् ॥
प्रवृद्धिमति सुराज्ञि निवसन्ति गुणा अमी । एते सप्त गुणा राज्ञा न हातव्याः कदाचन ॥
क्षमते योऽपराधं सः शक्तः सुदमने क्षमी । क्षमया तु विना भूपो न भात्यखिलसद्‌गुणैः ॥
स्वान् दुर्गुणान् परित्यज्य ह्यतिवादांस्तितिक्षते । दानैर्मानैश्च सत्कारैः स्वप्रजारञ्जकः सदा ॥
दान्तः शूरश्च शस्त्रास्त्रकुशलोऽरिनिषूदनः । अस्वतन्त्रश्च मेधावी ज्ञानविज्ञानसंयुतः ॥
नीचहीनो दीर्घदर्शी वृद्धसेवी सुनीतियुक् । गुणिजुष्टस्तु यो राजा स ज्ञेयो देवतांशकः ॥
विपरीतस्तु रक्षोंऽशः स वै नरकभाजनः । नृपांशसदृशो नित्यं तत्सहायगणः किल ॥
तत्कृतं मन्यते राजा सन्तुष्यति च मोदते । तेषामाचरणैर्नित्यं नान्यथा नियतेर्बलात् ॥
अवश्यमेव भोक्तव्यं कृतकर्मफलं नरैः । प्रतिकारैर्विना नैव प्रतिकारे कृते सति ॥
तथा भोगाय भवति चिकित्सितगदी यथा । उपदिष्टेऽनिष्टहेतौ तत् तत् कर्तुं यतेत कः ॥
रज्यते सत्फले स्वान्तं दुष्फले न हि कस्यचित्। सदसद्बोधकान्येव दृष्ट्‌वा शास्त्राणि चाचरेत्

p1.92

नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात् । विनयस्येन्द्रियजयस्तद्युक्तः शास्त्रमृच्छति

p1.93

आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजाम्

p1.94

परोपदेशकुशलः केवलो न भवेन्नृपः । प्रजाधिकारहीनः स्यात् सगुणोऽपि नृपः क्वचित्

p1.95

न तु नृपविहीनाः स्युर्दुर्गुणा ह्यपितु प्रजाः । यथा न विधवेन्द्राणी सर्वदा तु तथा प्रजाः

p1.96

भ्रष्टश्रीः स्वामिता राज्ञो यस्य दान्ता न मन्त्रिणः । तथाऽविनीता दायादा दुष्टाः पुत्रादयोऽपि च

p1.97

सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते

p1.98

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम् । ज्ञानाङ्‌कुशेन कुर्वीत वशमिन्द्रियदन्तिनम्

p1.99

विषयामिषलोभेन मनः प्रेरयतीन्द्रियम् । तन्निरुध्यात् प्रयत्नेन जिते तस्मिन् जितेन्द्रियः

p1.100

एकस्यैव हि योऽशक्तो मनसः सन्निवर्हणे । महीं सागरपर्य्यन्तां स कथं ह्यवजेष्यति ?

p1.101

क्रियावसानविरसैर्विषयैरपहारिभिः । गच्छत्याक्षिप्तहृदयः करीव नृपतिर्ब्रहम्

p1.102

शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः । एकैकस्त्वलमेतेषां विनाशप्रतिपत्तये

p1.103

शुचिर्दर्भाङ्कुराहारो विदूरभ्रमणे क्षमः । लुब्धकोद्‌गीतमोहेन मृगो मृगयते वधम्

p1.104

गिरीन्द्रशिखराकारो लीलयोन्मूलितद्रुमः । करिणीस्पर्शसम्मोहाद् बन्धनं याति वारणः

p1.105

स्निग्धदीपशिखालोकविलोलितविलोचनः । मृत्युमृच्छति सम्मोहात् पतङ्गः सहसा पतन्

p1.106

अगाधसलिले मग्नो दूरेऽपि दासतो वसन् । मीनस्तु सामिषं लोहमास्वादयति मृत्यवे

p1.107

उत्कर्तितुं समर्थोऽपि गन्तुं चैव सपक्षकः । द्विरेफो गन्धलोभेन कमले याति बन्धनम्

p1.108

एकैकशो विनिघ्नन्ति विषया विषसन्निभाः । किं पुनः पञ्च मिलिताः न कथं नाशयन्ति हि

p1.109

द्यूतं स्त्री मद्यमेवैतत् त्रितयं बह्वनर्थकृत् । अयुक्तं युक्तियुक्तं हि धनपुत्रमतिप्रदम्

p1.110

धर्मपुत्रनलाद्यास्तु सुद्यूतेन विनाशिताः । सकापट्यं धनायालं द्यूतं भवति तद्विदाम्

p1.111

स्त्रीणां नामापि संह्लादि विकरोत्येव मानसम् । किं पुनर्दर्शनं तासां विलासोल्लासितध्रुवाम्

p1.112

रहःप्रचारकुशला मृदुगद्गदभाषिणी । कं न नारी वशीकुर्य्यान्नरं रक्तान्तलोचना ?

p1.113

मुनेरपि मनोऽवश्यं सरागं कुरुतेऽङ्गना । जितेन्द्रियस्य का वार्त्ता किं पुनश्चाजितात्मनाम्

p1.114

व्यायच्छन्तश्च बहवः स्त्रीषु नाशं गता अमी। इन्द्रदण्डकनहुषरावणाद्याः सदा ह्यतः

p1.115

अतत्परनरस्यैव स्त्री सुखाय भवेत् सदा । साहायिनी गृहकृत्ये तां विनान्या न विद्यते

p1.116

अतिमद्यं हि पिबतो बुद्धिलोपो भवेत् किल । प्रतिभां बुद्धिवैशद्यं धैर्य्य चित्तविनिश्चयम्

p1.117

तनोति मात्रया पीतं मद्यमन्यद् विनाशकृत् । कामक्रोधौ मद्यतमौ नियोक्तव्यौ यथोचितम्

p1.118

कामः प्रजापालने च क्रोधः शत्रुनिवर्हणे । सेनासन्धारणे लोभो योज्यो राज्ञा जयार्थिना

p1.119

परस्त्रीसङ्गमे कामो लोभो नान्यधनेषु च। स्वप्रजादण्डने क्रोधो नैव धार्य्यो नृपैः कदा

p1.120

किमुच्यते कुटुम्बीति परस्त्रीसङ्गमान्नरः । स्वप्रजादण्डनाच्छूरो धनिकोऽन्यधनैश्च किम्

p1.121

अरक्षितारं नृपतिं ब्राह्मणं चातपस्विनम् । धनिकं चाप्रदातारं देवा घ्नन्ति त्यजन्त्यथः

p1.122

स्वामित्वं चैव दातृत्वं धनिकत्वं तपः फलम् । एनसः फलमर्थित्वं दास्यत्वं च दरिद्रता

p1.123

दृष्ट्वा शास्त्राण्यतश्चित्तं सन्नियम्य यथोचितम्। कुर्य्यात् नृपः स्ववृत्तं तु परत्रेह सुखाय च

p1.124

दुष्टनिग्रहणं दानं प्रजायाः परिपालनम् । यजनं राजसूयादेः कोशानां न्यायतोऽर्जनम्

p1.125

करदीकरणं राज्ञां रिपूणां परिमर्दनम् । भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा

p1.126

न वर्द्धितं बलं यैस्तु न भूपाः करदीकृताः । न प्रजाः पालिताः सम्यक् ते वै षण्डतिला नृपाः

p1.127

प्रजा सूद्विजते यस्माद् यत्कर्म परिनिन्दति । त्यज्यते धनिकैर्यस्तु गुणिभिस्तु नृपाधमः

p1.128

नटगायकगणिकामल्लषण्ढाल्पजातिषु । योऽतिसक्तो नृपो निन्द्यः स हि शत्रुमुखे स्थितः

p1.129

बुद्धिमन्तं सदा द्वेष्टि मोदते वञ्चकैः सह । स्वं दुर्गुणं नैव वेत्ति स्वात्मनाशाय स नृपः

p1.130

नापराधं हि क्षमते प्रदण्डो धनहारकः । स्वदुर्गुणश्रवणतो लोकानां परिपीडकः

p1.131

नृपो यदा तदा लोकः क्षुभ्यते भिद्यते यतः । गूढचारैः श्रावयित्वा स्ववृत्तं दूषयन्ति के

p1.132

भूषयन्ति च कैर्भावैरमात्याद्याश्च तद्विदः । मयि कीदृक् च सम्प्रीतिः केषामप्रीतिरेव वा

p1.133

ममागुणैर्गुणैर्वापि गूढं संश्रुत्य चाखिलम् । चारैः स्वदुर्गुणं ज्ञात्वा लोकतः सर्वदा नृपः

p1.134

सुकीर्त्यै सन्त्यजेन्नित्यं नावमन्येत वै प्रजाः । लोको निन्दन्ति राजंस्त्वां चारैः संश्रावितो यदि

p1.135

कोपं करोति दौरात्म्यादात्मदुर्गुणलोपकः । सीता साध्व्यपि रामेण त्यक्ता लोकापवादतः

p1.136

शक्तेनापि हि न धृतो दण्डोऽल्पो रजके क्वचित् । ज्ञानविज्ञानसम्पन्नः राजादत्ताभयोऽपि च

p1.137

समक्षं वक्ति न भयाद्राज्ञो गुर्वपि दूषणम् । स्तुतिप्रिया हि वै देवा विष्णुमुख्या इति श्रुतिः

p1.138

किं पुनर्मनुजा ? नित्यं निन्दाजः क्रोध इत्यतः । राजा सुभागदण्डी स्यात् सुक्षमी रञ्जकः सदा

p1.139

यौवनं जीवितं चित्तं छाया लक्ष्मीश्च स्वामिता । चञ्चलानि षडेतानि ज्ञात्वा धर्मरतो भवेत्

p1.140

अदानेनापमानेन छलाच्च कटुवाक्यतः । राज्ञः प्रबलदण्डेन नृपं मुञ्चति वै प्रजा

p1.141

विपरीतगुणैरेभिः सान्वयारज्यते प्रजा । एकस्तनोति दुष्कीर्त्तिं दुर्गुणः सङ्घशो नु किम्

p1.142

मृगयाक्षास्तथा पानं गर्हितानि महीभुजाम् । दृष्टास्तेभ्यस्तु विपदो पाण्डुनैषधवृष्णिषु

p1.143

कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनमस्मिस्त्यक्ते सुखी नृपः

p1.144

दण्डको नृपतिः कामात् क्रोधाच्च जनमेजयः । लोभादैलस्तु राजर्षिर्मोहाद् वातापिरासुरः

p1.145

पौलस्त्यो राक्षसो मानान्मदाद् दम्भोद्भवो नृपः । प्रयाता निधनं ह्येते शत्रुषड्‌वर्गमाश्रिताः

p1.146

शत्रुषड्वर्गमुत्सृज्य जामदग्न्यः प्रतापवान् । अम्बरीषो महाभागो बुभुजाते चिरं महीम्

p1.147

वर्द्धयन्निह धर्मार्थों सेवितौ सद्भिरादरात् । निगृहीतेन्द्रियग्रामः कुर्वीत गुरुसेवनम्

p1.148

शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धये। विद्याविनीतो नृपतिः सतां भवति सम्पतः

p1.149

प्रेर्य्यमाणोऽप्यसद्वृत्तैर्नाकार्य्येषु प्रवर्त्तते । श्रुत्या स्मृत्या लोकतश्च मनसा साधुनिश्चितम्

p1.150

यत् कर्म धर्मसंज्ञं तद् व्यवस्यति च पण्डितः । आददानप्रतिदानकलासम्यक् महीपतिः

p1.151

जितेन्द्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः । भवन्त्युच्चलिता लक्ष्म्यः कीर्त्तयश्च नभस्पृशः

p1.152

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती । विद्याश्वतस्त्र एवैता अभ्यसेद् नृपतिः सदा

p1.153

आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितम् । त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः

p1.154

अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ। वर्णाः सर्वाश्रमाश्चैव विद्यास्वासु प्रतिष्ठिताः

p1.155

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रपुराणानि त्रयीदं सर्वमुच्यते

p1.156

कुसीदकृषिवाणिज्यं गोरक्षावार्त्तयोच्यते । सम्पन्नो वार्त्तया साधुर्न वृत्तेर्भयमृच्छति

p1.157

दमो दण्ड इति ख्यातस्तस्माद्दण्डो महीपतिः । तस्य नीतिर्दण्डनीतिर्नयनान्नीतिरुच्यते

p1.158

आन्वीक्षिक्यात्मविज्ञानाद्धर्षशोकौ व्युदस्यति । उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि

p1.159

आनृशंस्यं परो धर्मः सर्वप्राणभृतां यतः । तस्माद्राजानृशंस्येन पालयेत् कृपणं जनम्

p1.160

न हि स्वसुखमन्विच्छन् पीडयेत् कृपणं जनम्। कृपणः पीड्यमानः स्वमृत्युना हन्ति पार्थिवम्

p1.161

सुजनैः सङ्गतं कुर्य्याद्धर्माय च सुखाय च। सेव्यमानस्तु सुजनैर्महानतिविराजते

p1.162

हिमांशुमाली च यथा नवोत्फुल्लोत्पलं सरः । आनन्दयति चेतांसि तथा सुजनचेष्टितम्

p1.163

ग्रीष्मसूय्र्यांशुसन्तप्तमुद्वेजनमनाश्रयम् । मरुस्थलमिवोदग्रं त्यजेद् दुर्जनसङ्गतम्

p1.164

निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः 1 वरमाशीविषैः सङ्गं कुर्य्यान्न त्वेव दुर्जनैः

p1.165

क्रियतेऽभ्यर्हणीयाय सुजनाय यथाञ्जलिः । ततः साधुतरः कार्यो दुर्जनाय हितार्थिना

p1.166

नित्यं मनोऽपहारिण्या वाचा प्रह्लादयेज्जगत् । उद्वेजयति भूतानि क्रूरवाग्धनदोऽपि सन्

p1.167

हृदि विद्ध इवात्यर्थं यया सन्तप्यते जनः । पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत्

p1.168

प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु वा। शिखीव केकां मधुरां वाचं बूते जनप्रियः ।

p1.169

मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः। हरन्ति न तथा वाचो यथा वाचो विपश्चिताम्

p1.170

ये प्रियाणि प्रभाषन्ते प्रियमिच्छन्ति सत्कृतम् । श्रीमन्तो वन्द्यचरिता देवास्ते नरविग्रहाः

p1.171

न हीदृशं संवननं त्रिषु लोकेषु विद्यते । दया मैत्री च भूतेषु दानञ्च मधुरा च वाक्

p1.172

श्रुतिरास्तिक्यपूतात्मा पूजयेद् देवतां सदा। देवतावद् गुरुजनानात्मवच्च सुहृज्जनान्

p1.173

प्रणिपातेन हि गुरून् सतोऽनूचानवेष्टिताः । कुर्वीताभिमुखान् देवान् भूत्यै सुकृतकर्मणा

p1.174

सद्भावेन हरेन्मित्रं सद्भावेन च बान्धवान् । स्त्रीभृत्यौ प्रेममानाभ्यां दाक्षिण्येनेतरं जनम्

p1.175

बलवान् बुद्धिमान् शूरो यो हि युक्तपराक्रमी । वित्तपूर्णां महीं भुङ्क्ते स भूपो भूपतिर्भवेत्

p1.176

पराक्रमो बलं बुद्धि शौर्य्यमेते वरा गुणाः। एभिर्हींनोऽन्यगुणयुग् महीभुक् सधनोऽपि च

p1.178

महीं स्वल्पां नैव भुङ्क्ते द्राक् च राज्याद् विनश्यति । महाघनाच्च नृपतेर्विभात्यल्पोऽपि पार्थिवः ॥
अव्याहताज्ञस्तेजस्वी एभिरेव गुणैर्भवेत् । राज्ञः साधारणास्त्वन्ये न शक्ता भूप्रसाधने

p1.179

खनिः सर्वधनस्येयं देवदैत्यविमर्दिनी । भूम्यर्थे भूमिपतयः स्वात्मानं नाशयन्त्यपि

p1.180

उपभोगाय च धनं जीवितं येन रक्षितम् । न रक्षिता तु भूर्येन किं तस्य धनजीवितैः

p1.181

न यथेष्टव्ययायालं सञ्चितं तु धनं भवेत् । सदागमाद् विना कस्य कुवेरस्यापि नाञ्जसा

p1.182

पूज्यस्त्वेभिर्गुणैर्भूपो न भूपः कुलसम्भवः । न कुले पूज्यते यादृम् बलशौर्य्यपराक्रमैः

p1.183

लक्षकर्षमितो भागो राजतो यस्य जायते। वत्सरे वत्सरे नित्यं प्रजानान्त्वविपीडनैः

p1.184

सामन्तः स नृपः प्रोक्तो यावल्लक्षत्रयावधि । तदूर्ध्वं दशलक्षान्तो नृपो माण्डलिकः स्मृतः

p1.185

तदूर्ध्वन्तु भवेद्राजा यावद् विंशतिलक्षकः । पञ्चाशल्लक्षपर्य्यन्तो महाराजः प्रकीर्त्तितः

p1.186

ततस्तु कोटिपर्य्यन्तः स्वराट् सम्म्राट् ततः परम् । दशकोटिमितो यावत् विराट् तु तदनन्तरम्

p1.187

पञ्चाशत्कोटिपर्य्यन्तः सार्वभौमस्ततः परम् । सप्तद्वीपा च पृथिवी यस्य वश्या भवेत् सदा

p1.188

स्वभागभृत्या दास्यत्वे प्रजानाञ्च नृपः कृतः । ब्रह्मणा स्वामिरूपस्तु पालनार्थं हि सर्वदा

p1.189

सामन्तादिसमा ये तु भृत्या अधिकृता भुवि। ते तु सामन्तसंज्ञाः स्यू राजभागहराः क्रमात्

p1.190

सामन्तादिपदभ्रष्टास्तत्तुल्यं भृतिपोषिताः । महाराजादिभिस्ते तु हीनसामन्तसंज्ञकाः

p1.191

शतग्रामाधिपो यस्तु सोऽपि सामन्तसंज्ञकः । शतप्रामे चाधिकृतोऽनुसामन्तो नृपेण सः

p1.192

अधिकृतो दशग्रामे नायकः स च कीर्त्तितः । आशापालोऽयुतग्रामभागभाक् च स्वराडपि

p1.193

भवेत् क्रोशात्मको ग्रामो रूप्यकर्षसहस्त्रकः । ग्रामार्द्धकं पल्लिसंज्ञं पल्लवर्द्ध कुम्भसंज्ञकम्

p1.194

करैः पञ्चसहखैर्वा क्रोशः प्रोक्तः प्रजापतेः । हस्तैश्चतुःसहस्त्रैर्वा मनोः क्रोशस्य विस्तरः

p1.195

सार्द्धद्विकोटिहस्तैश्च क्षेत्रं क्रोशस्य ब्रह्मणः । पञ्चविंशशतैः प्रोक्तं क्षेत्रस्तद्धि निवर्त्तनम्

p1.196

मध्यमामध्यमपर्वदैर्ध्य यच्च तद्ङ्गुलम् । यवोदरैरष्टभिस्तदैर्ध्य स्थौल्यन्तु पञ्चभिः

p1.197

चतुर्विंशत्यङ्गलैस्तैः प्राजापत्यः करः स्मृतः । स श्रेष्ठो भूमिमाने तु तदन्यास्त्वधमा मताः

p1.198

चतुःकरात्मको दण्डो लघुः पञ्चकरात्मकः । तद्दङ्गुलं पञ्चयवैर्मानवं मानमेव तत्

p1.999

वसुषण्मुनिसंख्याकैर्यवैर्दण्ड प्रजापतेः । यवोदरैः षट्‌शतैस्तु मानवो दण्ड उच्यते

p1.200

पञ्चविंशतिभिर्दण्डैरुभयोस्तु निवर्त्तनम्। त्रिंशच्छतैरडुलैर्यवैश्विपञ्चसहस्त्रकैः

p1.201

सपादशतहस्तैश्च मानवन्तु निवर्तनम् । ऊनविंशतिसाहस्त्रैर्द्विशतैश्च यवोदरैः

p1.202

चतुर्विंशशतैरेव हाङ्गलैश्च निवर्त्तनम् । प्राजापत्यन्तु कथितं शतैश्चैव करैः सदा

p1.203

सपादषट्‌शता दण्डा उभयोश्च निवर्त्तने । निवर्त्तनान्यपि सदोभयोर्वै पञ्चविंशतिः

p1.204

पञ्चसप्ततिसाहस्त्रैरङ्गलैः परिवर्तनम् । मानवं षष्टिसाहस्रैः प्राजापत्यं तथाङ्गलैः

p1.205

पञ्चविंशाधिकैर्हस्तैरे कत्रिंशच्छतैर्मनोः । परिवर्तनमाख्यातं पञ्चविंशशतैः करैः

p1.206

प्राजापत्यं, पादहीनचतुर्लक्षयवैर्मनोः । अशीत्यधिकसाहस्त्रचतुर्लक्षयवैः परम्

p1.207

निवर्त्तनानि द्वात्रिंशन्मनुमानेन तस्य वै। चतुःसहस्त्रहस्ताः स्युर्दण्डाश्चाष्टशतानि हि

p1.208

पञ्चविंशतिभिर्दण्डैर्भुजः स्यात् परिवत्र्त्तने। कर्ररयुतसंख्याकैः क्षेत्रं तस्य प्रकीर्त्तितम्

p1.209

चतुर्भुजैः समं प्रोक्तं कष्टभूपरिवर्तनम् । प्राजापत्येन मानेन भूभागहरणं नृपः

p1.210

सदा कुर्य्याच्च स्वापत्तौ मनुमानेन नान्यथा । लोभात् सङ्कर्ययेद् यस्तु हीयते सप्रजो नृपः

p1.211

न दद्याद् द्व्यङ्गलमपि भूमेः स्वत्वनिवर्त्तनम् । वृत्त्यर्थं कल्पयेद् वापि यावद् ग्राहस्तु जीवति

p1.212

गुणी तावद् देवतार्थं विसृजेच्च सदैव हि। आरामार्थं गृहार्थं वा दद्याद् दृष्ट्वा कुटुम्बिनम्

p1.213

नानावृक्षलताकीर्णे पशुपक्षिगणावृते । सुबहूदकधान्ये च तृणकाष्ठसुखे सदा

p1.214

आसिन्धुनौगमाकूले नातिदूरमहीधरे । सुरम्यसमभूदेशे राजधानीं प्रकल्पयेत्

p1.215

अर्द्धचन्द्रां वर्तुलां वा चतुरश्रां सुशोभनाम्। सप्राकारां सपरिखां ग्रामादीनां निवेशिनीम्

p1.216

सभामध्यां कूपवापीतडागादियुतां सदा। चतुर्दिक्षु चतुर्द्वारा सुमार्गारामवीथिकाम्

p1.217

दृढसुरालयमठपान्यशालाविराजिताम् । कल्पयित्वा वसेत् तत्र सुगुप्तः सप्रजो नृपः

p1.218

राजगृहं सभामध्यं गवाश्वगजशालिकम् । प्रशस्तवापीकूपादिजलयन्त्रैः सुशोभितम्

p1.219

सर्वतः स्यात् समभुजं दक्षिणोच्चमुदड्नतम् । शालां विना नैकभुजं तथा विषमबाहुकम्

p1.220

प्रायः शाला नैकभुजा चतुःशालं विना शुभा। शस्त्रास्त्रधारिसंयुक्तप्राकारं सुष्ठुयन्त्रकम्

p1.221

सत्रिकक्षचतुर्द्वारं चतुर्दिक्षु सुशोभितम् । दिवा रात्रौ सशस्त्रास्त्रैः प्रतिकक्षासु गोपितम्

p1.222

चतुर्भिः पञ्चभिः षड्भिर्यामिकैः परिवर्त्तकैः । नानागृहोपकार्य्याट्टसंयुतं कल्पयेत् सदा

p1.223

वस्त्रादिमार्जनार्थञ्च स्नानार्थं यजनार्थकम् । भोजनार्थञ्च पाकार्थं पूर्वस्यां कल्पयेत् गृहान्

p1.224

अन्वयः निद्रार्थञ्च विहारार्थं पानार्थं रोदनार्थकम् । धान्यार्थं घरटाद्यर्थं दासीदासार्थमेव च

p1.225

उत्सर्गार्थं गृहान् कुर्य्याद्दक्षिणस्यामनुक्रमात् । गोमृगोष्ट्रगजाद्यर्थं गृहान् प्रत्यक् प्रकल्पयेत्

p1.226

रथवाज्यस्त्रशस्त्रार्थं व्यायामायामिकार्थकम् । वस्त्रार्थकन्तु द्रव्यार्थं विद्याभ्यासार्थमेव च

p1.227

उदग्गृहान् प्रकुर्वीत सुगुप्तान् सुमनोहरान् । यथा सुखानि वा कुर्य्याद् गृहाण्येतानि वै नृपः

p1.228

धर्माधिकरणं शिल्पशालां कुर्य्यादुदग्गृहात् । पञ्चमांशाधिकोच्छ्राया भित्तिर्विस्तारतो गृहे

p1.229

कोष्ठविस्तारषष्ठांशस्थूला सा च प्रकीर्त्तिता । एकभूमेरिदं मानमूर्ध्वमूर्ध्व समन्ततः

p1.230

स्तम्भैश्च भित्तिभिर्वापि पृथक्कोष्ठानि संन्यसेत् । त्रिकोष्ठं पञ्चकोष्ठं वा सप्तकोष्ठं गृहं स्मृतम्

p1.231

द्वारार्थमष्टधा भक्तं हारस्यांशौ तु मध्यमौ । द्वौ द्वौ ज्ञेयौ चतुर्दिक्षु धनपुत्रप्रदौ नृणाम्

p1.233

तत्रैव कल्पयेद्द्वारं नान्यथा तु कदाचन । वातायनं पृथक्कोष्ठे कुर्य्याद् यादृक् सुखावहम् ॥ २३२
अन्यगृहद्वारविद्धं गृहद्वारं न चिन्तयेत् । गृहकोणस्तम्भमार्गपीठकूपैश्च वेधितम्

p1.234

प्रासादमण्डपद्वारे मार्गवेधो न विद्यते । गृहपीठं चतुर्थांशमुच्छ्रायस्य प्रकल्पयेत्

p1.235

प्रासादानां मण्डपानामर्द्धाशं वापरे जगुः । परवातायनैर्विद्धं नापि वातायनं स्मृतम्

p1.236

विस्तारार्धांशमध्योच्चा छदिः खर्परसम्भवा । पतितन्तु जलं तस्यां सुखं गच्छति वाप्यधः

p1.237

हीना निम्ना छदिर्न स्यात् तादृक् कोष्ठस्य विस्तरः । स्वोच्छ्रायस्यार्द्धमूलो वा प्राकारः सममूलकः

p1.238

तृतीयांशकमूलो वा ह्युच्छ्रायार्द्धप्रविस्तरः । उच्छ्रितस्तु तथा कार्यो दस्युभिर्न विलङ्घयते

p1.239

यामिकैः रक्षितो नित्यं नालिकास्त्रैश्च संयुतः । सुबहुदृढगुल्मश्च सुगवाक्षप्रणालिकः

p1.240

स्वहीनप्रतिप्राकारो हासमीपमहीधरः । परिखा च ततः कार्ष्या खाताद् द्विगुणविस्तरा

p1.241

नातिसमीपप्राकारा ह्यगाधसलिला शुभा । युद्धसाधनसम्भारैः सुयुद्धकुशलैर्विना

p1.242

न श्रेयसे दुर्गवासो राज्ञः स्याद् बन्धनाय सः। राज्ञा राजसभा कार्य्या सुगुप्ता सुमनोरमा

p1.243

त्रिकोष्ठैः पञ्चकोष्ठर्वा सप्तकोष्ठैः सुविस्तृता । दक्षिणोदक् तथा दीर्घा प्राक्प्रत्यग् द्विगुणाथवा

p1.244

त्रिगुणा वा यथा काममेकभूमिर्द्धिभूमिका। त्रिभूमिका वा कर्त्तव्या सोपकार्य्या शिरोगृहा

p1.245

परितः प्रतिकोष्ठे तु वातायनविराजिता । पार्श्वकोष्ठात् तु द्विगुणो मध्यकोष्ठस्य विस्तरः

p1.446

पञ्चमांशाधिकं तूच्वं मध्यकोष्ठस्य विस्तरात् । विस्तारेण समं तूच्चं पञ्चमांशाधिकन्तु वा

p1.247

कोष्ठकानाञ्च भूमिर्वा छदिर्वा तत्र कारयेत् । द्विभूमिके पार्श्वकोष्ठे मध्यमं त्वेकभूमिकम्

p1.248

पृथक्स्तम्भान्तसत्कोष्ठा चतुर्मार्गागमा शुभा। जलोर्ध्वपातियन्त्रैश्च युता सुस्वरयन्त्रकैः

p1.249

वातप्रेरकयन्त्रैश्व यन्त्रैः कालप्रबोधकैः । प्रतिष्ठिता च स्वादशैंस्तथा च प्रतिरूपकैः

p1.250

एवंविधा राजसभा मन्त्रार्था कार्य्यदर्शन । तथाविधामात्यलेख्यसभ्याधिकृतशालिकाः

p1.251

कर्तव्याश्च पृथक् त्वेतास्तदर्थाश्व पृथक् पृथक् । शतहस्तमितां भूमि त्यक्त्वा राजगृहात् सदा

p1.252

उदग्द्विशतहस्तां प्राक् सेनासंवेशनार्थिकाम् । आराद्राजगृहस्यैव प्रजानां निलयानि च

p1.253

सधनश्रेष्ठजात्यानुक्रमतश्च सदा बुधः । समन्ताच्च चतुर्दिक्षु विन्यसेच्च ततः परम्

p1.254

प्रकृत्यनुप्रकृतयो ह्यधिकारिगणस्ततः । सेनाधिपाः पदातीनां गणः सादिगणस्ततः

p1.255

साश्वश्च सगजश्चापि गजपालगणस्ततः । बृहन्नालिकयन्त्राणि ततः स्वतुरगीगणः

p1.256

ततः स्वगौल्मिकगणो ह्यारण्यकगणस्ततः । क्रमादेषां गृहाणि स्युः शोभनानि पुरे सदा

p1.257

पान्थशाला ततः कार्य्या सुगुप्ता सुजलाशया । सजातीयगृहाणां हि समुदायेन प‌ङ्क्तितः

p1.258

निवेशनं पुरे ग्रामे प्रागुदङ्‌मुखमेव वा । सजातिपण्यनिवहैरापणे पण्यवेशनम्

p1.259

धनिकादिक्रमेणैव राजमार्गस्य पार्श्वयोः । एवं हि पत्तनं कुर्य्यात् ग्रामञ्चैव नराधिपः

p1.260

राजमार्गास्तु कर्तव्याश्चतुर्दिक्षु नृपगृहात् । उत्तमो राजमार्गस्तु त्रिंशद्धस्तमितो भवेत्

p1.261

मध्यमो विंशतिकरो दशपञ्चकरोऽधमः पण्यमार्गास्तथा चैते पुरग्रामादिषु स्थिताः

p1.262

करत्रयात्मिका पद्या वीथिः पञ्चकरात्मिका । मार्गों दशकरः प्रोक्तो ग्रामेषु नगरे च

p1.263

प्राक् पश्चाद्दक्षिणोदक् तान् ग्राममध्यात् प्रकल्पयेत् । पुरं दृष्ट्वा राजमार्गान् सुबहून् कल्ययेन्नृपः ।

p1.264

न वीथि न च पद्यां हि राजधान्यां प्रकल्पयेत् । षड्‌योजनान्तरेऽरण्ये राजमार्गन्तु चोत्तमम्

p1.265

कल्पयेत् मध्यमं मध्ये तयोर्मध्ये तथाधमम् । दशहस्तात्मकं नित्यं ग्रामे ग्रामे नियोजयेत्

p1.266

कूर्म्मपृष्ठा मार्गभूमिः कार्या ग्राम्यैः सुसेतुका । कुर्य्यान्मार्गान् पार्श्वखातान्निर्गमार्थं जलस्य च

p1.267

राजमार्गमुखानि स्युर्गृहाणि सकलान्यपि । गृहपृष्ठे सदा वीथिर्मलनिर्हरणस्थलम्

p1.268

प‌ङ्क्तिद्वयगतानां हि गेहानां कारयेत् तथा। मार्गान् सुधाशर्करैर्वा घटितान् प्रतिवत्सरम्

p1.269

अभियुक्तनिरुद्धैर्वा कुर्य्यात् ग्राम्यजनैर्नृपः । ग्रामद्वयान्तरे चैव पान्थशालां प्रकल्पयेत्

p1.270

नित्यं सम्मार्जिताञ्चैव ग्रामपैश्च सुगोपिताम् । तत्रागतन्तु सम्पृच्छेत् पान्थं शालाधिपः सदा

p1.271

प्रयातोऽसि कुतः कस्मात् क्व गच्छसि ऋतं वद। ससहायोऽसहायो वा किं सशस्त्रः सवाहनः

p1.272

का जातिः किं कुलं नाम स्थितिः कुत्रास्ति ते चिरम् । इति पृष्ट्वा लिखेत् सायं शस्त्रं तस्य प्रगृह्य च

p1.273

सावधानमना भूत्वा स्वापं कुर्विति शासयेत् । तत्रस्थान् गणयित्वा तु शालाद्वारं पिधाय च

p1.274

संरक्षयेद् यामिकैश्च प्रभाते तान् प्रबोधयेत् । शस्त्रं दद्याच्च गणयेद् द्वारमुद्घाट्य मोचयेत्

p1.275

कुर्य्यात् सहायं सीमान्तं तेषां ग्राम्यजनः सदा। प्रकुर्य्याद्दिनकृत्यन्तु राजधान्यां वसन्नृपः

p1.276

उत्थाय पश्चिमे यामे मुहूर्तद्वितयेन वै। नियतायश्च कत्यस्ति व्ययश्च नियतः कति

p1.277

कोशभूतस्य द्रव्यस्य व्ययः कति गतस्तथा । व्यवहारे मुद्रिताय व्ययशेषं कतीति च

p1.278

प्रत्यक्षतो लेखतश्च ज्ञात्वा चाद्य व्ययः कति । भविष्यति च तत्तुल्यं द्रव्यं कोशात् तु निर्हरेत्

p1.279

पश्चात्तु वेगनिर्मोक्षं स्नानं मौहूर्त्तिकं मतम् । सन्ध्यापुराणदानैश्च मुहूर्त्तद्वितयं नयेत् । गवाश्वयानव्यायामैर्नयेत् प्रातर्मुहूर्त्तकम्

p1.281

धान्यवस्त्रस्वर्णरत्नसेनादेशविलेखनैः आयव्ययैर्मुहूर्तानां चतुष्कन्तु नयेत् सदा।
पारितोषिकदानेन मुहूर्त्तन्तु नयेत् सुधीः । स्वस्थचित्तो भोजनेन मुहूर्त ससुहन्नृपः

p1.282

प्रत्यक्षीकरणाज्जीर्णनवीनानां मुहूर्त्तकम् । ततस्तु प्रा‌ड्विवाकादिबोधितव्यवहारतः

p1.283

मुहूर्त्तद्वितयञ्चैव मृगयाक्रीडनैर्नयेत् । व्यूहाभ्यासैर्मुहूर्त्तन्तु मुहूर्त सन्ध्यया ततः

p1.284

मुहूर्त भोजनेनैव द्विमुहूर्त्तञ्च वार्त्तया। गूढचारैः श्रावितया निद्रयाष्टमुहूर्त्तकम्

p1.285

एवं विहरतो राज्ञः सुखं सम्यक् प्रजायते । अहोरात्रं विभज्यैवं त्रिंशद्धिस्तु मुहूर्त्तकैः

p1.286

नयेत् कालं वृथा नैव नयेत् स्त्रीमद्यसेवनैः । यत्काले हाचितं कर्तुं तत्कार्य्य द्रागशङ्कित्तम्

p1.287

काले वृष्टिः सुपोषाय ह्यन्यथा सुविनाशिनी । कार्य्यस्थानानि सर्वाणि यामिकैरभितोऽनिशम्

p1.288

नयवान् अनीतिनतिवित् सिद्धशस्त्रादिकैर्वरैः । चतुर्भिः पञ्चभिर्वापि षड्भिर्वा गोपयेत् सदा

p1.324

तत्रत्यानि दैनिकानि शृणुयाल्लेखकाधिपैः । दिने दिने यामिकानां प्रकुर्य्यात् परिवर्त्तनम् ॥
गृहप‌ङ्क्तिमुखे द्वारं कर्त्तव्यं यामिकैः सदा। तैस्तवृत्तन्तु शृणुयात् गृहस्थभूतिपोषितैः ॥
निर्गच्छन्ति च ये ग्रामाद् ये ग्रामं प्रविशन्ति च। तान् सुसंशोध्य यत्लेन मोचयेद्दत्तलग्नकान् ॥
प्रख्यातवृत्तशीलांस्तु ह्यविमृष्य विमोचयेत् । वीथिवीथिषु यामाद्वैर्निशिपर्यटनं सदा ॥
कर्त्तव्यं यामिकैरेव चौरजारनिवृत्तये । शासनं त्वीदृशं कार्यं राज्ञा नित्यं प्रजासु च ॥
दासे भृत्येऽथ भार्य्यायां पुत्रे शिष्येऽपि वा क्वचित्। वाग्दण्डपरुषं नैव कार्य्य मद्देशसंस्थितैः ॥
तुलाशासनमानानां नाणकस्यापि वा क्वचित् । निर्यासनाञ्च धातूनां सजातीनां घृतस्य च ॥
मधुदुग्धवसादीनां पिष्टादीनाञ्च सर्वदा। कूटं नैव तु कार्यं स्याद् बलाच्च लिखितं जनैः ॥
उत्कोचग्रहणं नैव स्वामिकार्य्यविलोभनम् । दुर्वृत्तकारिणञ्चोरं जारं मद्वेषिणं द्विषम् ॥
न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान् । मातृणां पितृणाञ्चैव पूज्यानां विदुषामपि ॥
नावमानं नोपहासं कुर्युः सवृत्तशालिनाम् । न भेदं जनयेयुर्वै नृनाय्यर्योः स्वामिभृत्ययोः ॥
भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः । वापीकूपारामसीमाधर्मशालासुरालयान् ॥
प्रबाधेयुर्हीनाङ्गविकलाङ्गकान् । मार्गान्नैव द्यूतञ्च मद्यपानञ्च मृगयां शस्त्रधारणम् ॥
गोगजाश्वोष्ट्रमहिषीनृणां वै स्थावरस्य च। रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥
क्रयो वा विक्रयो वापि मद्यसन्धानमेव च। क्रयपत्रं दानपत्रमृणनिर्णयपत्रकम् ॥
राजाज्ञया विना नैव जनैः कार्यं चिकित्सितम् । महापापाभिशपनं निधिग्रहणमेव च ॥
नवसमाजनियमं निर्णयं याति दूषणम् । अस्वामिनाष्टिकधनसङ्ग्रहं मन्त्रभेदनम् ॥
नृपदुर्गुणालापन्तु नैव कुर्युः कदाचन। स्वधर्महानिमनृतं परदाराभिमर्शनम् ॥
कूटसाक्ष्यं कूटलेख्यमप्रकाशप्रतिग्रहम् । निर्धारितकराधिक्यं स्तेयं साहसमेव च ॥
मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च। भृत्या शुल्केन भागेन वृद्धया दर्पाद् बलाच्छलात् ॥
आधर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा। परिमाणोन्मानमानं धार्यं राजविमुद्रितम् ॥
गुणसाधनसन्दक्षा भवन्तु निखिला जनाः । साहसाधिकृते दद्युर्विनिगृह्याततायिनम् ॥
उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्याः सुयन्त्रिताः । इति मच्छासनं श्रुत्वा येऽन्यथा वर्त्तयन्ति तान् ॥
विनिशिष्यामि दण्डेन महता पापकारकान् । इति प्रबोधयेन्नित्यं प्रजाः शासनडिण्डिमैः ॥
लिखित्वा शासनं राजा धारयीत चतुष्पथे । सदा चोद्यतदण्डः स्यादसाधुषु च शत्रुषु ॥
प्रजानां पालनं कार्य्य नीतिपूर्वं नृपेण हि। मार्गसंरक्षणं कुर्यान्नृपः पान्थसुखाय च ॥
पान्थप्रपीडका ये ये हन्तव्यास्ते प्रयत्नतः । त्रिभिरंशैर्बलं धार्यं दानमर्द्धाशकेन च ॥
अद्धशिन प्रकृतयो ह्यद्धद्धृशेनाधिकारिणः । अद्धशिनात्मभोगश्च कोशोंऽशेन च रक्ष्यते ॥
आयस्यैवं ष‌ड्विभागैर्व्ययं कुर्य्यात् तु वत्सरे । सामन्तादिषु धर्मोऽयं न न्यूनस्य कदाचन ॥
राज्यस्य यशसः कीर्तेर्धनस्य च गुणस्य च। प्राप्तस्य रक्षणेऽन्यस्य हरणे चोद्यमोऽपि च ॥
संरक्षणे संहरणे सुप्रयत्नो भवेत् सदा । शौर्य्यपाण्डित्यवक्तृत्वं दातृत्वं न त्यजेत् क्वचित् ॥
बलं पराक्रमं नित्यमुत्थानञ्चापि भूमिपः । समितौ स्वात्मकायें वा स्वामिकायें तथैव च ॥
त्यक्त्वा प्राणभयं युध्येत् स शूरस्त्वविशङ्कितः । पक्षं सन्त्यज्य यत्लेन बालस्यापि सुभाषितम् ॥
गृह्णाति धर्मतत्त्वञ्च व्यवस्यति स पण्डितः । राज्ञोऽपि दुर्गुणान् वक्ति प्रत्यक्षमविशङ्कित्तः ॥
स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन । अदेयं यस्य नैवास्ति भार्य्यापुत्रादिकं धनम् ॥
आत्मानमपि सन्दत्ते पात्रे दाता स अशङ्कितक्षमो येन कार्य्य कर्तुं बलं हि तत्

p1.35

उच्यते ॥
किङ्करा इव येनान्ये नृपाद्याः स पराक्रमः । युद्धानुकूलव्यापार उत्थानमिति कीर्त्तितम् ॥
विषदोषभयादन्नं विमृशेत् कपिकुक्कुटैः । हंसाः स्खलन्ति कूजन्ति भृङ्गा नृत्यन्ति मायूराः ॥
विरौति कुक्कुटो माद्येत् क्रौञ्चो वै रेचते कपिः । हृष्टरोमा भवेद् बभ्रुः सारिका वमते तथा ॥
दृष्ट्वैवं सविषं चान्नं तस्माद् भोज्यं परीक्षयेत् । भुञ्जीत षड्रसं नित्यं न द्वित्रिरससङ्कुलम् ॥
हीनातिरिक्तं कटुमधुर क्षारसङ्कलम् । न आवेदयति यत्कार्य्य शृणुयान्मन्त्रिभिः सह ॥
आरामादौ प्रकृतिभिः स्त्रीभिश्च नटगायकैः । विहरेत् सावधानस्तु मागधैरैन्द्रजालिकैः ॥
गजाश्वरथयानं तु प्रातः सायं सदाभ्यसेत् । व्यूहाभ्यासं सैनिकानां स्वयं शिक्षेच्च शिक्षयेत् ॥
व्याघ्रादिभिर्वनचरैर्मयूराद्यैश्च पक्षिभिः । क्रीडयेत् मृगयां कुर्य्याद् दुष्टसत्त्वान्निपातयन् ॥
शौर्य्य प्रवर्द्धते नित्यं लक्ष्यसन्धानसाधनम् । अकातरत्वं शस्त्रास्त्रशीघ्रपातनकारिता ॥
मृगयायां गुणा एते हिंसादोषो महत्तरः । इङ्गितं चेष्टितं यत्नात् प्रजानामधिकारिणाम् ॥
प्रकृतीनाञ्च शत्रूणां सैनिकानां मतञ्च यत्। सभ्यानां बान्धवानाञ्च स्त्रीणामन्तःपुरे च यत् ॥
शृणुयाद् गूढचारेभ्यो निशि चात्ययिके सदा। सावधानमनाः सिद्धशस्त्रास्त्रः संलिखेच्च तत् ॥
असत्यवादिनं गूढचारं नैव च शास्ति यः । स नृपो म्लेच्छ इत्युक्तः प्रजाप्राणधनापहः ॥
वर्णि-तपस्वि-सन्यासि-नीच-सिद्धस्वरूपिणम् । प्रत्यक्षेण छलेनैव गूढचारं विशोधयेत् ॥
विना तच्छोधनात् तत्त्वं न जानाति च नाप्यते । अशोधकनृपान्नैव बिभ्यत्यनृतवादने ॥
प्रकृतिभ्योऽधिकृतेभ्यो गूढचारं सुरक्षयेत् । सदैकनायकं राज्यं कुर्य्यान्न बहुनायकम् ॥
नानायकं क्वचिदपि कर्तुमीहेत भूमिपः । राजकुले तु बहवः पुरुषाः यदि सन्ति हि ॥
तेषु ज्येष्ठो भवेद्राजा शेषास्तत्कार्य्यसाधकाः । गरीयांसो वराः सर्वसहायेभ्योऽभिवृद्धये ॥
ज्येष्ठोऽपि बधिरः कुष्ठी मूकोऽन्धः षण्ड एव यः । स राज्याहों भवन्नैव भ्राता तत्पुत्र एव हि ॥
स्वकनिष्ठोऽपि ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यभाक् । यथाग्रजस्य चाभावे कनिष्ठा राज्यभागिनः । दायादानामैकमत्यं राज्ञः श्रेयस्करं परम् ॥
पृथग्भावो विनाशाय राज्यस्य च कुलस्य च। अतः स्वभोगसदृशान् दायादान् कारयेन्नृपः । अव्याहताज्ञः सन्तुष्येत् छत्रसिंहासनैरपि ॥
राज्यविभजनाच्छ्रेयो न भूपानां भवेत् खलु । अल्पीकृतं विभागेन राज्यं शत्रुजिघृक्षति ॥
राज्यतुर्थ्यांशदानेन स्थापयेत् तान् समन्ततः । चतुर्दिक्ष्वथवा देशाधिपान् कुर्य्यात् सदा नृपः ॥
गोगजाश्वोष्ट्रकोशानामाधिपत्ये नियोजयेत् । माता मातृसमा या च सा नियोज्या महानसे ॥
सेनाधिकारे संयोज्या बान्धवाः श्यालकाः सदा। स्वदोषदर्शकाः कार्या गुरवः सुहृदश्च ये ॥
वस्त्रालङ्कारपात्राणां स्त्रियो योज्याः सुदर्शन । स्वयं सर्वन्तु विमृशेत् पर्यायेण च मुद्रयेत् ॥
अन्तर्वेश्मनि रात्रौ वा दिवारण्ये विशोधिते । मन्त्रयेन्मन्त्रिभिः सार्द्धं भाविकृत्यन्तु निर्जने ॥
सुहृद्धिर्भातृभिः सार्द्धं सभायां पुत्रबान्धवैः । राजकृत्यं सेनपैश्च सभ्याद्यौश्चिन्तयेत् सदा ॥
सभायां प्रत्यगर्द्धस्य मध्ये राजासनं स्मृतम्। दक्षसंस्था वामसंस्था विशेयुः पार्श्वकोष्ठगाः ॥
पुत्राः पौत्रा भ्रातरश्च भागिनेयाः स्वपृष्ठतः । दौहित्रा दक्षभागात् तु वामसंस्था क्रमादिमे ॥
पितृव्याः स्वकुलश्रेष्ठाः सभ्याः सेनाधिपास्तथा । स्वाग्रे दक्षिणभागे तु प्राक्संस्थाः पृथगासनाः ॥
मातामहकुलश्रेष्ठा मन्त्रिणो बान्धवास्तथा। श्वशुराश्चैव श्यालाश्च वामाग्रे चाधिकारिणः ॥
वामदक्षिणपार्श्वस्थौ जामाता भगिनीपतिः । स्वसदृशः समीपे वा स्वार्द्धासनगतः सुहृत् ॥
दौहित्रभागिनेयानां स्थाने स्युर्दत्तकादयः । भागिनेयाश्च दौहित्राः पुत्रादिस्थानसंश्रिताः ॥
यथा पिता तथाचार्य्यः समश्रेष्ठासने स्थितः । पार्श्वयोरग्रतः सर्वे लेखका मन्त्रिपृष्ठगाः ॥
परिचारगणाः सर्वे सर्वेभ्यः पृष्ठसंस्थिताः । स्वर्णदण्डधरौ पार्श्वे प्रवेशनतिबोधकौ ॥
विशिष्टचिह्नयुग्राजा स्वासने प्रविशेत् सुखम् । सुभूषणः सुकवचः सुवस्त्रो मुकुटान्वितः ॥
सिद्धास्त्रो नग्नशस्त्रः सन् सावधानमनाः सदा । सर्वस्मादधिको दाता शूरस्त्वं धार्मिको ह्यसि ॥
इति वाचं न शृणुयाच्छ्रावका वञ्चकास्तु ये। रागाल्लोभाद्भयाद्राज्ञः स्युर्मूका इव मन्त्रिणः ॥
न ताननुमतान् विद्यान्नृपतिः स्वार्थसिद्धये । पृथक्पृथङ्मतं तेषां लेखयित्वा ससाधनम् ॥
विमृशेत् स्वमतेनैव यत् कुर्य्याद् बहुसम्मतम् । गजाश्वरथपश्वादीन् भृत्यान् दासांस्तथैव च ॥
सम्भारान् सैनिकान् कार्य्याक्षमान् ज्ञात्वा दिने दिने। संरक्षयेत् प्रयत्नेन सुजीर्णान् सन्त्यजेत् सुधीः ॥
अयुतक्रोशजां वार्ता हरेदेकदिनेन वै। सर्वविद्याकलाभ्यासे शिक्षयेद् भृतिपोषितान् ॥
समाप्तविद्यं सन्दृष्ट्‌वा तत्कायें तं नियोजयेत् । विद्याकलोत्तमान् दृष्ट्वा वत्सरे पूजयेच्च तान् ॥
विद्याकलानां वृद्धिः स्यात्तथा कुर्य्यान्नृपः सदा । पृष्ठाग्रगान् क्रूरवेशान्नतिनीतिविशारदान् ॥
सिद्धास्त्रनग्नशस्त्रांश्च भटानारान्नियोजयेत् । पुरे पर्यटयेन्नित्यं गजस्थो रञ्जयन् प्रजाः ॥
राजयानारूढितः किं राज्ञा श्वा न समोऽपि च। शुना समो न कि राजा कविभिर्भाव्यतेऽञ्जसा ॥
अतः स्वबान्धवैर्मित्रैः स्वसाम्यप्रापितैर्गुणैः । प्रकृतिभिर्नृपो गच्छेन्न नीचैस्तु कदाचन ॥
मिथ्यासत्यसदाचारैर्नीचः साधुः क्रमात् स्मृतः । साधुभ्योऽतिस्वमृदुत्वं नीचाः सन्दर्शयन्ति हि ॥
ग्रामान् पुराणि देशांश्च स्वयं संवीक्ष्य वत्सरे। अधिकारिगणैः काश्च रञ्जिताः काश्च कर्षिताः ॥
प्रजास्ताः साधुभूतेन व्यवहारं विचिन्तयेत् । न भृत्यपक्षपाती स्यात् प्रजापक्षं समाश्रयेत् ॥
प्रजाशतेन सन्द्विष्टं सन्त्यजेदधिकारिणम् । अमात्यमपि संवीक्ष्य सकृदन्यायगामिनम् ॥
एकान्ते दण्डयेत् स्पष्टमभ्यासापकृतं त्यजेत् । अन्यायवर्त्तिनां राज्यं सर्वस्वञ्च हरेन्नृपः ॥
जितानां विषये स्थाप्यं धर्माधिकरणं सदा । भृतिं दद्यान्निर्जितानां तच्चरित्रानुरूपतः ॥
स्वानुरक्तां सुरूपाञ्च सुवस्त्रां प्रियवादिनीम् । सुभूषणां सुसंशुद्धां प्रमदां शयने भजेत् ॥
यामद्वयं शयानञ्च ह्यत्यन्तं सुखमश्नुते । न सन्त्यजेच्च स्वस्थानं नीत्या शत्रुगणं जयेत् ॥
स्थानभ्रष्टा नो विभान्ति दन्ताः केशा नखा नृपाः । संश्रयेद् गिरदुर्गाणि महापदि नृपः सदा ॥
तदाश्रयाद् दस्युवृत्त्या स्वराज्यन्तु समाहरेत् । विवाहदानयज्ञार्थं विनाप्यष्टांशशेषितम् ॥
सर्वतस्तु हरेद् दस्युरसतामखिलं धनम्। नैकत्र संवसेन्नित्यं विश्वसेन्नैव कं प्रति ॥
सदैव सावधानः स्यात् प्राणनाशं न चिन्तयेत् । क्रूरकर्मा सदोद्युक्तो निघृणो दस्युकर्मसु ॥
विमुखः परदारासु कुलकन्याप्रदूषणे । पुत्रवत् पालिता भृत्याः समये शत्रुतां गताः ॥
न दोषः स्यात् प्रयत्नस्य भागधेयं स्वयं हि तत् । दृष्ट्वा सुविफलं कर्म तपस्तप्त्वा दिवं व्रजेत् ॥
उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे। अध्यायः प्रथमः प्रोक्तो राजकार्य्यनिरूपकः ॥
द्वितीय अध्याय
यद्यप्यल्पतरं कर्म तदप्येकेन दुष्करम् । पुरुषेणासहायेन किमु राज्यं महोदयम् ॥
सर्वविद्यासु कुशलो नृपो ह्यपि सुमन्त्रवित् । मन्त्रिभिस्तु विना मन्त्रं नैकोऽर्थं चिन्तयेत् क्वचित् ॥
सभ्याधिकारिप्रकृतिसभासत्सुमते स्थितः । सर्वदा स्यान्नृपः प्राज्ञः स्वमते न कदाचन ॥

प्रभुः स्वातन्त्र्यमापन्नो हानर्थायैव कल्पते । भिन्नराष्ट्रो भवेत् सद्यो भिन्नप्रकृतिरेव च ॥
पुरुषे पुरुषे भिन्नं दृश्यते बुद्धिवैभवम् । आप्तवाक्यैरनुभवैरागमैरनुमानतः ॥
प्रत्यक्षेण च सादृश्यैः साहसैश्च छलैर्बलैः । वैचित्र्यं व्यवहाराणामौन्नत्यं गुरुलाघवैः ॥
न हि तत् सकलं ज्ञातुं नरेणैकेन शक्यते । अतः सहायान् वरयेद्राजा राज्यविवृद्धये ॥
कुलगुणशीलवृद्धान् शूरान् भक्तान् प्रियंवदान् । हितोपदेशकान् क्लेशसहान् धर्म्मरतान् सदा ॥
कुमार्गगं नृपमपि बुद्धयोद्धर्तुं क्षमान् शुचीन् । निर्मत्सरान् कामक्रोधलोभहीनान्निरालसान् ॥
हीयते कुसहायेन स्वधर्माद्राज्यतो नृपः । कुकर्मणा प्रनष्टास्तु दितिजाः कुसहायतः ॥
नष्टा दुर्योधनाद्यास्तु नृपाः शूरा बलाधिकाः । निरभिमानो नृपतिः सुसहायो भवेदतः ॥
युवराजोऽमात्यगणो भुजावेतौ महीभुजः । तावेव नयने कर्णों दक्षसव्यौ क्रमात् स्मृतौ ॥
बाहुकर्णाक्षिहीनः स्याद् विना ताभ्यामतो नृपः । योजयेच्चिन्तयित्वा तौ महानाशाय चान्यथा ॥
मुद्रां विनाखिलं राजकृत्यं कर्तुं क्षमं सदा। कल्पयेद् युवराजार्थमौरसं धर्मपत्नीजम् ॥
स्वकनिष्ठं पितृव्यं वानुजं वाग्रजसम्भवम् । पुत्रं पुत्रीकृतं दत्तं यौवराज्येऽभिषेचयेत् ॥
क्रमादद्भावे दौहित्रं स्वप्रियं वा नियोजयेत् । स्वहितायापि मनसा नैतान् सङ्कर्षयेत् क्वचित् ॥
स्वधर्मनिरतान् शूरान् भक्तान् नीतिमतः सदा । संरक्षयेद्राजपुत्रान् बालानपि सुयत्नतः ॥
लोलुभ्यमानास्तेऽर्थेषु हन्युरेनमरक्षिताः । रक्ष्यमाणा यदि छिद्रं कथञ्चित् प्राप्नुवन्ति ते ॥
सिंहशावा इव घ्नन्ति रक्षितारं द्विपं द्रुतम् । राजपुत्रा मदोद्भूता गजा इव निरङ्कुशाः ॥
पितरञ्चापि निघ्नन्ति भ्रातरं त्वितरं न किम्। मूर्खे बालोऽपीच्छतिस्म स्वाम्यं किं नु पुनर्युवा ? ॥
स्वात्यन्तसन्निकर्षेण राजपुत्रांस्तु रक्षयेत् । सधृत्यैश्चापि तत् स्वान्तं छलैंर्ज्ञात्वा सदा स्वयम् ॥
सुनीतिशास्त्रकुशलान् धनुर्वेदविशारदान् । क्लेशसहांश्च वाग्दण्डपारुष्यानुभवान् सदा ॥
शौर्य्ययुद्धरतान् सर्वकलाविद्याविदोऽञ्जसः । सुविनीतान् प्रकुर्वीत ह्यमात्याद्यद्यैर्नृपः सुतान् ॥
सुवस्वाद्यैर्भूषयित्वा लालयित्वा सुक्रीडनैः । अर्हयित्वासनाद्यैश्च पालयित्वा सुभोजनैः ॥
कृत्वा तु यौवराज्यार्हान् यौवराज्येऽभिषेचयेत् । अविनीत्कुमारं हि कुलमाशु विनश्यति ॥
राजपुत्रः सुदुर्वृत्तः परित्यागं हि नार्हति। क्लिश्यमानः स पितरं परानाश्रित्य हन्ति हि ॥
व्यसने सज्जमानं तं क्लेशयेद् व्यसनाश्रयैः । दुष्टं गजमिवोद्धृत्तं कुर्वीत सुखबन्धनम् ॥
सुदुर्वृत्तास्तु दायादा हन्तव्यास्ते प्रयत्नतः । व्याघ्रादिभिः शत्रुभिर्वा छलै राष्ट्रविवृद्धये ॥
अतोऽन्यथा विनाशाय प्रजाया भूपतेश्च ते। तोषयेयुर्नृपं नित्यं दायादाः स्वगुणैः परैः ॥
भ्रष्टा भवन्त्यन्यथा ते स्वभागाज्जीवितादपि। स्वसापिण्ड्यविहीना ये हान्योत्पन्ना नराः खलु ॥
मनसापि न मन्तव्या दत्ताद्याः स्वसुता इति। ते दत्तकत्वमिच्छन्ति दृष्ट्वा यद् धनिकं नरम् ॥
स्वकुलोत्पन्नकन्यायाः पुत्रस्तेभ्यो वरो ह्यतः । अङ्गादङ्गात् सम्भवति पुत्रवद् दुहिता नृणाम् ॥
पिण्डदाने विशेषो न पुत्रदौहित्रयोस्त्वतः । भूप्रजापालनार्थं हि भूपो दत्तन्तु पालयेत् ॥
नृपः प्रजापालनार्थं सधनश्चेन्न चान्यथा । परोत्पन्ने स्वपुत्रत्वं मत्वा सर्वं ददाति तम् ॥
किमाश्चर्य्यमता लोके न ददाति यजत्यपि। प्राप्यापि युवराजत्वं प्राप्नुयाद्विकृतिं न च ॥
स्वसम्पत्तिमदान्नैव मातरं पितरं गुरुम् । भ्रातरं भगिनीं वापि हान्यान् वा राजवल्लभान् ॥
महाजनांस्तथा राष्ट्रठे नावमन्येत पीडयेत् । प्राप्यापि महतीं वृद्धि वर्तेत पितुराज्ञया ॥
पुत्रस्य पितुराज्ञा हि परमं भूषणं स्मृतम् । भार्गवेण हता माता राघवस्तु वनं गतः ॥
पितुस्तपोबलात् तौ तु मातरं राज्यमापतुः । शापानुग्रहयोः शक्तो यस्तस्याज्ञा गरीयसी ॥
सोदरेषु च सर्वेषु स्वस्याधिक्यं न दर्शयेत् । भागार्हभ्रातॄणां नष्टो ह्यवमानात् सुयोधनः ॥
पितुराज्ञोल्लङ्घनेन प्राप्यापि पदमुत्तमम् । तस्माद् भ्रष्टा भवन्तीह दासवद्राजपुत्रकाः ॥
ययातेश्च यथा पुत्रा विश्वामित्रसुता यथा। पितृसेवापरस्तिष्ठेत् कायवाड्‌मानसैः सदा ॥
तत्कर्म नियतं कुर्य्याद् येन तुष्टो भवेत् पिता। तन्न कुर्य्याद् येन पिता मनागपि विषीदति ॥
यस्मिन् पितुर्भवेत् प्रीतिः स्वयं तस्मिन् प्रियञ्चरेत् । यस्मिन् द्वेषं पिता कुर्य्यात् स्वस्यापि द्वेष्य एव सः ॥
असम्पतं विरुद्धं वा पितुर्नैव समाचरेत् । चारसूचकदोषेण यदि स्यादन्यथा पिता ॥
प्रकृत्यनुमतं कृत्वा तमेकान्ते प्रबोधयेत् । अन्यथा सूचकान्नित्यं महद्दण्डेन दण्डयेत् ॥
प्रकृतीनाञ्च कपटस्वान्तं विद्यात् सदैव हि। प्रातर्नत्वा प्रतिदिनं पितरं मातरं गुरुम् ॥
राजानं स्वकृतं यद् यद् निवेद्यानुदिनं ततः । एवं गृहाविरोधेन राजपुत्रो वसेद् गृहे ॥
विद्यया कर्मणा शीलैः प्रजाः संरञ्जयन् मुदा। त्यागी च सत्यसम्पन्नः सर्वान् कुर्य्याद्वशे स्वके ॥
शनैः शनैः प्रवर्द्धत शुक्लपक्षमृगाङ्कवत् । एवं वृत्तो राजपुत्रो राज्यं प्राप्याप्यकण्टकम् ॥
सहायवान् सहामात्यश्चिरं भुङ्क्ते वसुन्धराम् । समासतः कार्य्यमुक्तं युवराजस्य यद्धितम् ॥
समासादुच्यते कृत्यममात्यादेश्च लक्षणम् । मृद्गुरुप्रमाणत्ववर्णशब्दादिभिः समम् ॥
परीक्षकैर्द्रावयित्वा यथा स्वर्ण परीक्ष्यते। कर्मणा सहवासेन गुणैः शीलकुलादिभिः ॥
भृत्यं परीक्षयेन्नित्यं विश्वास्यं विश्वसेत् तदा । नैव जातिर्न च कुलं केवलं लक्षयेदपि ॥
कर्मशीलगुणाः पूज्यास्तथा जातिकुले न हि। जात्या न कुलेनैव श्रेष्ठत्वं प्रतिपद्यते ॥
विवाहे भोजने नित्यं कुलजातिविवेचनम्। सत्यवाक् गुणसम्पन्नस्तथाभिजनवान् धनी ॥
सुकुलश्च सुशीलश्च सुकर्मा च निरालसः । यथा करोत्यात्मकार्यं स्वामिकार्य्य ततोऽधिकम् ॥
चतुर्गुणेन यत्नेन कायवाड्‌मानसेन च। भृत्यैव तुष्टो मृदुवाक् कार्यदक्षः शुचिर्दृढः ॥
परोपकरणे दक्षो ह्यपकारपराङ्‌मुखः । स्वाम्यागस्कारिणं पुत्रं पितरं वापि दर्शकः ॥
अन्यायगामिनि पत्यौ बतद्रूपः सुबोधकः । नाक्षेप्ता तहिरं काञ्चित् तन्न्यूनस्याप्रकाशकः ॥
अदीर्घसूत्र सत्काव्यें हासत्काव्यें चिरक्रियः । त‌द्भार्थ्यांपुत्रमित्रछिद्रदर्शी कदाचन ॥
तद्वत् बुद्धिस्तदीयेषु भार्य्यापुत्रादिवन्युषु । न श्लाघते स्पर्द्धते न नाभ्यसूयति निन्दति ॥
नेच्छत्यन्याधिकारं हि निष्पृहो मोदते सदा। तद्दत्तवस्त्रभूषादिधारकस्तत् पुरोऽनिशम् ॥
भृतितुल्यव्ययी दान्तो दयालुः शूर एव हि। तदकार्य्यस्य रहसि सूचको भृतको वरः ॥
विपरीतगुणैरेभिर्भूतको निन्द्य उच्यते। ये भृत्या हीनभृतिका ये दण्डेन प्रकर्षिताः ॥
शठाश्च कातरा लुब्धाः समक्षं प्रियवादिनः । मत्ता व्यसनिनश्वार्ता उत्कोचेष्टाश्च देविनः ॥
नास्तिका दाम्भिकाश्चैवासत्यवाचोऽप्यसूयकाः । ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः ॥
रिपोर्मित्राः सेवकाश्च पूर्ववैरानुबन्धिनः । चण्डाः साहसिका धर्महीना नैते सुसेवकाः । सङ्‌क्षेपतस्तु कथितं सदस‌द्धृत्यलक्षणम् ॥
समासतः पुरोधादिलक्षणं यत् तदुच्यते । पुरोधाश्च प्रतिनिधिः प्रधानः सचिवस्तथा ॥
मन्त्री च प्रा‌ड्विवाकश्च पण्डितश्च सुमन्त्रकः । अमात्यो दूत इत्येता राज्ञः प्रकृतयो दश ॥
दशमांशाधिकाः पूर्वं दूतान्ताः क्रमशः स्मृताः । अष्टप्रकृतिभिर्युक्तो नृपः कैश्चित् स्मृतः सदा ॥

सुमन्त्रः पण्डितो मन्त्री प्रधानः सचिवस्तथा। अमात्यः प्राड्विवाकश्च तथा प्रतिनिधिः स्मृतः ॥
एता भृतिसमास्त्वष्टौ राज्ञः प्रकृतयः सदा। इङ्गिताकारतत्त्वज्ञो दूतस्तदनुगः स्मृतः ॥
पुरोधाः प्रथमं श्रेष्ठः सर्वेभ्यो राजराष्ट्रभृत् । तदनु स्यात् प्रतिनिधिः प्रधानस्तदनन्तरम् ॥
सचिवस्तु ततः प्रोक्तो मन्त्री तदनु चोच्यते। प्रा‌ड्विवाकस्ततः प्रोक्तः पण्डितस्तदनन्तरम् ॥
सुमन्त्रस्तु ततः ख्यातो ह्यमात्यस्तु ततः परम् ॥
दूतस्ततः क्रमादेते पूर्वश्रेष्ठा यथा गुणाः ॥
मन्त्रानुष्ठानसम्पन्नस्त्रैविद्यः कर्मतत्परः । जितेन्द्रियो जितक्रोधो लोभमोहविवर्जितः ॥
षडङ्गवित् साङ्गधनुर्वेदविच्चार्थधर्म्मवित् । यत् कोपभीत्या राजापि धर्मनीतिरतो भवेत् ॥
नीतिशस्त्रास्त्रव्यूहादिकुशलस्तु पुरोहितः । सैवाचार्य्यः पुरोधा यः शापानुग्रहयोः क्षमः ॥
विना प्रकृतिसन्मन्त्राद्राज्यनाशो भवेद् ध्रुवम् । रोधनं न भवेत् तस्मात् राज्ञस्ते स्युः सुमन्त्रिणः ॥
न बिभेति नृपो येभ्यस्तैः स्यात् किं राज्यवर्द्धनम् ? यथालङ्कारवस्त्राद्यैः स्त्रियो भूष्यास्तथाहि ते ॥
राज्यं प्रजा बलं कोशः सुनृपत्वं न वर्द्धितम् । यन्मन्त्रतोऽरिनाशस्तैर्मन्त्रिभिः किं प्रयोजनम् ॥
कार्याकार्य्यप्रविज्ञाता स्मृतः प्रतिनिधिस्तु सः । सर्वदर्शी प्रधानस्तु सेनावित् सचिवस्तथा ॥
मन्त्री तु नीतिकुशलः पण्डितो धर्मतत्त्ववित् । लोकशास्त्रनयज्ञस्तु प्राड्विवाकः स्मृतः सदा ॥
देशकालप्रविज्ञाता हामात्य इति कथ्यते । आयव्ययप्रविज्ञाता सुमन्त्रः स च कीर्त्तितः ॥
इङ्गिताकारचेष्टाज्ञः स्मृतिमान् देशकालवित् । षाड्गुण्यमन्त्रविद्वाग्मी वीतभीर्दूत इष्यते ॥
अहितञ्चापि यत्कार्य्य सद्यः कर्तुं यदोचितम् । प्रतिनिधिः सदा। अकर्तुं यद्धितमपि राज्ञः बोधयेत् कारयेत् कुर्य्यान्न कुर्यान्न प्रबोधयेत् ॥
सत्यं वा यदि वासत्यं कार्य्यजातञ्च यत् किल । सर्वेषां राजकृत्येषु प्रधानस्तद्विचिन्तयेत् ॥
गजानाञ्च तथाश्वानां रथानां पदगामिनाम् । सुदृद्धानां तथोष्ट्राणां वृषाणां सद्य एव हि ॥
वाद्यभाषासु सङ्केत्तव्यूहाभ्यसनशालिनाम् । प्राक्प्रत्यग्गामिनां राज्यचिह्नशस्त्रास्त्रधारिणाम् ॥
परिचारगणानां हीनमध्योत्तमकर्मणाम् । अस्त्राणामखजातीनां सङ्घः स्वतुरगीगणः ॥
कार्यक्षमश्च प्राचीनः साद्यस्कः कति विद्यते । कार्यासमर्थः कत्यस्ति शस्त्रगोलाग्निचूर्णयुक् ॥
साङ्ग्रामिकश्च कत्यस्ति सम्भारस्तान् विचिन्त्य च। सचिवश्चापि तत्कार्यं राज्ञे सम्यक् निवेदयेत् ॥
साम दानञ्च भेदश्च दण्डः केषु कदा कथम् । कर्त्तव्यः किं फलं तेभ्यो बहु मध्यं तथाल्यकम् । एतत् सञ्चिन्त्य निश्चित्य मन्त्री सर्वं निवेदयेत् ॥
साक्षिभिर्लिखितैर्भोगैश्छलैर्भूतैश्च मानुषान् । स्वेनोत्पादितसम्प्राप्तव्यवहारान् विचिन्त्य च ॥
दिव्यसंसाधनाद्वापि केषु किं साधनं परम्। युक्तिप्रत्यक्षानुमानोपमानैलोंकशास्त्रतः ॥
बहुसम्मतसंसिद्धान् विनिश्चित्य सभास्थितः । ससभ्यः प्राड्विवाकस्तु नृपं सम्बोधयेत् सदा ॥
वर्तमानाश्च प्राचीना धर्माः के लोकसंश्रिताः । शास्त्रेषु के समुद्दिष्टा विरुध्यन्ते च केऽधुना ॥
लोकशास्त्रविरुद्धाः के पण्डितस्तान् विचिन्त्य च। नृपं सम्बोधयेत् तैश्च परत्रेह सुखप्रदैः ॥
इयच्च सञ्चितं द्रव्यं वत्सरेऽस्मिन् तृणादिकम् । व्ययीभूतमियच्चैव शेषं स्थावरजङ्गमम् । इयदस्तीति वै राज्ञे सुमन्त्रो विनिवेदयेत् ॥
पुराणि च कति ग्रामा अरण्यानिच सन्ति हि। कर्षिता कति भूः केन प्राप्तो भागस्ततः कति ॥
भागशेषं स्थितं कस्मिन् कत्यकृष्टा च भूमिका। भागद्रव्यं वत्सरेऽस्मिन् शुल्कदण्डादिजं कति ॥
अकृष्टपच्यं कति च कति चारण्यसम्भवम् । कति चाकरसञ्जातं निधिप्राप्तं कतीति च ॥
अस्वामिकं कति प्राप्तं नाष्टिकं तस्कराहतम् । सञ्चितन्तु विनिश्वित्यामात्यो राज्ञे निवेदयेत् ॥
समासाल्लक्षणं कृत्यं प्रधानदशकस्य च। उक्तं तल्लिखतैः सर्व विन्द्यात् तदनुदर्शिभिः ॥
परिवर्त्ता नृपो होतान् युज्यादन्योऽन्यकर्मणि ॥
न कुर्य्यात् स्वाधिकबलान् कदापि ह्यधिकारिणः । परस्परं समबलाः कार्याः प्रकृतयो दश ॥
एकस्मिन्नधिकारे तु पुरुषाणां त्रयं सदा। नियुञ्जीत प्राज्ञतमं मुख्यमेकन्तु तेषु वै ॥
द्वौ दर्शकौ तु तत्कार्ये हायनैस्तन्निवर्त्तयेत् । त्रिभिर्वा पञ्चभिर्वापि सप्तभिर्दशभिश्च वा ॥
दृष्ट्वा तत्कार्यकौशल्ये तथा तौ परिवर्त्तयेत् । नाधिकारं चिरं दद्याद्यस्मै कस्मै सदा नृपः ॥
अधिकारे क्षमं दृष्ट्वा ह्यधिकारे नियोजयेत् । अधिकारमदं पीत्वा को न मुह्येत् पुनश्चिरम् ? ॥
अतः कार्य्यक्षमं दृष्ट्वा काव्येंऽन्ये तं नियोजयेत् । तत्कायें कुशलं चान्यं तत्पदानुगतं खलु ॥
नियोजयेद्वत्र्त्तने तु तदभावे तथापरम् । तद्गुणो यदि तत्पुत्रस्तत्कार्ये तं नियोजयेत् ॥
यथा यथा श्रेष्ठपदे हाधिकारी यदा भवेत् । अनुक्रमेण संयोज्यो हह्यन्ते तं प्रकृतिं नयेत् ॥
अधिकारबलं दृष्ट्वा योजयेद्दर्शकान् बहून् । अधिकारिणमेकं वा योजयेद्दर्शकैर्विना ॥
ये चान्ये कर्मसचिवास्तान् सर्वान् विनियोजयेत् । गजाश्वरथपादातपशूष्ट्रमृगपक्षिणाम् ॥
सुवर्णरत्नरजतवस्त्राणामधिपान् पृथक् । वित्तानामधिपं धान्याधिपं कपाकाधिपं तथा ॥
आरामाधिपतिञ्चैव सौधगेहाधिपं पृथक् । सम्भारपं देवतुष्टिपतिं सदा ॥
साहसाधिपतिञ्चैव ग्रामनेतारमेव च। भागहारं तृतीयन्तु लेखकञ्च चतुर्थकम् । शुल्कग्राहं पञ्चमञ्च प्रतिहारं तथैव च ॥
षट्कमेतन्नियोक्तव्यं ग्रामे ग्रामे पुरे पुरे ॥
तपस्विनो दानशीलाः श्रुतिस्मृतिविशारदाः । पौराणिकाः शास्त्रविदो दैवज्ञा मान्त्रिकाश्च ये ॥
आयुर्वेदविदः कर्मकाण्डज्ञास्तान्त्रिकाश्च ये। ये चान्ये गुणिनः श्रेष्ठा बुद्धिमन्तो जितेन्द्रियाः ॥
तान् सर्वान् पोषयेद् भृत्या दानैर्मानैः सुपूजितान् । हीयते चान्यथा राजा ह्यकीर्त्ति वापि वदन्ति ॥
बहुसाध्यानि कार्याणि तेषामप्यधिपांस्तथा । तत्तत्कार्येषु कुशलान् ज्ञात्वा तांस्तु नियोजयेत् ॥
अमत्र्यमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ॥
प्रभद्रादिजातिभेदं गजानाञ्च चिकित्सितम् । शिक्षां व्याधिं पोषणन्च तालुजिह्वानखैर्गुणान् । आरोहणं गतिं वेत्ति स योज्यो गजरक्षणे ॥
तथाविधाधोरणस्तु हस्तिहृदयहारकः ॥
अश्वानां हृदयं वेत्ति जातिवर्णभ्रमैर्गुणान् । गर्ति शिक्षां चिकित्साञ्च सत्त्वं सारं रुजं तथा ॥
हिताहितं पोषणञ्च मानं यानं दतो वयः । शूख्ठ व्यूहवित् प्राज्ञः कार्योऽश्वाधिपतिश्च सः ॥
एभिर्गुणैश्च संयुक्तो धुर्य्यान् युग्यांश्च वेत्ति यः । रथस्य सारं गमनं भ्रमणं परिवर्तनम् ॥
समापतत्सुशस्त्रास्खलक्ष्यसन्धाननाशकः । रथगत्या स रथपो हयसंयोगगुप्तिवित् ॥
सादिनश्व तथा कार्य्याः शूरा व्यूहविशारदाः । वाजिगतिविदः प्राज्ञाः शस्त्रास्त्रैर्युद्धकोविदाः ॥
चक्रितं रेचितं वल्गितकं धौरितमाप्लुतम् । तुरं मन्दञ्च कुटिलं सर्पणं परिवर्तनम् ॥
एकादशास्कन्दितञ्च गतीरश्वस्य वेत्ति यः । यथावलं यथार्थञ्च शिक्षयेत् स च शिक्षकः ॥
वाजिसेवासु कुशलः पल्याणादिनियोगवित् । दृढाङ्गश्च तथा शूरः स कायों वाजिसेवकः ॥
नीतिशस्त्रास्त्रव्यूहादिनतिविद्याविशारदाः । अबाला मध्यवयसः शूरा दान्ता दृढाङ्गकाः ॥
स्वधर्मनिरता नित्यं स्वामिभक्ता रिपुह्वषः । शूद्रा वा क्षत्रिया वैश्या म्लेच्छा सङ्करसम्भवाः ॥
सेनाधिपाः सैनिकाच कार्य्या राज्ञाः जयर्थिना ॥

पञ्चानामथवा षण्णामधिपः पदगामिनाम् । योज्यः स पत्तिपालः स्यात् त्रिंशतां गौल्मिकः स्मृतः ॥
शतानान्तु शतानीकस्तथानुशतिको वरः । सेनानीलेंखकश्चैते शतं प्रत्यधिपा इमे ॥
साहस्त्रिकस्तु संयोज्यस्तथा चायुतिको महान् ॥
व्यूहाभ्यासं शिक्षयेद्यः सायं प्रातश्च सैनिकान् । जानाति स शतानीकः सुयोद्धं युद्धभूमिकाम् ॥
तथाविधोऽनुशातिकः शतानीकस्य साधकः । जानाति युद्धसम्भारं कार्ययोग्यञ्च सैनिकम् ॥
निदेशयति कार्याणि सेनानीर्यामिकांश्च सः। परिवृत्तिं यामिकानां करोति स च पत्तिपः ॥
स्वावधानं यामिकानां विजानीयाच्च गुल्मपः ॥
सैनिकाः कति सन्त्येतैः कति प्राप्तन्तु वेतनम् । प्राचीनाः के कुत्र गताश्चैतान् वेत्ति स लेखकः । गजाश्वानां विंशतेश्चाधिपो नायकसंज्ञकः ॥
उक्तसंज्ञान् स्वस्वचिद्वैर्लान्छितांश्च नियोजयेत् ॥
अजाविगोमहिष्येण मृगाणामधिपाश्रच ये। तद्वद्धिपुष्टिकुशलास्तद्वात्सल्यनिपीडिताः । तथाविधा गजोष्ट्रादेर्योज्यास्तत् सेवका अपि ॥
युद्धप्रवृत्तिकुशलास्तित्तिरादेश्च पोषकाः । शुकादेः पाठकाः सम्यक् श्येनादेः पातबोधकाः । तत्तद् हृदयविज्ञानकुशलाश्च सदा हि ते ॥
मानाकृतिप्रभावर्णजातिसाम्याच्च मौल्यवित् । रत्नानां स्वर्णरजतमुद्राणामधिपश्च सः ॥
दान्तस्तु सधनो यस्तु व्यवहारविशारदः । धनप्राणोऽतिकृपणः कोशाध्यक्षः स एव हि ॥
देशभेदैर्जातिभेदैः स्थूलसूक्ष्मबलाबलैः । कौशेयादेर्मानमूल्यवेत्ता वस्त्रस्य वस्त्रपः ॥
कुटीकञ्झुकनेपथ्यमण्डपादेः परिक्रियाम् । प्रमाणतः सौचिकेन रञ्जनानि च वेत्ति यः ॥
तथा शय्यादिसन्धानं वितानादेर्नियोजनम् । वस्त्रादीनाञ्च स प्रोक्तो वितानाद्यधिपः खलु ॥
जाति तुलाञ्च मौल्यञ्च सारं भोगं परिग्रहम् । सम्मार्जनञ्च धान्यानां विजानाति स धान्यपः ॥
धौताघौतविपाकज्ञो रससंयोगभेदवित् । क्रियासु कुशलो द्रव्यगुणवित् पाकनायकः ॥
फलपुष्पवृ‌द्धिहेतु रोपणं शोधनं तथा। पादपानां यथाकालं कर्तुं भूमिजलादिना। तद्धेषजञ्च संवेत्ति ह्यारामाधिपतिश्रच सः ॥
प्रासादं परिखां दुर्गं प्राकारं प्रतिमां तथा। यन्त्राणि सेतुबन्धञ्च वापीं कूपं तडागकम् ॥
तथा पुष्करिणीं कुण्डं जलाद्यूर्ध्वगतिक्रियाम् । सुशिल्पशास्त्रतः सम्यक् सुरम्यन्तु यथा भवेत् ॥
कर्तुं जानाति यः सैव गृहाद्यधिपतिः स्मृतः ॥
राजकाय्र्योपयोग्यान् हि पदार्थान् वेत्ति तत्त्वतः । सन्चिनोति यथाकाले सम्भाराधिप उच्यते ॥
स्वधर्माचरणे दक्षो देवताराधने रतः । निष्पृहः स च कर्त्तव्यो देवतुष्टिपतिः सदा ॥
याचकं विमुखं नैव करोति न च सङ्ग्रहम् । दानशीलश्च निर्लोभो गुणज्ञश्च निरालसः ॥
दयालुमृदुवाक् दानपात्रविन्नतितत्परः । नित्यमेभिर्गुणैर्युक्तो दानाध्यक्षः प्रकीर्त्तितः ॥
व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः । रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥
निरालसा जितक्रोधकामलोभाः प्रियंवदाः । सभ्याः सभासदः कार्या वृद्धाः सर्वासु जातिषु ॥
सर्वभूतात्मतुल्यो यो निष्पृहोऽतिथिपूजकः । दानशीलश्च यो नित्यं सैव सत्राधिपः स्मृतः ॥
परोपकारनिरतः परमर्माप्रकाशकः । निर्मत्सरो गुणग्राही तद्विद्यः स्यात् परीक्षकः ॥
प्रजा नष्टा न हि भवेत् तथा दण्डविधायकः । नातिक्रूरो नातिमृदुः साहसाधिपतिश्च सः ॥
आधर्षकेभ्यश्चोरेभ्यो ह्यधिकारिगणात् तथा। प्रजासंरक्षणे दक्षो ग्रामपो मातृपितृवत् ॥
वृक्षान् सम्पुष्य यत्लेन फलं पुष्पं विचिन्वति। मालाकार इवात्यन्तं भागहारस्तथाविधः ॥
गणनाकुशलो यस्तु देशभाषाप्रभेदवित् । असन्दिग्धमगूढार्थं विलिखेत् स च लेखकः ॥
शस्त्रास्त्रकुशलो यस्तु दृढाङ्गश्च निरालसः । यथायोग्यं समाहूयात् प्रणम्रः प्रतिहारकः ॥
यथा विक्रयिणां मूलधननाशो भवेन्न हि। तथा शुल्कन्तु हरति शौल्किकः स उदाहृतः ॥
जपोपवासनियमकर्मध्यानरतः सदा । दान्तः क्षमी निष्पृहश्च तपोनिष्ठः स उच्यते ॥
याचकेभ्यो ददात्यर्थं भार्य्यापुत्रादिकं त्वपि। न सङ्गृह्णाति यत्किञ्चिद्दानशीलः स उच्यते ॥
पठनं पाठनं कर्तुं क्षमास्त्वभ्यासशालिनः । श्रुतिस्मृतिपुराणानां श्रुतज्ञास्ते प्रकीर्त्तिताः ॥
साहित्यशास्त्रनिपुणः सङ्गीतज्ञश्च सुस्वरः । सर्गादिपञ्चकज्ञाता स वै पौराणिकः स्मृतः ॥
मीमांसातर्कवेदान्तशब्दशासनतत्परः । ऊहवान् बोधितुं शक्तस्तत्त्वतः शास्त्रविच्च सः ॥
संहिताञ्च तथा होरां गणितं वेत्ति तत्त्वतः । ज्योतिर्विच्च स विज्ञेयो त्रिकालज्ञश्च यो भवेत् ॥
बीजानुपूर्व्य मन्त्राणां गुणान् दोषांश्च वेत्ति यः । मन्त्रानुष्ठानसम्पन्नो मान्त्रिकः सिद्धदैवतः ॥
हेतुलिङ्गौषधीभिर्यो व्याधीनां तत्त्वनिश्चयम्। साध्यासाध्यं विदित्वोपक्रमते स भिषक् स्मृतः ॥
श्रुतिस्मृतीतरैर्मन्त्रानुष्ठानैर्देवतार्चनम्॥ कर्तुं हिततमं मत्वा यतते स च तान्त्रिकः ॥
नपुंसकाः सत्यवाचः सुभूषाश्च प्रियंवदाः । सुकुलाश्च सुरूपाश्च योज्यास्त्वन्तः पुरे सदा ॥
अनन्याः स्वामिभक्ताश्च धर्मनिष्ठा दृढाङ्गकाः । अबाला मध्यवयसः सेवासु कुशलाः सदा ॥
सर्वं यद्यत् कार्य्यजातं नीचं वा कर्तुमुद्यताः । निदेशकारिणो राज्ञा कर्त्तव्या परिचारकाः ॥
शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये । ते गूढचाराः कर्त्तव्या यथार्थश्रुतबोधकाः ॥
राज्ञः समीपप्राप्तानां नतिस्थानविबोधकाः । दण्डधरा वेत्रधराः कर्त्तव्यास्ते सुशिक्षकाः ॥
तन्त्रीकण्ठोत्थितान् सप्त स्वरान् स्थानविभागतः । उत्पादयति संवेत्ति ससंयोगविभागिनः ॥
अनुरागं सुस्वरञ्च सतालञ्च प्रगायति । सनृत्यं वा गायकानामधिपः स च कीर्त्तितः ॥
तथाविधा च पण्यस्त्री निर्लज्जा भावसंयुता । शृङ्गाररसतत्त्वज्ञा सुन्दराङ्गी मनोरमा । नवीनोत्तुङ्गकठिनकुचा सुस्मितदर्शिनी ॥
ये चान्ये साधकास्ते च तथा चित्तविरञ्जकाः सुभृत्यास्तेऽपि सन्धार्या नृपेणात्महिताय च ॥
वैतालिकाः सुकवयो वेत्रदण्डधराश्च ये। शिल्पज्ञाश्च कलावन्तो ये सदाप्युपकारकाः ॥
दुर्गुणासूचका भाणा नर्त्तका बहुरूपिणः । आरामकृत्रिमवनकारिणो दुर्गकारिणः ॥
महानालिकयन्त्रस्थगोलैर्लक्ष्यविभेदिनः । लघुयन्त्राग्नेयचूर्णबाणगोलासिकारिणः ॥
अनेकयन्त्रशस्त्रास्त्रधनुस्तूणादिकारकाः । स्वर्णरत्नाद्यलङ्कारघटका रथकारिणः ॥
पाषाणघटका लोहकारा धातुविलेपकाः । कुम्भकाराः शौल्विकाश्वं तक्षाणो मार्गकारकाः ॥
नापिता रजकाश्चैव वासिका मलहारकाः । वार्ताहराः सौचिकाश्व राजचिह्नाग्रधारिणः ॥
भेरीपटहगोपुच्छशङ्खवेण्वादिनिःस्वनैः । ये व्यूहरचका यानव्यपयानादिबोधकाः ॥
नाविकाः खनका व्याधाः किराता भारिका अपि। शस्त्रसम्मार्जनकरा जलधान्यप्रवाहकाः ॥
आपणिकाश्च गणिका वाद्यजायाप्रजीविनः । तन्तुवायाः शाकुनिकाश्चित्रकाराश्च चर्मकाः ॥
गृहसम्मार्जकाः पात्रधान्यवस्वप्रमार्जकाः । शय्यावितानास्तरणकारकाः शासका अपि ॥
आमोदास्वेदसद्धपकारास्ताम्बूलिकास्तथा । हीनाल्पकर्मिणश्चैते योज्याः कार्यानुरूपतः ॥
प्रोक्तं पुण्यतमं सत्यं परोपकरणं तथा। आज्ञायुक्तांश्च भृतकान् सततं धारयेन्नृपः ॥
हिंसा गरीयसी सर्वपापेभ्योऽनृतभाषणम् । गरीयस्तरमेताभ्यां युक्तान् भृत्यान् न धारयेत् ॥
यदा यदुचितं कर्तुं वक्तुं वा तत् प्रबोधयन् । तद्वक्ति कुरुते द्राक् तु स सद्भूत्यः सुपूज्यते ॥
उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च। कृत्वोत्सर्गन्तु विष्णु हि स्मृत्वा स्नायादनन्तरम् ॥
प्रातः कृत्यन्तु निर्वत्र्य यावत् सार्द्धमुहूर्तकम् । गत्वा स्वकार्य्यशालां वा कार्याकार्यं विचिन्त्य च ॥

विनाज्ञया विशन्तन्तु द्वास्र्थः सम्य‌ङ्निरोधयेत् । निदेशकार्यं विज्ञाप्य तेनाज्ञप्तः प्रमोचयेत् ॥
दृष्ट्वागतान् सभामध्ये राज्ञे दण्डधरः क्रमात् । निवेद्य तन्नतीः पश्चात् तेषां स्थानानि सूचयेत् ॥
ततो राजगृहं गत्वाज्ञप्तो गच्छेच्च सन्निधिम् । नत्वा नृपं यथान्यायं विष्णुरूपमिवापरम् ॥
प्रविश्य सानुरागस्य चित्तज्ञश्च समन्ततः । भर्तुरर्द्धासने दृष्टि कृत्वा नान्यत्र निक्षिपेत् ॥
अग्नि दीप्तमिवासीदेद् राजानमुपशिक्षितः । आशीविषमिव कुद्धं प्रभुं प्राणधनेश्वरम् ॥
यत्नेनोपचरेन्नित्यं नाहमस्मीति चिन्तयेत् । समर्थयन् च तत् पक्षं साधु भाषेत भाषितम्। तन्नियोगेन वा ब्रूयादर्थं सुपरिनिश्चितम् ॥
सुखप्रबन्धगोष्ठीषु विवादे वादिनां मतम् । विजानन्नपि नो ब्रूयाद्भर्तुः क्षिप्त्वोत्तरं वचः ॥
सदानुद्धतवेशः स्यान्नृपाहूतस्तु प्राञ्जलिः । तद्गां कृतनतिः श्रुत्वा वस्त्रान्तरितसम्मुखः ॥
तदाज्ञां धारयित्वादौ स्वकर्माणि निवेदयेत् । नत्वाऽऽसीताऽऽसने प्रह्वो न तत्पार्श्वे न सम्मुखे ॥
उच्चैः प्रहसनं कासं ष्ठीवनं कुत्सनं तथा। जृम्भणं गात्रभङ्गञ्च पर्वास्फोटञ्च वर्जयेत् ॥
राज्ञादिष्टन्तु यत् स्थानं तत्र तिष्ठेन्युदान्वितः । प्रवीणोचितमेधावी वर्जयेदभिमानताम् ॥
आपद्युन्मार्गगमने कार्य्यकालात्ययेषु च। अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥
प्रियं तथ्यञ्च पथ्यञ्च वदेद्धर्मार्थकं वचः । समानवार्तया चापि तद्धितं बोधयेत् सदा ॥
वदेन्नीतिफलं तथा । कीर्त्तिमन्यनृपाणां वा दाता त्वं धार्मिकः शूरो नीतिमानसि भूपते ! ॥
अनीतिस्ते तु मनसि वर्त्तते न कदाचन। ये ये भ्रष्टा अनीत्या तान् तदने कीर्त्तयेत् सदा ॥
नृपेभ्यो ह्यधिकोऽसीति सर्वेभ्यो न विशेषयेत् । परार्थं देशकालज्ञो देशे काले च साधयेत् ॥
परार्थनाशनं न स्यात् तथा ब्रूयात् सदैव हि। न कर्षयेत् प्रजाकार्य्यमिषतश्च नृपं सदा ॥
अपि स्थाणुवदासीत शुष्यन् परिगतः क्षुधा। न त्वेवानर्थसम्पन्नां वृत्तिमीहेत पण्डितः ॥
यत्काय्यें यो नियुक्तः स भूयात् तत्कार्य्यतत्परः । नान्याधिकारमन्विच्छेन्नाभ्यसूयेच्च केनचित् ॥
न न्यूनं लक्षयेत् कस्य पूरयीत स्वशक्तितः । परोपकरणादन्यन्न स्यान्मित्रकरं सदा ॥
करिष्यामीति ते कार्यं न कुर्य्यात् कार्य्यलम्बनम्। द्राक् कुर्य्यात् तु समर्थश्चेत् साशं दीर्घ न रक्षयेत् ॥
गुह्यं कर्म च मन्त्रञ्च न भर्तुः सम्प्रकाशयेत् । विद्वेषञ्च विनाशञ्च मनसापि न चिन्तयेत् ॥
राजा परममित्रोऽस्ति न कामं विचरेदिति । स्त्रीभिस्तदर्थिभिः पापैर्वैरिभूतैर्निराकृतैः ॥
एकार्थचर्य्या साहित्यं संसर्गञ्च विवर्जयेत्। वेशभाषानुकरणं न कुर्य्यात् पृथिवीपतेः ॥
सम्पन्नोऽपि च मेधावी न स्पर्धेत च तद्गुणैः । रागापरागौ जानीयाद्भर्तुः कुशलकर्मवित् । इङ्गिताकारचेष्टाभ्यस्तदभिप्रायतां तथा ॥
त्यजेद्विरक्तं नृपतिं रक्ते वृत्तिन्तु कारयेत् ॥
विरक्तः कारयेन्नाशं विपक्षाभ्युदयं तथा ॥
आशावर्द्धनकं कृत्वा फलनाशं करोति च। अकोपोऽपि सकोपाभः प्रसन्नोऽपि च निष्फलः । वाक्यञ्च समदं वक्ति वृत्तिच्छेदं करोति च ॥
लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तने कृते । दृष्टि क्षिपत्यथान्यत्र क्रियमाणे च कर्मणि ॥
विरक्तलक्षणं ह्येतद्रक्तस्य लक्षणं ब्रुवे ॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात्। कुशलादिपरिप्रश्नी प्रदापयति चासनम् ॥
विविक्तदर्शनं चास्य रहस्येनं न शङ्कते। ज्ञायेत हृष्टवदनः श्रुत्वा तस्य च तत्कथाम् ॥
अप्रियाण्यपि चान्यानि तद्युक्तान्यभिमन्यते । उपायनञ्च गृह्णाति स्तोकसम्पादनैस्तथा । कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ॥
इति रक्तस्य वै लक्ष्यं कर्त्तव्यं तस्य सेवनम् ॥
तद्दत्तवस्त्रभूषादिचिह्न सन्धारयेत् सदा । न्यूनाधिक्यं स्वाधिकारकायें नित्यं निवेदयेत् । तदर्थां तत्कृतां वार्ता शृणुयाद्वापि कीर्त्तयेत् ॥
चारसूचकदोषेण त्वन्यथा यद्वदेन्नृपः । शृणुयान्मौनमाश्रित्य तथ्यवन्नानुमोदयेत् ॥
आपद्गतं सुभर्त्तारं कदापि न परित्यजेत् ॥
एकवारमप्यशितं यस्यान्नं ह्यादरेण च। तदिष्टं चिन्तयेन्नित्यं पालकस्याञ्जसा न किम् ? ॥
अप्रधानः प्रधानः स्यात् काले चात्यन्तसेवनात् । प्रधानोऽप्यप्रधानः स्यात् सेवालस्यादिना यतः ॥
नित्यं संसेवनरतो भृत्यो राज्ञः प्रियो भवेत् । स्वस्वाधिकारकार्यं यद्वाक् कुर्य्यात् सुमना यतः ॥
न कुर्य्यात् सहसा कार्य्य नीचं राजापि नो दिशेत् । तत्कार्य्यकारकाभावे राज्ञः कार्यं सदैव हि ॥
काले यदुचितं कर्तुं नीचमप्युत्तमोऽर्हति । यस्मिन् प्रीतो भवेद्राजा तदनिष्टं न चिन्तयेत् ॥
न दर्शयेत् स्वाधिकारगौरवन्तु कदाचन ॥
परस्परं नाभ्यसूयुर्न भेदं प्राप्नुयुः कदा । राज्ञा चाधिकृताः सन्तो स्वस्वाधिकारगुप्तये ॥
अधिकारिगणो राजा सवृत्तौ यत्र तिष्ठतः । उभौ तत्र स्थिरा लक्ष्मीर्विपुला सम्मुखी भवेत् ॥
अन्याधिकारवृत्तन्तु न ब्रूयाच्छ्रतमप्युत । राजा न श्रणुयादन्यमुखतस्तु कदाचन ॥
न बोधयन्ति च हितमहितं चाधिकारिणः। प्रच्छन्नवैरिणस्ते तु दास्यरूपमुपाश्रिताः ॥
हिताहितं न शृणोति राजा मन्त्रिमुखाच्च यः । स दस्यू राजरूपेण प्रजानां धनहारकः ॥
सुपृष्टव्यवहारा ये राजपुत्रैश्च मन्त्रिणः । विरुध्यन्ति च तैः साकं ते तु प्रच्छन्नतस्कराः ॥
बाला हृह्यपि राजपुत्रा नावमान्यास्तु मन्त्रिभिः । सदा सुबहुवचनैः सम्बोध्यास्ते प्रयत्नतः ॥
असदाचरितं तेषां क्वचिद्राज्ञे न दर्शयेत् । स्त्रीपुत्रमोहो बलवान् न निन्दा श्रेयसे तयोः ॥
राज्ञोऽवश्यतरं कार्यं प्राणसंशयितञ्च यत् । आज्ञापयाग्रतश्चाहं करिष्ये तत्तु निश्चितम् । इति विज्ञाप्य द्राक् कर्तुं प्रयतेत स्वशक्तितः ॥
प्राणानपि च सन्दद्यान्महत्कार्ये नृपाय च । भृत्यः कुटुम्बपुष्ट्यर्थं नान्यथा तु कदाचन ॥
भृत्या धनहराः सर्वे युक्त्या प्राणहरो नृपः ॥
युद्धादौ सुमहत्कायें भृत्या प्राणान् हरेन्नृपः। नान्यथा भृतिरूपेण भृत्यो राजधनं हरेत् ॥
अन्यथा हरतस्तौ तु भवतश्च स्वनाशकौ ॥
राजानु युवराजस्तु मान्योऽमात्यादिकैः सदा । तन्यूनामात्यनवकं तन्न्यूनाधिकृतो गणः । मन्त्रितुल्यश्चायुतिको न्यूनः साहस्रिको मतः ॥
न क्रीडयेद्राजसमं क्रीडिते तं विशेषयेत् । नावमान्या राजपत्नी कन्या हापि च मन्त्रिभिः ॥
राजसम्बन्धिनः पूज्याः सुहृदश्च यथार्हतः । नृपाहूतस्तुरं गच्छेत् त्यक्त्वा कार्य्यशतं महत् ॥
मित्रायापि न वक्तव्यं राजकार्यं सुमन्त्रितम् । भृतिं विना राजद्रव्यमदत्तं नाभिलाषयेत् ॥
राजाज्ञया विना नेच्छेत् कार्य्यमाध्यस्थिक्रीं भृतिम् । न निहन्याद् द्रव्यलोभात् सत्कार्यं यस्य कस्यचित् ॥
स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम् । उत्कोचं नैव गृह्णीयान्नान्यथा बोधयेन्नृपम् ॥
अन्यथा दण्डकं भूपं नित्यं प्रबलदण्डकम् । निगृह्य बोधयेत् सम्यगेकान्ते राज्यगुप्तये ॥
हितं राज्ञश्चाहितं यल्लोकानां तन्न कारयेत् । नवीनकरशुल्काद्यैलोंक उद्विजते ततः ॥
गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः । नृपो यदि भवेत् तन्तु त्यजेद्राष्ट्रविनाशकम् ॥
तत्पदे तस्य कुलजं गुणयुक्तं पुरोहितः । प्रकृत्यनुमतिं कृत्वा स्थापयेद्राज्यगुप्तये ॥
सास्त्रो दूरं नृपात् तिष्ठेदस्त्रपाताद् बहिः सदा। सशस्त्रो दशहस्तन्तु यथादिष्टं नृपप्रियाः ॥
पञ्चहस्तं वसेयुर्वै मन्त्रिणो लेखकाः सदा। सेनपैस्तु विना नैव सशस्त्रास्त्रो विशेत् सभाम् ॥

पुरोहितः श्रेष्ठतरः श्रेष्ठः सेनापतिः स्मृतः । समः सुहच्च सम्बन्धी ह्युत्तमा मन्त्रिणः स्मृताः ॥
अधिकारिगणो मध्योऽधमौ दर्शकलेखकौ । ज्ञेयोऽधमतमौ भृत्यः परिचारगणः सदा । परिचारगणान्न्यूनो विज्ञेयो नीचसाधकः ॥
पुरोगमनमुत्यानं स्वासने सन्निवेशनम् । कुर्य्यात् स कुशलप्रश्नं क्रमात् सुस्मितदर्शनम् ॥
राजापुरोहितादीनां त्वन्येषां स्नेहदर्शनम् । अधिकारिगणादीनां सभास्थश्च निरालसः ॥
विद्यावत्सु शरच्चन्द्रो निदाघाकों द्विषत्सु च। प्रजासु च वसन्तार्क इव स्यात् त्रिविधो नृपः ॥
यदि ब्राह्मणभिन्नेषु मृदुत्वं धारयेन्नृपः । परिभवन्ति तं नीचा यथा हस्तिपका गजम् ॥
भृत्याद्यौर्यन्न कर्त्तव्याः परिहासाश्च क्रीडनम्। अपमानास्पदे ते तु राज्ञो नित्यं भयावहे ॥
पृथक् पृथग् व्यापयन्ति स्वार्थसिद्धयै नृपाय ते। स्वाकार्य्य गुणवत् कृत्वा सर्वे स्वार्थपरा यतः ॥
विकल्पन्तेऽवमन्यन्ति लङ्घयन्ति च तद्वचः । राजभोज्यानि भुञ्जन्ति न तिष्ठन्ति स्वके पदे ॥
विस्त्रंसयन्ति तन्मन्त्रं विवृण्वन्ति च दुष्कृतम् । भवन्ति नृपवेशा हि वञ्चयन्ति नृपं सदा ॥
तत् स्त्रियं सज्जयन्ति स्म राज्ञि कुद्धे हसन्ति च। व्याहरन्ति च निर्लज्जा हेलयन्ति नृपं क्षणात् ॥
आज्ञामुल्लङ्घयन्ति स्म न भयं यान्त्यकर्म्मणि। एते दोषाः परीहासक्षमाक्रीडोद्भवा नृपे ॥
न कार्यं भृतकः कुर्य्यान्नृपलेखाद्विना क्वचित् । नाज्ञापयेल्लेखनेन विनाल्पं वा महन्नृपः ॥
भ्रान्तेः पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम्। अलेख्यमाज्ञापयति हह्यलेख्यं यत् करोति यः । राजकृत्यमुभौ चौरौ तौ भृत्यनृपती सदा ॥
नृपसञ्चिह्नितं लेख्यं नृपस्तन्न नृपो नृपः ॥
समुद्रलिखितं राज्ञा लेख्यं तच्चोत्तमोत्तमम् । उत्तमं राजलिखितं मध्यं मन्यादिभिः कृतम् । पौरलेख्यं कनिष्ठं स्यात् सर्वं संसाधनक्षमम् ॥
यस्मिन् यस्मिन् हि कृत्ये तु राज्ञा योऽधिकृतो नरः । सामात्ययुवराजादिर्यथानुक्रमतश्च सः ॥
दैनिकं मासिकं वृत्तं वार्षिकं बहुवार्षिकम् । तत्कार्य्यजातलेख्यन्तु राज्ञे सम्य‌ङ्निवेदयेत् ॥
राजाद्यङ्कितलेख्यस्य धारयेत् स्मृतिपत्रकम् । कालेऽतीते विस्मृतिर्वा भ्रान्तिः सञ्जायते नृणाम् ॥
अनुभूतस्य स्मृत्यर्थं लिखितं निर्मितं पुरा। यत्नाच्च ब्रह्मणा वाचां वर्णस्वरविचिह्नितम् ॥
वृत्तलेख्यं तथा चायव्ययलेख्यमिति द्विधा । व्यवहारक्रियाभेदादुभयं बहुतां गतम् ॥
यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारणकञ्चैव जयपत्रकमुच्यते ॥
सामन्तेष्वथ भृत्येषु राष्ट्रपालादिकेषु यत् । कार्य्यमादिश्यते येन तदाज्ञापत्रमुच्यते ॥
ऋत्विक् पुराहिताचार्य्यमन्येष्वभ्यर्चितेषु च। कार्यं निवेद्यते येन पत्रं प्रज्ञापनाय तत् ॥
सर्वे शृणुत कर्त्तव्यमाज्ञया मम निश्चितम् । स्वहस्तकालसम्पन्नं शासनं पत्रमेव तत् ॥
देशाधिकं यस्य राजा लिखितेन प्रयच्छति। सेवाशौर्य्यादिभिस्तुष्टः प्रसादलिखितं हि तत् ॥
भोगपत्रन्तु करदीकृतं चोपायनीकृतम् । पुरुषावधिकं तत्तु कालावधिकमेव वा ॥
विभक्ता ये च भ्रात्राद्याः स्वरुच्या तु परस्परम् । विभागपत्रं कुर्वन्ति भागलेख्यं तदुच्यते ॥
गृहभूम्यादिकं दत्त्वा पत्रं कुर्य्यात् प्रकाशकम् । अनुच्छेद्यमनाहार्य्यं दानलेख्यं तदुच्यते ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्यप्रमाणयुक् । पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ॥
जङ्गमस्थावरं बन्धं कृत्वा लेख्यं करोति यत् । गोप्यभोग्यक्रियायुक्तं सादिलेख्यं तदुच्यते ॥
ग्रामो देशश्च यत् कुर्य्यात् सत्यलेख्यं परस्परम् । राजाविरोधिधर्मार्थं संवित्पत्रं तदुच्यते ॥
वृद्धयै धनं गृहीत्वा तु कृतं वा कारितञ्च यत्। सुसाक्षिमच्च तत् प्रोक्तमृणलेख्यं मनीषिभिः ॥
अभिशापे समुत्तीर्णे प्रायश्चित्ते कृते बुधैः । दत्तं लेख्यं साक्षिमद्यच्छुद्धिपत्रं तदुच्यते ॥
मेलयित्वा स्वधनांशान् व्यवहाराय साधकाः । कुर्वन्ति लेख्यपत्रं यत् तच्च सामयिकं स्मृतम् ॥
सभ्याधिकारिप्रकृतिसभासद्भिर्न यः कृतः । तत्पत्रं वादिमान्यं चेज्ज्ञेयं सम्मतिसंज्ञकम् ॥
स्वकीयवृत्तज्ञानार्थं लिख्यते यत् परस्परम् । श्रीमङ्गलपदाढ्यं वा सपूर्वोत्तरपक्षकम् ॥
असन्दिग्धमगूढार्थं स्पष्टाक्षरपदं सदा । अन्यव्यावर्त्तकस्वात्मपरपित्रादिनामयुक् ॥
एकद्विबहुवचनैर्यथार्हस्तुतिसंयुतम् । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥
कार्य्यबोधि सुसम्बन्धं नत्याशीर्वादपूर्वकम् । स्वाम्यसेवकसेव्यार्थं क्षेमपत्रं तु तत् स्मृतम् ॥
एभिरेव गुणैर्युक्तं स्वाधर्षकविबोधकम् । भाषापत्रं तु तज्ज्ञेयमथवा वेदनार्थकम् ॥
प्रदर्शितं वृत्तलेख्यं समासाल्लक्षणान्वितम् । समासात् कथ्यते चान्यच्छेषायव्ययबोधकम् ॥
व्याप्यव्यापकभेदैश्च मूल्यमानादिभिः पृथक् । विशिष्टसंज्ञितैस्तद्धि यथार्थैर्बहुभेदयुक् ॥
वत्सरे वत्सरे वापि मासि मासि दिने दिने । हिरण्यपशुधान्यादि स्वाधीनं त्वायसंज्ञकम् । पराधीनं कृतं यत्तु व्ययसंज्ञं धनं च तत् ॥
साद्यस्कश्चैव प्राचीन आयः सञ्चितसंज्ञकः । व्ययो द्विधा चोपभुक्तस्तथा विनिमयात्मकः ॥
निश्चितान्यस्वामिकं चानिश्चितस्वामिकं तथा। स्वस्वत्वनिश्चितं चेति त्रिविधं सञ्चितं मतम् ॥
निश्चितान्यस्वामिकं यद्धनं तु त्रिविधं हि तत्। औपनिध्यं याचितकमौत्तमर्णिकमेव च ॥
विश्रम्भान्निहितं सद्भिर्यदौपनिधिकं हि तत् । अवृद्धिकं गृहीतान्यालङ्कारादि च याचितम् ॥
सवृद्धिकं गृहीतं यदृणं तच्चौत्तमर्णिकम् । निध्यादिकं च मार्गादौ प्राप्तमज्ञातस्वामिकम् ॥
साहजिकं चाधिकं च द्विधा स्वस्वविनिश्वितम् ॥
उत्पद्यते यो नियतो दिने मासि च वत्सरे। आयः साहजिकः सैव दायाद्यश्च स्ववृत्तितः ॥
दायः परिग्रहो यत्तु प्रकृष्टं तत् स्वभावजम् । मौल्याधिक्यं कुसीदञ्च गृहीतं याजनादिभिः ॥
पारितोष्यं भृतिप्राप्तं विजिताद्यं धनञ्च यत् । स्वस्वत्वेऽधिकसंज्ञं तदन्यत् साहजिकं स्मृतम् ॥
पूर्ववत्सरशेषञ्च वर्तमानाब्दसम्भवम् । स्वाधीनं सञ्चितं द्वेधा धनं सर्वं प्रकीर्त्तितम् ॥
द्वेधाधिकं साहजिकं पार्थिवेतरभेदतः । भूमिभागसमुद्भूत आयः पार्थिव उच्यते ॥
स देवकृत्रिमजलैर्देशग्रामपुरैः पृथक् । बहुमध्यात्पफलतो भिद्यते भूविभागतः ॥
शुल्कदण्डाकरकरभाटकोपायनादिभिः । इतरः कीर्त्तितस्तज्ज्ञैरायो लेखविशारदैः ॥
यन्निमित्ततो भवेदायो व्ययस्तन्नामपूर्वकः । व्ययश्चैवं समुद्दिष्टो व्याप्यव्यापकसंयुतः ॥
पुनरावर्त्तकः स्वत्वनिवर्त्तक इति द्विधा। व्ययो यन्निध्युपनिधीकृतो विनिमयीकृतः । सकुसीदाकुसीदाधमर्णिकश्चावृतः स्मृतः ॥
निधिर्भूमौ विनिहितोऽन्यस्मिन्नुपनिधिः स्थितः । दत्तमूल्यादिसम्प्राप्तः सैव विनिमयीकृतः ॥
वृद्धावृद्धया च यो दत्तः स वै स्यादाधमर्णिकः । सवृद्धिकमृर्ण दत्तमकुसीदं तु याचितम् ॥
स्वत्वनिर्वर्त्तको द्वेधा त्वैहिकः पारलौकिकः ॥
प्रतिदानं पारितोष्यं वेतनं भोग्यमैहिकः । चतुर्विधस्तथा पारलौकिकोऽनन्तभेदभाक् ॥
शेषं संयोजयेन्नित्यं पुनरावर्त्तको व्ययः । मूल्यत्वेन च यद् दत्तं प्रतिदानं स्मृतं हि तत् ॥
सेवाशौर्य्यादिसन्तुष्टैर्दत्तं तत् पारितोषिकम् । भृतिरूपेण सन्दत्तं वेतनं तत् प्रकीर्त्तितम् ॥
धान्यवस्त्रगृहारामगोगजादिरथार्थकम् । विद्याराज्याद्यर्जनार्थं धनाद्यर्थं तथैव च । व्ययीकृतं रक्षणार्थमुपभोग्यं तदुच्यते ॥
सुवर्णरत्नरजतनिष्कशालास्तथैव च। रथाश्वगोगजोष्ट्राजावीनशालाः पृथक् पृथक् ॥

वाद्यशखास्ववस्त्राणां धान्यसम्भारयोस्तथा । मन्त्रिशिल्पनाट्यवैद्यमृगाणां पाकपक्षिणाम् । शाला भोग्ये निविष्टास्तु तद्व्ययो भोग्य उच्यते ॥
जपहोमार्चनैर्दानैश्चतुर्धा पारलौकिकः । पुनर्याती निवृत्तश्च विशेषायव्ययौ च तौ। आवर्त्तको निवर्ती च व्ययायौ तु पृथग् द्विया ॥
आवर्त्तकविहीनौ तु व्ययायौ लेखको लिखेत् ॥
क्रयाधमर्णघटनान्यस्थलाप्तो विवर्त्तकः । द्रव्यं लिखित्वा दद्यात्तु गृहीत्वा विलिखेत् स्वयम् ॥
हीयते वर्द्धते नैवमायव्ययविलेखकः ॥
हेतुप्रमाणसम्बन्धकार्य्याङ्गव्याप्यव्यापकैः । आयाश्व बहुधा भिन्ना व्ययाः शेषं पृथक् पृथक् । मानेन संख्यया चैवोन्मानेन परिमाणकैः ॥
क्वचित् संख्या क्वचिन्भानमुन्मानं परिमाणकम् । समाहारः क्वचिच्चेष्टो व्यवहाराय तद्विदाम् ॥
अङ्गलाद्यं स्मृतं मानमुन्मानं तु तुला स्मृता । परिमाणं पात्रमानं संख्यैकद्वादिसंज्ञिका ॥
यत्र यादृम् व्यवहारस्तत्र तादृक् प्रकल्पयेत् ॥
रजतस्वर्णताप्रादि व्यवहारार्थमुद्रितम् । व्यवहार्य्य वराटाद्यं रत्नान्तं द्रव्यमीरितम् । सपशुधान्यवस्त्रादितृणान्तं धनसंज्ञिकम् ॥
व्यवहारे चाधिकृतं स्वर्णाद्यं मूल्यतामियात् ॥
कारणादिसमायोगात् पदार्थस्तु भवेद्भुवि । येन व्ययेन संसिद्धस्तद्व्ययस्तस्य मूल्यकम् ॥
सुलभासुलभत्वाच्वागुणत्वगुणसंश्रयैः । यथाकामात् पदार्थानामधं हीनाधिकं भवेत् ॥
न हीनं मणिधातूनां क्वचिन्मूल्यं प्रकल्पयेत्। मूल्यहानिस्तु चैतेषां राजदौष्ट्वेन जायते ॥
दीर्धे चतुर्भागभूतपत्रे तिर्य्यग्गतावलिः । त्र्यंशगाभ्यन्तरगता चार्द्धगा पादगापि वा। कार्य्या व्यापकव्याप्यानां लेखने पदसंज्ञिका ॥
श्रेष्ठाभ्यन्तरगा तासु वामतः त्र्यंशगाप्यनु । दक्षत्र्यंशगता चानु ह्यर्द्धगा पादगा ततः ॥
स्वभ्यन्तरे स्वभेदाः स्युः सदृशाः सदृशे पदे । स्वारम्भपूर्तिसदृशे पदगे स्तः सदैव हि ॥
राजा स्वलेख्यचिह्न तु यथाभिलषितं तथा । लेखानुपूर्व कुर्य्याद्धि दृष्ट्वा लेख्यं विचार्य्य च ॥
मन्त्री च प्राङ्ड्विवाकश्च पण्डितो दूतसंज्ञकः । स्वाविरुद्धं लेख्यमिदं लिखेयुः प्रथमं त्विमे ॥
अमात्यः साधु लिखनमस्त्येतत् प्राग्लिखेदयम् । सम्यग्विचारितमिति सुमन्त्रो विलिखेत् ततः ॥
सत्यं यथार्थमिति च प्रधानश्च लिखेत् स्वयम् । अङ्गीकर्तुं योग्यमिति ततः प्रतिनिधिर्लिखेत् ॥
अङ्गीकर्त्तव्यमिति च युवराजो लिखेत् स्वयम् । लेख्यं स्वाभिमतं चैतद् विलिखेच्च पुरोहितः ॥
स्वस्वमुद्राचिह्नितं च लेख्यान्ते कुव्युरेव हि । अङ्गीकृतमिति लिखेन्मुद्रयेच्च ततो नृपः ॥
कार्य्यान्तरस्याकुलत्वात् सम्यग्द्रष्टुं न शक्यते । युवराजादिभिर्लेख्यं तदनेन च दर्शितम् ॥
समुद्रं विलिखेयुर्वै सर्वे मन्त्रिगणास्ततः । राजा दृष्टमिति लिखेद् द्राक् सम्यग्दर्शनाक्षमः ॥
आयमादौ लिखेत् सम्यग् व्ययं पश्चात् तथागतम् । वामे वायं व्ययं दक्षे पत्रभागे च लेखयेत् ॥
यत्रोभौ व्यापकव्याप्यौ वामोर्ध्वभागगौ क्रमात् । आधाराधेयरूपौ वा कालार्थं गणितं हि तत् ॥
अधोऽधश्व क्रमात् तत्र व्यापकं वामतो लिखेत् । व्याप्यानां मूल्यमानादि तत्पङ्क्त्यां विनिवेशयेत् ॥
ऊर्ध्वगानां तु गणितमधः पङ्क्त्यां प्रजायते । यत्रोभौ व्यापकव्याप्यौ व्यापकत्वेन संस्थितौ ॥
व्यापकं बहुवृत्तित्वं व्याप्यं स्यान्न्यूनवृत्तिकम् । व्याप्याश्चावयवाः प्रोक्ता व्यापकोऽवयवी स्मृतः ॥
सजातीनां च लिखनं कुर्य्याच्च समुदायतः । यथाप्राप्तं तु लिखनमाद्यन्तसमुदायतः ॥
व्यापकाश्च पदार्था वा यत्र सन्ति स्थलानि हि । व्याप्यमायव्ययं तत्र कुर्य्यात् कालेन सर्वदा ॥
स्थानटिप्पनिका चैषा ततोऽन्यत् सङ्घटिप्पनम् । विशिष्टसंज्ञितं तत्र व्यापकं लेख्यभाषितम् ॥
आयाः कति व्ययाः कस्य शेषं द्रव्यस्य चास्ति वै । विशिष्टसंज्ञकैरेषां संविज्ञानं प्रजायते ॥
आदौ लेख्यं यथाप्राप्तं पश्चात् तद्ग‌णितं लिखेत् । यथा द्रव्यं च स्थानं चाधिकसंज्ञं च टिप्पनैः ॥
शेषायव्ययविज्ञानं क्रमाल्लेख्यैः प्रजायते । स्थलायव्ययविज्ञानं व्यापकं स्थलतो भवेत् ॥
पदार्थस्य स्थलानि स्युः पदार्थाश्च स्थलस्य तु । व्याप्यास्तिथ्यादयश्चापि यथेष्टा लेखने नृणाम् ॥
निश्चितान्यस्वामिकाद्या आया ये इतरान्तगाः । विशिष्टसंज्ञिका ये च पुनरावर्त्तकादयः । व्ययाश्च परलेखान्ता अन्तिमव्यापकाश्च ते ॥
इच्छया ताडितं कृत्वादौ प्रमाणफलं ततः । प्रमाणभक्तं तल्लब्धं भवेदिच्छाफलं नृणाम् ॥
समासतो लेख्यमुक्तं सर्वेषां स्मृतिसाधनम् ॥
गुञ्जा माषस्तथा कर्षः पदार्द्धः प्रस्थ एव हि । यथोत्तरा दशगुणाः पञ्च प्रस्थस्य चाढकाः ॥
ततश्चाष्टाढकः प्रोक्तो ह्यर्मणस्ते तु विंशतिः । खारिका स्याद्भिद्यते तद् देशे देशे प्रमाणकम् ॥
पञ्चाङ्गलावटं पात्रं चतुरङ्गलविस्तृतम् । प्रस्थपादं तु तज्ज्ञेयं परिमाणे सदा बुधैः ॥
उर्ध्वाङ्कश्च यथासंज्ञस्तदधः स्थाश्च वामगाः । क्रमात् स्वदशगुणिताः परार्द्धान्ताः प्रकीर्तिताः ॥
न कर्तुं शक्यते संख्यासंज्ञा कालस्य दुर्गमात् । ब्रह्मणो द्विपरार्द्ध तु आयुरुक्तं मनीषिभिः ॥
एको दश शतं चैव सहस्त्रं चायुतं क्रमात् । नियुतं प्रयुतं कोटिरर्बुदं चाब्जखर्वकौ। निखर्वपद्मशङ्खाब्धिमध्यमान्तपरार्द्धकाः ॥
कालमानं त्रिधा ज्ञेयं चान्द्रं सौरं च सावनम् । भृतिदाने सदा सौरं चान्द्रं कौसीदवृद्धिषु । कल्पयेत् सावनं नित्यं दिनभृत्येऽवधौ सदा ॥
कार्य्यमाना कालमाना कार्य्यकालमितिस्त्रिधा । भृतिरुक्ता तु तद्विज्ञैः सा देया भाषिता यथा ॥
अयं भारस्त्वया तत्र स्थाप्यस्त्वैतावतीं भृतिम् । दास्यामि कार्व्यमाना सा कीर्त्तिता तन्निदेशकैः ॥
वत्सरे वत्सरे वापि मासि मासि दिने दिने । एतावतीं भृतिं तेऽहं दास्यामीति च कालिका ॥
एतावता कार्य्यमिदं कालेनापि त्वया कृतम् । भृतिमेतावतीं दास्ये कार्य्यकालमिता च सा ॥
न कुर्य्याद् भृतिलोपं तु तथा भृतिविलम्बनम् । अवश्यपोष्यभरणा भृतिर्मध्या प्रकीर्त्तिता ॥
परिपोष्या भृतिः श्रेष्ठा समान्नाच्छादनार्थिका । भवेदेकस्य भरणं यया सा हीनसंज्ञिका ॥
यथा यथा तु गुणवान् भृतकस्तधृतिस्तथा । संयोज्या तु प्रयत्लेन नृपेणात्महिताय वै ॥
अवश्यपोष्यवर्गस्य भरणं भृतकाद् भवेत् । तथा भृतिस्तु संयोज्या तद्योग्यभृतकाय वै ॥
ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयं कृताः । परस्य साधकास्ते तु छिद्रकोशप्रजाहराः ॥
अन्नाच्छादनमात्रा हि भृतिः शूद्रादिषु स्मृता । तत्पापभागन्यथा स्यात् पोषको मांसभोजिषु ॥
यद् ब्राह्मणेनापहतं धनं तत् परलोकदम् । शूद्राय दत्तमपि यन्नरकायैव केवलम् ॥
मन्दो मध्यस्तथा शीघ्रस्त्रिविधो भृत्य उच्यते । समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात् स्मृता ॥
भृत्यानां गृहकृत्यार्थं दिवा यामं समुत्सृजेत् । निशि यामत्रयं नित्यं दिनभृत्येऽर्द्धयामकम् ॥
तेभ्यः कार्यं कारयीत ह्युत्सवाद्यद्यैर्विना नृपः । अत्यावश्यं तूत्सवेऽपि हित्वा श्राद्धदिनं सदा ॥
पादहीनां भृतिं त्वार्त्ते दद्यात् त्रैमासिकीं ततः । पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा ॥
षाण्मासिकीं तु दीर्घात्र्ते तदृवं न च कल्पयेत् । नैव पक्षार्द्धमार्त्तस्य हातव्यात्यापि वै भृतिः ॥
संवत्सरोषितस्यापि ग्राहाः प्रतिनिधिस्ततः । सुमहद्‌गुणिनं त्वात्र्त्त भृत्यर्द्ध कल्पयेत् सदा ॥
सेवां विना नृपः पक्षं दद्याद् भृत्याय वत्सरे ॥
चत्वारिंशत् समा नीताः सेवया येन वै नृपः । ततः सेवां विना तस्मै भृत्यर्द्ध कल्ययेत् सदा ॥

यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तदर्द्धकम् । भार्य्यायां वा सुशीलायां कन्यायां वा स्वश्रेयसे ॥
अष्टमांशं पारितोष्यं दद्याद् भृत्याय वत्सरे। कार्याष्टमांशं वा दद्यात् कार्यं द्रागधिकं कृतम् ॥
स्वामिकायें विनष्टो यस्तत्पुत्रे तद्धृतिं वहेत् । यावद् बालोऽन्यथा पुत्रगुणान् दृष्ट्वा भृतिं वहेत् ॥
षष्ठांशं वा चतुर्थांशं भृतेर्भूत्यस्य पालयेत् । दद्यात् तदर्द्धं भृत्याय द्वित्रिवर्षेऽखिलं तु वा ॥
वाक्पारुष्यान्यूनभृत्या स्वामी प्रबलदण्डतः । भृत्यं प्रशिक्षयेन्नित्यं शत्रुत्वं त्वपमानतः ॥
भृतिदानेन सन्तुष्टा मानेन परिवर्द्धिताः । सान्त्विता मृदुवाचा ये न त्यजन्त्वधिपं हि ते ॥
अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः । उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
यथागुणान् स्वभृत्यांश्च प्रजाः संरञ्जयेन्नृपः । शाखाप्रदानतः कांश्चिदपरान् फलदानतः ॥
अन्यान् सुचक्षुषा हास्यैस्तथा कोमलया गिरा। सुभोजनैः सुवसनैस्ताम्बूलैश्च धनैरपि ॥
कांश्चित् सुकुशलप्रश्नैरधिकारप्रदानतः । वाहनानां प्रदानेन योग्याभरणदानतः ॥
छत्रातपत्रचमरदीपिकानां प्रदानतः । क्षमया प्रणिपातेन मानेनाभिगमेन च ॥
सत्कारेण च ज्ञानेन ह्यादरेण शमेन च । प्रेम्णा समीपवासेन स्वार्द्धासनप्रदानतः । सम्पूर्णासनदानेन स्तुत्योपकारकीर्त्तनात् ॥
यत्त्कार्य्ये विनियुक्ता ये कार्य्याङ्करङ्कयेच्च तान् । लोहजैस्ताम्रजै रीतिभवै रजतसम्भवैः ॥
सोवर्णै रत्नजैर्वापि यथायोग्यैः स्वलाञ्छनैः । प्रविज्ञानाय दूरात् तु वस्त्रैश्च मुकुटैरपि ॥
वाद्यवाहनभेदैश्च भृत्यान् कुर्य्यात् पृथक् पृथक् । स्वविशिष्टं च यच्चिद्धं न दद्याद् कस्यचिन्नृपः ॥
दश प्रोक्ताः पुरोधाद्या ब्राह्मणाः सर्व एव ते । अभावे क्षत्रिया योज्यास्तदभावे तथोरुजाः ॥
नैव शूद्रास्तु संयोज्या गुणवन्तोऽपि पार्थिवैः ॥
भागग्राही क्षत्रियस्तु साहसाधिपतिश्च सः । ग्रामपो ब्राह्मणो योज्यः कायस्थो लेखकस्तथा ॥
शुल्कग्राही तु वैश्यो हि प्रतिहारश्च पादजः । सेनाधिपः क्षत्रियस्तु ब्राह्मणस्तदभावतः ॥
न वैश्यो न च वै शूद्रः कातरश्च कदाचन। सेनापतिः शूर एव योज्यः सर्वासु जातिषु ॥
ससङ्करचतुर्वर्णधर्मोऽयं नैव यावनः । यस्य वर्णस्य यो राजा स वर्णः सुखमेधते ॥
नोपकृतं मन्यते स्प न तुष्यति सुसेवनैः । कथान्तरे न स्मरति शङ्कते प्रलपत्यपि। क्षुब्धस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत् ॥
लक्षणं युवराजादेः कृत्यमुक्तं समासतः ॥
तृतीय अध्याय
अथ साधारणं नीतिशास्त्रं सर्वेषु चोच्यते । सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ॥
सुखं च न विना धर्मात् तस्माद् धर्मपरो भवेत् । त्रिवर्गशून्यं नारम्भं भजेत् तं चाविरोधयन् । अनुयायात् प्रतिपदं सर्वधर्मेषु मध्यमः ॥
नीचरोमनखश्मश्रुर्निर्मलाङ्ङ्घिमलायनः स्नानशीलः सुसुरभिः सुवेशोऽनुल्वणोज्ज्वलः । धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः ॥
सातपत्रपदत्राणो विचरेद् युगमात्रदृक् । निशि चात्ययिके कार्य्ये दण्डी मौली सहायवान् ॥
न वेगितोऽन्यकाय्यें स्यान्न वेगान् धारयेत् बलात् । भक्त्वा कल्याणमित्राणि सेवेतेतरदूरगः ॥
हिंसास्तेयान्यथाकामपैशुन्यं परुषानृतम् । सम्भिन्नालापव्यापादममिथ्यादृग्विपर्य्ययम् । पापकर्मेति दशधा कायवाङ्‌मानसैस्त्यजेत् ॥
धर्मकार्य्यं यतन् शक्त्या नो चेत् प्राप्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥
मनसा चिन्तयन् पापं कर्मणा नाभिरोचयेत् । तत् प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥
अवृत्तिव्याधिशोकार्त्ताननुवर्तेत शक्तितः । आत्मवत् सततं पश्येदपि कीटपिपीलिकम् ॥
उपकारप्रधानः स्यादपकारपरेऽप्यरौ । सम्पद्विपत्स्वेकमना हेतावीर्येत् फले न तु ॥
काले हितं मितं ब्रूयादविसंवादि पेशलम् । पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः ॥
नैकः सुखी न सर्वत्र विश्रब्धो न च शङ्कितः ॥
न कञ्चिदात्मनः शत्रु नात्मानं कस्यचिद्रिपुम् । प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः ॥
जनस्याशयमालक्ष्य यो यथा परितुष्यति । तं तथैवानुवर्तेत पराराधनपण्डितः ॥
न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत् । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥
एणो गजः पतङ्गश्च भृङ्गो मीनस्तु पञ्चमः । शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ॥
एषु स्पों वरस्त्रीणां स्वान्तहारी मुनेरपि । अतोऽप्रमत्तः सेवेत विषयांस्तु यथोचितान् ॥
मात्रा स्वस्त्रा दुहित्रा वा नात्यन्तैकान्तिकं वसेत् । यथा सम्बन्धमाहूयादाभाष्याश्वास्य वै स्त्रियम् । स्वीयां तु परकीयां च सुभगे ! भगिनीति च ॥
सहवासोऽन्यपुरुषैः प्रकाशमपि भाषणम् । स्वातन्त्र्यं न क्षणमपि ह्यावासोऽन्यगृहे तथा ॥
भर्ना पित्राथवा राज्ञा पुत्रश्वशुरबान्धवैः । स्त्रीणां नैव तु देयः स्याद् गृहकृत्यैर्विना क्षणः ॥
चण्डं षण्डं दण्डशीलमकामं सुप्रवासिनम् । सुदरिद्रं रोगिणं च हह्यन्यस्त्रीनिरतं सदा ॥
पतिं दृष्ट्वा विरक्ता स्यान्नारी वान्यं समाश्रयेत् । त्यक्त्वैतान् दुर्गुणान् यत्नादतो रक्ष्याः स्त्रियो नरैः ॥
वस्त्रान्नभूषणप्रेममृदुवाग्भिश्च शक्तितः । स्वात्यन्तसन्निकर्षेण स्त्रियं पुत्रं च रक्षयेत् ॥
चैत्यपूज्यध्वजाशस्तच्छायाभस्मतुषाशुचीन् । नाक्रामेच्छर्करालोष्टबलिस्नानभुवाऽपि च ॥
नदीं तरेन्न बाहुभ्यां नाग्नि छन्नमभिव्रजेत् । सन्दिग्धनावं वृक्षं च नारोहेद् दुष्टयानकम् ॥
नासिकां न विकृष्णीयान्नाकस्माद् विलिखेद् भुवम् । न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥
नाङ्गैश्चेष्टेत विगुणं नासीतोत्कटुकश्चिरम् । देहवाक्चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्त्तयेत् ॥
नोर्ध्वजानुश्चिरं तिष्ठेन्नक्तं सेवेत न द्रुमम् । तथा चत्वरचैत्यं न चतुष्पथसुरालयान् ॥
शून्याटवीशून्यगृहश्मशानानि दिवापि न । सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत् ॥
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥
सन्ध्यास्वभ्यवहारस्त्रीस्वप्नाध्ययनचिन्तनम् । मद्यविक्रयसन्धानदानादानानि नाचरेत् ॥
आचार्य्यः सर्वचेष्टासु लोक एव हि धीमतः । अनुकुर्य्यात् तमेवातो लौकिकार्थे परीक्षकः ॥
राजदेशकुलज्ञातिसद्धर्मान् नैव दूषयेत् । शक्तोऽपि लौकिकाचारं मनसापि न लड्ङ्घयेत् ॥
अयुक्तं यत् कृतं चोक्तं न बलाद्धेतुनोद्धरेत् ॥
दुर्गुणस्य च वक्तारः प्रत्यक्षं विरला जनाः । लोकतः शास्त्रतो ज्ञात्वा ह्यतस्त्याज्यांस्त्यजेत् सुधीः । अनयं नयसङ्काशं मनसापि न चिन्तयेत् ॥
अयं सहस्त्रापराधी किमेकेन भवेन्मम । मत्वा नार्घ स्मरेदीषद्विन्दुना पूर्य्यते घटः ॥
नक्तं दिनानि मे यान्ति कथम्भूतस्य सम्प्रति । दुःखभाड्न भवेदेवं नित्यं सन्निहितस्मृतिः ॥
समासव्यूहहेत्वादिकृतेच्छार्थं विहाय स्तुत्यर्थवादान् सन्त्यज्य सारं सङ्‌गृह्य यत्नतः ॥
धर्मतत्त्वं हि गहनमतः सत्सेवितं नरः । श्रुतिस्मृतिपुराणानां कर्म कुर्य्याद् विचक्षणः ॥
न गोपयेद् वासयेच्च राजा मित्रं सुतं गुरुम् । अधर्मनिरतं स्तेनमाततायिनमप्युत ॥
अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः । क्षेत्रदारहरणैतान् षड्विद्यादाततायिनः ॥
नोपेक्षेत स्त्रियं बालं रोगं दासं पशुं धनम् । विद्याभ्यासं क्षणमपि सत्सेवां बुद्धिमान् नरः ॥
विरुद्धो यत्र नृपतिर्धनिकः श्रोत्रियो भिषक् । आचाख्ख तथा देशो न तत्र दिवसं वसेत् ॥
नपुसंकश्च स्त्री बालश्शुण्डो मूर्खश्च साहसी । यत्राधिकारिणौते न तत्र दिवसं वसेत् ॥

अविवेकी यत्र राजा सभ्या यत्र तु पाक्षिकाः । सन्मार्गोज्झितविद्वांसः साक्षिणोऽनृतवादिनः ॥
दुरात्मनां च प्राबल्यं स्त्रीणां नीचजनस्य च । तत्र नेच्छेद् धनं मानं वसतिञ्चापि जीवितम् ॥
माता न पालयेद् बाल्ये पिता साधु न शिक्षयेत् । राजा यदि हरेद् वित्तं का तत्र परिदेवना ? ॥
सुसेविताः प्रकुप्यन्ति मित्रस्वजनपार्थिवाः । गृहमग्न्यश्निहतं का तत्र परिदेवना ?।
आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि । फलितं विपरीतं तत् का तत्र परिदेवना ?।
सावधानमना नित्यं राजानं देवतां गुरुम् । अग्नि तपस्विनं धर्मज्ञानवृद्धं सुसेवयेत् ॥
मातृपितृगुरुस्वामिभ्रातृपुत्रसखिष्वपि । न विरुध्येन्नपकुर्यान्मनसापि क्षणं क्वचित् ॥
स्वजनैर्न विरुध्येत न स्पर्धेत बलीयसा । न कुर्य्यात् स्त्रीबालवृद्धमूर्खेषु च विवादनम् ॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
नान्यधर्मं हि सेवेत न द्रुह्याद् वै कदाचन । हीनकर्म्मगुणैः स्त्रीभिर्नासीतैकासने क्वचित् ॥
षड् दोषा पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता । प्रभवन्ति विघाताय कार्य्यस्यैते न संशयः ॥
उपायज्ञश्च योगज्ञस्तत्त्वज्ञः प्रतिभानवान् । स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः । वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक् सदा ॥
चिरं संशृणुयान्नित्यं जानीयात् क्षिप्रमेव च । विज्ञाय प्रभजेदर्थान् न कामं प्रभजेत् क्वचित् ॥
क्रयविक्रयातिलिप्सां स्वदैन्यं दर्शयेन्न हि । कार्य्य विनान्यगेहे न नाज्ञातः प्रविशेदपि ॥
अपृष्टो नैव कथयेद् गृहकृत्यं तु कं प्रति। बह्वर्थाल्पाक्षरं कुर्य्यात् सल्लापं कार्य्यसाधकम् ॥
न दर्शयेत् स्वाभिमतमनुभूताद् विना सदा। ज्ञात्वा परमतं सम्यक्त्वेनाज्ञातोत्तरं वदेत् ॥
दम्पत्योः कलहे साक्ष्यं न कुर्य्यात् पितृपुत्रयोः । सुगुप्तकृत्यमन्त्रः स्यान्न त्यजेच्छरणागतम् ॥
यथाशक्ति चिकीर्षेत कुर्वन् मुद्दोच्च नापदि । कस्यचिन्न स्पृशेन्मर्म्म मिथ्यावादं न कस्यचित् ॥
नाश्लीलं कीर्त्तयेत् कञ्चित् प्रलापं न च कारयेत् ॥
अस्वर्यं स्याद्धर्म्यमपि लोकविद्वेषितं तु यत् । स्वहेतुभिर्न हन्येत कस्य वाक्यं कदाचन ॥
प्रविचार्य्योंत्तरं देयं सहसा न वदेत् क्वचित् । शत्रोरपि गुणा ग्राह्या गुरोस्त्याज्यास्तु दुर्गुणाः ॥
उत्कर्षो नैव नित्यः स्यान्नापकर्षस्तथैव न्न । प्राक्कर्म्मवशतो नित्यं सधनो निर्धनो भवेत् ॥
तस्मात् सर्वेषु भूतेषु मैत्रीं नैव च हापयेत् ॥
दीर्घदर्शी सदा च स्यात् प्रत्युत्पन्नमतिः क्वचित् । साहसी सालसी चैव चिरकारी भवेन्न हि ॥
यः सुदुर्निष्फलं कर्म ज्ञात्वा कर्तुं व्यवस्यति । द्रागादौ दीर्घदर्शी स्यात् स चिरं सुखमश्नुते ॥
प्रत्युत्पन्नमतिः प्राप्तां क्रियां कर्तुं व्यवस्यति । सिद्धि सांशयिकी तत्र चापल्यात् कार्यगौरवात् ॥
यतते नैव कालेऽपि क्रियां कर्तुं च सालसः । न सिद्धिस्तस्य कुत्रापि स नश्यति च सान्वयः ॥
क्रियाफलमविज्ञाय यतते साहसी च सः । दुःखभागी भवत्येव क्रियया तत्फलेन वा ॥
महत्कालेनाल्पकर्म चिरकारी करोति च । स शोचत्यल्पफलतो दीर्घदर्शी भवेदतः ॥
सुफलं तु भवेत् कर्म कदाचित् सहसा कृतम् । निष्फलं वापि प्रभवेत् कदाचित् सुविचारितम् ॥
तथापि नैव कुर्वीत सहासानर्थकारि तत् । कदाचिदपि सञ्जातमकार्यादिष्टसाधनम् ॥
यदनिष्टं तु सत्कार्यान्नाकार्य्यप्रेरकं हि तत् ॥
भृत्यो भ्रातापि वा पुत्रः पत्नी कुर्य्यान्न चैठ यत् । विधास्यन्ति च मित्राणि तत्कार्यमविशङ्कितम् ॥
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः । मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥
न हि मानसिको धर्मः कस्यचिज्ज्ञायतेऽञ्जसा । अतो यतेत तत्प्राप्तौ मित्रलब्धिर्वरा नृणाम् ॥
नात्यन्तं विश्वसेत् कञ्चिद् विश्वस्तमपि सर्वदा । पुत्रं वा भ्रातरं भार्य्याममात्यमधिकारिणम् ॥
धनस्त्रीराज्यलोभो हि सर्वेषामधिको यतः । प्रामाणिकञ्चानुभूतमाप्तं सर्वत्र विश्वसेत् ॥
विश्वसित्वात्मवद् गूढस्तत्कार्यं विमृशेत् स्वयम् । तद्वाक्यं तर्कतोऽनर्थं विपरीतं न चिन्तयेत् ॥
चतुःषष्टितमांशं तन्नाशितं क्षमयेदथ । स्वधर्मनीतिबलवांस्तेन मैत्रीं प्रधारयेत् ॥
दानैर्मानैश्च सत्कारैः सुपूज्यान् पूजयेत् सदा ॥
कदापि नोग्रदण्ड स्यात् कटुभाषणतत्परः । भार्य्या पुत्रोऽप्युद्विजते कटुवाक्यात् प्रदण्डतः ॥
पशवोऽपि वशं यान्ति दानैछ मृदुभाषणैः ॥
न विद्यया न शौर्य्येण धनेनाभिजनेन च। न बलेन प्रमत्तः स्याच्चातिमानी कदाचन ॥
नाप्तोपदेशं संवेत्ति विद्यामत्तः स्वहेतुभिः । अनर्थमप्यभिप्रेतं मन्यते परमार्थवत् ॥
महाजनैर्धृतः पन्था येन सन्त्यज्यते बलात् । शौर्य्यमत्तस्तु सहसा युद्धं कृत्वा जहात्यसून् । व्यूहादियुद्धकौशल्यं तिरस्कृत्यं च शस्त्रवान् ॥
श्रीमत्तः पुरुषो वेत्ति न दुष्कीर्त्तिमजो यथा। स्वमूत्रगन्धं मूत्रेण मुखमासिञ्चते स्वकम् ॥
तथाभिजनमत्तस्तु सर्वानेवावमन्यते । श्रेष्ठानपीतरान् सम्यगकायें कुरुते मतिम् ॥
बलमत्तस्तु सहसा युद्धे विदधते मनः । बलेन बाघते सर्वान् पश्वादीनपि ह्यन्यथा ॥
मानमत्तो मन्यते स्म तृणवच्चाखिलं जगत् । अनर्होऽपि च सर्वेभ्यस्त्वत्यर्घासनमिच्छति ॥
मदा एतेऽवलिप्तानां सतामेति दमाः स्मृताः ॥
विद्यायाश्च फलं ज्ञानं विनयश्च फलं श्रियः । यज्ञदाने बलफलं सद्रक्षणमुदाहृतम् ॥
शमो दमश्वार्जवं चाभिजनस्य फलं त्विदम् । मानस्य तु फलं चैतत् सर्वे स्वसदृशा इति ॥
सुविद्यामन्त्रभैषज्यस्त्रीरलं दुष्कुलादपि । गृह्णीयात् सुप्रयत्नेन मानमुत्सृज्य साधकः ॥
उपेक्षेत प्रनष्टं यत् प्राप्तं यत् तदुपाहरेत् । न बालं न स्त्रियं चातिलालयेत् ताडयेन्न च। विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत् क्रमात् ॥
परद्रव्यं क्षुदमपि नादत्तं संहरेदणु । नोच्चारयेदर्घ कस्य स्त्रियं नैव च दूषयेत् ॥
न ब्रूयादनृतं साक्ष्यं कृतं साक्ष्यं न लोपयेत् । प्राणात्ययेऽनृतं ब्रूयात् सुमहत्कार्य्यसाधने ॥
कन्यादात्रे तु ह्यघनं दस्यवे सधनं नरम् । गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ॥
जायापत्योश्च पित्रोश्च भ्रात्रोश्च स्वामिभृत्ययोः । भगिन्योर्मित्रयोर्भेदं न कुर्य्याद् गुरुशिष्ययोः ॥
न मध्याद् गमनं भाषाशालिनोः स्थितयोरपि । सुहृदं भ्रातरं बन्धुमुपचर्य्यात् सदात्मवत् ॥
गृहागतं क्षुद्रमपि यथार्ह पूजयेत् सदा। तदीयकुशलप्रश्नैः शक्त्या दानैर्जलादिभिः ॥
सपुत्रस्तु गृहे कन्यां सपुत्रां वासयेन्न हि। सभर्तृकां च भगिनीमनाथे ते तु पालयेत् ॥
सपर्योऽग्निर्दुर्जनो राजा जामाता भगिनीसुतः । रोगः शत्रुर्नावमान्योऽप्यल्प इत्युपचारतः ॥
क्रौर्य्यात्तैक्ष्ण्याद्दुःस्वभावात् स्वामित्वात्पुत्रिकाभयात् । स्वपूर्वजपिण्डदत्वाद् वृद्धिभीभ्यामुपाचरेत् ॥
ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् । याचकाद्यैः प्रार्थितः सन्न तीक्ष्णं चोत्तरं वदेत् । तत्कार्य्यं तु समर्थश्चेत् कुर्य्याद् वा कारयीत च ॥
दातृणां धार्मिकाणां च शूराणां कीर्त्तनं सदा। श्रणुयात् तु प्रयत्नेन तच्छिद्रं नैव लक्षयेत् ॥
काले हितमिताहारविहारी विघसाशनः । अदीनात्मा च सुस्वप्नः शुचिः स्यात् सर्वदा नरः ॥
कुर्य्याद् विहारमाहारं निर्धारं विजने सदा। व्यवसायी सदा च स्यात् सुखं व्यायाममभ्यसेत् ॥
अन्नं न निन्द्यात् सुस्वस्थः स्वीकुर्य्यात् प्रीतिभोजनम् । आहारं प्रवरं विद्यात् षड्रसं मधुरोत्तरम् ॥

विहारं चैव स्वस्त्रीभिर्वेश्याभिर्न कदाचन । नियुद्धं कुशलैः सार्द्ध व्यायामं नतिभिर्वरम् ॥
हित्वा प्राक्यश्चिमौ यामौ निशि स्वापो वरो मतः । दीनान्धपडुबधिरा नोपहास्याः कदाचन ॥
नाकार्ये तु मतिं कुर्य्याद् द्राक् स्वकार्य्य प्रसाधयेत् । उद्योगेन बलेनैव बुद्धया धैय्येंण साहसात् । पराक्रमेणार्जवेन मानमुत्सृज्य साधकः ॥
यदि सिध्यति येनार्थः कलहेन वरस्तु सः । अन्यथायुर्धनसुहृद्यशः सुखहरः स्मृतः ॥
नानिष्टं प्रवदेत् कस्मिन् न छिद्रं कस्य लक्षयेत् । आज्ञाभङ्गस्तु महतां राज्ञः काव्यों न वै क्वचित् ॥
असत्कार्य्यनियोक्तारं गुरुं वापि प्रबोधयेत् । नातिक्रामेदपि लघु क्वचित् सत्कार्य्यबोधकम् ॥
कृत्वा स्वतन्त्रां तरुणीं स्त्रियं गच्छेन्न वै क्वचित् । स्त्रियो मूलमनर्थस्य तरुण्यः किं परैः सह ॥
न प्रमाद्येन्मदद्रव्यैर्न विमुह्येत् कुसन्ततौ ॥
साध्वी भार्य्या पितृपत्नी माता बाला पिता स्नुषा । अभर्तृकानपत्या या साध्वी कन्या स्वसापि च ॥
मातुलानी भ्रातृभार्या पितृमातृस्वसा तथा । मातामहोऽनपत्यश्च गुरुश्वशुरमातुलाः ॥
बालोऽपिता च दौहित्रो भ्राता च भगिनीसुतः । एतेऽवश्यं पालनीयाः प्रयत्नेन स्वशक्तितः ॥
अविभवेऽपि विभवे पितृमातृकुलं सुहत् । पल्याः कुलं दासदासीभृत्यवर्गाश्च पोषयेत् ॥
विकलाङ्गान् प्रव्रजितान् दीनानाथांश्च पालयेत् ॥
कुटुम्बभरणार्थेषु यत्नवान् न भवेच्च यः । तस्य सर्वगुणैः किन्तु जीवन्नेव मृतश्च सः ॥
न कुटुम्बं भृतं येन नाशिताः शत्रवोऽपि न । प्राप्तं संरक्षितं नैव तस्य किं जीवितेन वै ? ॥
स्त्रीभिर्जितो ऋणी नित्यं सुदरिद्रश्च याचकः । गुणहीनोऽर्थहीनः सन् मृता एते सजीवकाः ॥
आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् । दानमानापमानं च नवैतानि सुगोपयेत् ॥
देशाटनं राजसभावेशनं शस्त्रचिन्तनम् । वेश्यादिदर्शनं विद्वन्मैत्रीं कुर्य्यादतन्द्रितः ॥
अनेकाश्च तथा धर्माः पदार्थाः पशवो नराः । देशाटनात् स्वानुभूताः प्रभवन्ति च पर्वताः ॥
कीदृशा राजपुरुषा न्यायान्यायं च कीदृशम् । मिथ्याविवादिनः के च के वै सत्यविवादिनः ॥
कीदृशी व्यवहारस्य प्रवृत्तिः शास्त्रलोकतः । सभागमनशीलस्य तद्विज्ञानं प्रजायते ॥
नाहङ्कारी च धर्मान्धः शास्त्राणां तत्त्वचिन्तनैः । एकं शास्त्रमधीयानो न विद्यात् कार्य्यनिर्णयम् ॥
स्याद् बह्वागमसन्दर्शी व्यवहारो महानतः । बुद्धिमानध्यसेन्नित्यं बहुशाखाण्यतन्द्रितः ॥
तदर्थं गृहीत्वापि तदधीना न जायते। वेश्या तथाविधा वापि वशीकर्तुं नरं क्षमा। नेयात् कस्य वशं तद्वत् स्वाधीनं कारयेज्जगत् ॥
श्रुतिस्मृतिपुराणानामर्थविज्ञानमेव च। सहवासात् पण्डितानां बुद्धि पण्डा प्रजायते ॥
देवपित्रतिथिभ्योऽन्नमद्दत्त्वा नाश्नीयात् क्वचित् । आत्मार्थं यः पचेन्मोहान्नरकार्थं स जीवति ॥
मार्ग गुरुभ्यो बलिने व्याधिताय शवाय च। राज्ञे श्रेष्ठाय व्रतिने यानगाय समुत्सृजेत् ॥
शकटात् पञ्चहस्तं तु दशहस्तं तु वाजिनः । दूरतः शतहस्तं च तिष्ठेन्नागाद् वृषाद् दश ॥
शृङ्गिणां च नखिनां च दंष्ट्रिणां दुर्जनस्य च। नदीनां वसतौ स्त्रीणां विश्वासं नैव कारयेत् ॥
खादन् न गच्छेदध्वानं न च हास्येन भाषणम् । शोकं न कुर्य्यान्नष्टस्य स्वकृतेरपि जल्पनम् ॥
स्वशङ्कितानां सामीप्यं त्यजेद् वै नीचसेवनम् । संलापं नैव शृणुयाद् गुप्तः कस्यापि सर्वदा ॥
उत्तमैरननुज्ञातं काव्यै नेच्छेच्च तैः सह। देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ॥
महतोऽसत्कृतमपि भवेत् तद्भूषणाय वै। विषपानं शिवस्यैव त्वन्येषां मृत्युकारकम् ॥
तेजस्वी क्षमते सर्वं भोक्तुं वह्निरिवानघः । न साम्मुख्यं गुरोः स्थेयं राज्ञः श्रेष्ठस्य कस्यचित् ॥
राजा मित्रमिति ज्ञात्वा न कार्य्य मानसेप्सितम् । नेच्छेन्मूर्खस्य स्वामित्वं दास्यमिच्छेन्महात्मनाम् । विरोधं न ज्ञानलवदुर्विदग्धस्य रञ्जनम् ॥
अत्यावश्यमनावश्यं क्रमात् कार्यं समाचरेत् । प्राक् पश्चाद्वाग्विलम्बेन प्राप्तं कार्य्य तु बुद्धिमान् ॥
पित्राज्ञप्तेनापि मातृवधरूपे सुपूजिता । धृता गोतमपुत्रेण हाकायें चिरकारिता ॥
प्रेम्णा समीपवासेन स्तुत्या नत्या च सेवया। कौशल्येन कलाभिश्च कथाभिर्ज्ञानतोऽपि च ॥
आदरेणार्जवेनैव शौर्य्याद् दानेन विद्यया। प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः उपकारैः स्वाशयेन वशीकुर्य्याज्जगत् सदा ॥
एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः । तत्सन्निधिं त्यजेत् प्राज्ञः शक्तस्तं दण्डतो जयेत् । छलभूतैस्तु तद्रूपैरुपायैरेभिरेव वा ॥
श्रुतिस्मृतिपुराणानामभ्यासः सर्वदा हितः । साङ्गानां सोपवेदानां सकलानां नरस्य हि ॥
मृगयाक्षाः स्त्रियः पानं व्यसनानि नृणां सदा। चत्वाय्येंतानि सन्त्यज्य युक्त्या संयोजयेत् क्वचित् ॥
कूटेन व्यवहारं तु वृत्तिलोपं न कस्यचित् । न कुर्याच्चिन्तयेत् कस्य मनसाप्यहितं क्वचित् ॥
तत्कार्य्य तु सुखं यस्माद् भवेत् द्वैकालिकं दृढम् । मृते स्वर्गं जीवति च विन्द्यात्कीर्त्तिदृढां शुभाम् ॥
जागर्त्ति च सचिन्तो य आधिव्याधिनिपीडितः । जारश्चोरो बलिद्विष्टो विषयी धनलोलुपः ॥
कुसहायी कुनृपतिर्भिन्नामात्यसुहृत्प्रजः । कुर्य्याद्यथा समीक्ष्यैतत् सुखं स्वप्याच्चिरं नरः ॥
राज्ञो नानुकृतिं कुर्य्यान्न च श्रेष्ठस्य कस्यचित् । नैको गच्छेद् व्यालव्याघ्रचोरेषु च प्रबाधितुम् ॥
जिघांसन्तं जिघांसीयाद् गुरुमप्याततायिनम् । कलहे न सहायः स्यात् संरक्षेद् बहुनायकम् ॥
गुरूणां पुरतो राज्ञो न चासीत महासने । प्रौढपादो न तद्वाक्यं हेतुभिर्विकृतिं नयेत् ॥
यत् कर्त्तव्यं न जानाति कृतं जानाति चेतरः । नैव वक्ति च कर्त्तव्यं कृतं यश्चोत्तमो नरः ॥
न प्रियाकथितं सम्यङ्मन्येतानुभवं विना । अपराधं मातृस्नुषाभ्रातृपत्नीसपत्निजम् ॥
अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दया दर्पः स्त्रीणामष्टौ स्वदुर्गुणाः ॥
षोडशाब्दात् परं पुत्रं द्वादशाब्दात् परं स्त्रियम् । न ताडयेद् दुष्टवाक्यैः पीडयेन्न स्नुषादिकम् ॥
पुत्राधिकाश्च दौहित्रा भागिनेयाश्च भ्रातरः । कन्याधिकाः पालनीया भ्रातृभार्य्या स्नुषा स्वसा ॥
आगमार्थं हि यतते रक्षणार्थं हि सर्वदा । कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ॥
अनृतं साहसं मौख्यं कामाधिक्यं स्त्रियां यतः । कामाद् विनैकशयने नैव सुप्यात् स्त्रिया सह ॥
दृष्ट्वा धनं कुलं शीलं रूपं विद्यां बलं वयः । कन्यां दद्यादुत्तमं चेन्मैत्रीं कुर्य्यादथात्मनः ॥
भार्य्यार्थिनं वयोविद्यारूपिणं निर्धनं त्वपि । न केवलेन रूपेण वयसा न धनेन च ॥
आदौ कुलं परीक्षेत ततो विद्यां ततो वयः । शीलं धनं ततो रूपं देशं पश्चाद् विवाहयेत् ॥
कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥
भार्य्यार्थं वरयेत् कन्यामसमानर्षिगोत्रजाम् । भ्रातृमतीं सुकुलां च योनिदोषविवर्जिताम् ॥
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । न त्याज्यौ तु क्षणकणौ नित्यं विद्याधनार्थिना ॥
सुभार्य्यापुत्रमित्रार्थं हितं नित्यं धनार्जनम् । दानार्थं च विना त्वेतैः किं धनैश्च जनैश्च किम् ?।
भाविसंरक्षणक्षमं धनं यत्नेन रक्षयेत् । जीवामि शतवर्षं तु नन्दामि च धनेन वै ॥
इति बुद्धया सञ्चिनुयाद्धनं विद्यादिकं सदा। पञ्चविंशत्यब्दपूरं तदर्द्ध वा तदर्द्धकम् ॥
विद्याधनं श्रेष्ठतरं तन्मूलमितरद्धनम् । दानेन वर्द्धते नित्यं न भाराय न नीयते ॥

अस्ति यावत् तु सधनस्तावत् सर्वैस्तु सेव्यते । निर्धनस्त्यज्यते भार्य्यापुत्राद्यैः सगुणोऽप्यतः ॥
संसृतौ व्यवहाराय सारभूतं धनं स्मृतम् । अतो यतेत तत्प्राप्तौ नरा ह्युपायसाहसैः ॥
सुविद्यया सुसेवाभिः शौर्येण कृषिभिस्तथा । कौसीदवृद्धया पण्येन कलाभिश्च प्रतिग्रहैः । यया कया चापि वृत्त्या धनवान् स्यात्तथाचरेत् ॥
तिष्ठन्ति सधनद्वारे गुणिनः किङ्करा इव ॥
दोषा अपि गुणायन्ते दोषायन्ते गुणा अपि । धनवतो निर्धनस्य निन्द्यते निर्धनोऽखिलैः ॥
सुनिर्धनत्वं प्राप्यैके मरणं भेजिरे जनाः । ग्रामायैकेऽचलायैके नाशायैके प्रवव्रजुः ॥
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् । दास्यमेके च गच्छन्ति परेषा मर्थहेतुना ॥
यथा न जानन्ति धनं सञ्चितं कति कुत्र वै । आत्मस्त्रीपुत्रमित्राणि सलेखं धारयेत् तथा ॥
नैवास्ति लिखितादन्यत् स्मारकं व्यवहारिणाम् । न लेख्येन विना कुर्य्याद् व्यवहारं सदा बुधः ॥
निर्लोभे धनिके राज्ञि विश्वस्ते क्षमिणां वरे । सुसञ्चितं धनं धार्यं गृहीतलिखितं तु वा ॥
मैत्र्यर्थे याचितं दद्यादकुसीदं धनं सदा । तस्मिन् स्थितं चेन्न बहु हानिकृच्च तथाविधम् ॥
दृष्ट्वाधमर्ण वृद्धयापि व्यवहारक्षमं सदा । सबन्धं सप्रतिभुवं धनं दद्याच्च साक्षिमत् ॥
गृहीतलिखितं योग्यमानं प्रत्यागमे सुखम् । न दद्याद् वृद्धिलोभेन नष्टं मूलधनं भवेत् ॥
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् । धनं मैत्रीकरं दाने चादाने शत्रुकारणम् ॥
कृत्वा स्वान्ते तथौदार्यं कार्पण्यं बहिरेव च । उचितं तु व्ययं काले नरः कुर्य्यान्न चान्यथा ॥
सुभार्य्यापुत्रमित्राणि शक्त्या संरक्षयेद्धनैः । नात्मा पुनरतो त्मानं सर्वैः सर्वं पुनर्भवेत् ॥
पश्यति स्म सजीवश्चेन्नरो भद्रशतानि च । सदारप्रौढपुत्रान् द्राक् श्रेयोऽर्थी विभजेत् पिता ॥
सदारभ्रातरः प्रौढा विभजेयुः परस्परम् । एकोदरा अपि प्रायो विनाशायान्यथा खलु ॥
नैकत्र संवसेच्चापि स्त्रीद्वयं मनुजस्य तु । कथं वसेत् तद्बहुत्वं पशूनां तु नरद्वयम् ॥
विभजेयुर्न तत् पुत्रा यद्धनं वृद्धिकारणम् । अधमर्णस्थितं चापि यद्देयं चौत्तमर्णिकम् ॥
यस्येच्छेदुत्तमां मैत्रीं कुर्यान्नार्थाभिलाषकम् । परोक्षे तद्रहश्चारं तत्त्रीसम्भाषणं तथा ॥
तन्न्यूनदर्शनं नैव तत् प्रतीपविवादनम् । असाहाय्यं च तत्कायें ह्यनिष्टोपेक्षणं न च ॥
सकुसीदमकुसीदं धनं यच्चौत्तमर्णिकम् । दद्यादगृहीतमिव नोभयोः क्लेशकृद् यथा ॥
नासाक्षिमच्चालिखितमृणपत्रस्य पृष्ठतः ॥
आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः । गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ॥
उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः । कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ॥
भूत्वा महाधनः सम्यक् पोष्यवर्ग तु पोषयेत् । अदत्त्वा यत् किञ्चिदपि न नयेद् दिवसं बुधः ॥
स्थितो मृत्युमुखे चाहं क्षणमायुर्ममास्ति न । इति मत्वा दानधर्मों यथेष्टौ तु समाचरेत् ॥
न तौ विना मे परत्र सहायाः सन्ति चेतरे । दानशीलाश्रयाल्लोको वर्त्तते न शठाश्रयात् ॥
भवन्ति मित्रा दानेन द्विषन्तोऽपि च किं पुनः ॥
देवतार्थं च यज्ञार्थं ब्राह्मणार्थं गवार्थकम् । यद्दत्तं तत्पारलौक्यं संविद्दत्तं तदुच्यते ॥
वन्दिमागधमल्लादिनटनार्थं च दीयते । पारितोष्यं यशोऽर्थं तु श्रिया दत्तं तदुच्यते ॥
उपायनीकृतं यत् तु सुहृत्सम्बन्धिबन्धुषु । विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥
राज्ञे च बलिने दत्तं कार्य्यार्थं कार्य्यघातिने । पापभीत्याथवा यच्च तत् तु भीदत्तमुच्यते ॥
यद्दत्तं हिंस्त्रवृद्धयर्थं नष्टं द्यूतविनाशितम् । चौरैर्हतं पापदत्तं परस्त्रीसङ्गमार्थकम् ॥
आराधयति यं देवं तमुत्कृष्टतरं वदेत् । तन्न्यूनतां नैव कुर्य्याज्जोषयेत् तस्य सेवनम् ॥
विना दानार्जवाभ्यां न भुव्यस्ति च वशीकरम् । दानक्षीणो विवर्द्धिष्णुः शशी वक्रोऽप्यतः शुभः ॥
विचार्य्य स्नेहं द्वेषं वा कुर्य्यात् कृत्वा न चान्यथा । नापकुर्य्यान्नोपकुर्य्याद्भवतोऽनर्थकारिणौ ॥
नातिक्रौर्घ्यं नातिशाठ्यं धारयेन्नातिमार्दवम् । नातिवादं नातिकार्य्यासक्तिमत्याग्रहं न च ॥
अति सर्वं नाशहेतुर्हातोऽत्यन्तं विवर्जयेत् । उद्वेजते जनः क्रौर्य्यात् कार्पण्यादतिनिन्दति ॥
मार्दवान्नैव गणयेदपभानोऽतिवादतः । अतिदानेन दारिद्रयं तिरस्कारोऽतिलोभतः ॥
अत्याग्रहान्नरस्यैव मौख्र्वं सञ्जायते खलु । अनाचारार्द्धर्महानिरत्याचारस्तु मूर्खता ॥
ह्यधिकोऽस्मीति सर्वेभ्यो ह्यधिकज्ञानवानहम् । धर्मतत्त्वमिदमिति नैवं मन्येत बुद्धिमान् ॥
तिमिङ्गिलगिलोऽप्यस्ति तगिलोऽप्यस्ति राघवः । कश्चित्तु तद्ङ्गिलोऽस्तीति मत्वा मन्येत सर्वदा ॥
नेच्छेत् स्वाम्यं तु देवेषु गोषु च ब्राह्मणेषु च । महानर्थकरं होतत् समग्रकुलनाशनम् ॥
भजनं पूजनं सेवामिच्छेदेतेषु सर्वदा । न ज्ञायते ब्रह्मतेजः कस्मिन् कीदृक् प्रतिष्ठितम् ॥
पराधीनं नैव कुर्य्यात् तरुणीधनपुस्तकम् । कृतं चेल्लभ्यते दैवाद् भ्रष्टं नष्टं विमर्दितम् ॥
बह्वर्थं न त्यजेदल्यहेतुनाल्यं न साधयेत् । बह्वर्थव्ययतो धीमानभिमानेन वै क्वचित् ॥
बह्वर्थव्ययभीत्या तु सत्कीर्त्ति न त्यजेत् सदा। भटानामसदुक्त्या तु नेष्ये॑त् कुप्यान्न तैः सह ॥
लज्ज्यते च सुहृद् येन भिद्यते दुर्मना भवेत् । वक्तव्यं न तथा किञ्विद् विनोदेऽपि च धीमता ॥
यस्मिन् सूक्तं दुरुक्तं च समं स्याद् वा निरर्थकम् । न तत्र प्रलपेत् प्राज्ञो बधिरेष्विव गायनः ॥
व्यसने सज्जमानं हि यो मित्रं नाभिपद्यते। अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते । सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥
आजन्मसेवितं दानैर्मानैश्च परिपोषितम् । तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् । वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥
वहेदमित्रं स्कन्धेन यावत् स्यात् स्वबलाधिकः । ज्ञात्वा नष्टबलं तं तु भिन्द्याद् घटमिवाश्मनि ॥
न भूषयत्यलङ्कारो न राज्यं न च पौरुषम् । न विद्या न धनं तादृग् यादृक् सौजन्यभूषणम् ॥
अश्वे जवो वृषे धौयं मनौ कान्तिः क्षमा नृपे। हावभावौ च वेश्यायां गायके मधुरस्वरः ॥
दातृत्वं धनिके शौय्यै सैनिके बहुदुग्धता । गोषु दमस्तपस्विषु विद्वत्सु वावदूकता ॥
सभ्येष्वपक्षपातस्तु तथा साक्षिषु सत्यवाक् । अनन्यभक्तिभृत्येषु सुहितोक्तिश्च मन्त्रिषु ॥
मौनं मूर्खेषु च स्त्रीषु पातिव्रत्यं सुभूषणम् । महादुर्भूषणं चैतद् विपरीतममीषु च ॥
गृहं बहुकुटुम्बेन दीपैगोंभिः सुबालकैः । भात्येकनायकं नित्यं न गृहं बहुनायकम् ॥
न च हिंस्त्रमुपेक्षेत शक्तो हन्याच्च तत्क्षणे ॥
पैशुन्यं चण्डता चौर्य्य मात्सर्य्यमतिलोभता । असत्यं कार्य्यघातित्वं तथालसकताप्यलम् । गुणिनामपि दोषाय गुणानाच्छाद्य जायते ॥
मातुः प्रियायाः पुत्रस्य धनस्य च विनाशनम् । बाल्ये मध्ये व वार्द्धक्ये महापापफलं क्रमात् ॥
श्रीमतामनपत्यत्वमधनानां च मूर्खता । स्त्रीणां षण्डपतित्वं च न सौख्यायेष्टनिर्गमः ॥
मूर्खः पुत्रोऽथवा कन्या चण्डी भार्य्या दरिद्रता । नीचसेवा ऋणं नित्यं नैतत् षट्कं सुखाय च ॥
नाध्यापने नाध्ययने न देवे न गुरौ द्विजे । न कलासु न सङ्गीते सेवायां नार्जवे स्त्रियाम् ॥
न शौयें न च तपसि साहित्ये रमते मनः । यस्य मुक्तः खलः किं वा नररूपपशुश्च सः ॥
अन्योदयासहिष्णुश्च छिद्रदर्शी विनिन्दकः । द्रोहशीलः स्वान्तमलः प्रसन्नास्यः खलः स्मृतः ॥

एकस्यैव न पर्याप्तमस्ति यद् ब्रह्मकोशजम् । आशया वर्द्धितस्यास्ति तस्याल्पमपि पूर्त्तिकृत् ॥
करोत्यकार्य्य साशोऽन्यं बोधयत्यनुमोदते ॥
भवन्त्यन्योपदेशार्थे धूर्त्ताः साधुसमाः सदा । स्वकार्य्यार्थं प्रकुर्वन्ति ह्यकार्याणां शतन्तु ते ॥
पित्रोराज्ञां पालयति सेवने च निरालसः । छायेव वर्त्तते नित्यं यतते चागमाय वै ॥
कुशलः सर्वविद्यासु स पुत्रः प्रीतिकारकः । दुःखदो विपरीतो यो दुर्गुणो धननाशकः ॥
पत्यौ नित्यं चानुरक्ता कुशला गृहकर्मणि । पुत्रप्रसूः सुशीला या प्रिया पत्युः सुयौवना ॥
पुत्रापराधान् क्षमते या पुत्रपरिपोषिणी । सा माता प्रीतिदा नित्यं कुलटान्यातिदुःखदा ॥
विद्यागमार्थं पुत्रस्य वृत्त्यर्थं यतते च यः । पुत्रं सदा साधु शास्ति प्रीतिकृत् स पितानृणी ॥
यः सहायं सदा कुर्य्यात् प्रतीपं न वदेत् क्वचित् । सत्यं हितं वक्ति याति दत्ते गृह्णाति मित्रताम् ॥
नीचस्यातिपरिचयो ह्यन्यगेहे सदा गतिः । जातौ सड्डे प्रातिकूल्यं मानहान्यै दरिद्रता ॥
व्याघ्राग्निसर्पहिंस्त्राणां न हि सङ्घर्षणं हितम् । सेवितत्वात्तु राज्ञो नैते मित्राः कस्य सन्ति किम् ? ॥
दौर्मनस्यं च सुहृदां सुप्राबल्यं रिपोः सदा। विद्वत्स्वपि च दारिद्र्यं दारिद्र्ये बह्वपत्यता ॥
धनिगुणिवैद्यनृपजलहीने सदा स्थितः । दुःखाय कन्यकाप्येका पित्रोरपि च याचनम् ॥
सुरूपः सधनः स्वामी विद्वानपि बलाधिकः । न कामयेद् यथेष्टं यत् स्त्रीणां नैव सुसौख्यकृत् ॥
यो यथेष्टं कामयते स्त्री तस्य वशगा भवेत् । सन्धारणाल्लालनाच्च यथा याति वशं शिशुः ॥
कार्यं तत्साधकादींश्च तद्व्ययं सुविनिर्गमम् । विचिन्त्य कुरुते ज्ञानी नान्यथा लघ्वपि क्वचित् ॥
न च व्ययाधिकं कार्यं कर्तुमीहेत पण्डितः । लाभाधिक्यं यत् क्रियते तत् सेव्यं व्यवसायिभिः । मूल्यं मानञ्च पण्यानां याथात्म्यान्मृग्यते सदा ॥
तपः स्त्रीकृषिसेवासूपभोग्ये नापि भक्षणे। हितः प्रतिनिधिर्नित्यं काव्येंऽन्ये तं नियोजयेत् ॥
निर्जनत्वं मधुरभुम् जारश्चोरः सदेच्छति । साहाय्यन्तु बलिद्विष्टो वेश्या धनिकमित्रताम् ॥
कुनृपश्च छलं नित्यं स्वामिद्रव्यं कुसेवकः । तत्त्वन्तु ज्ञानवान् दम्भं तपोऽग्नि देवजीवकः ॥
योग्या कान्तं च कुलटा जारं वैद्यं च व्याधितः । धृतपण्यो महार्घत्वं दानशीलन्तु याचकः । रक्षितारं मृगयते भीतश्छिद्रन्तु दुर्जनः ॥
चण्डायते विवदते स्वपित्यश्नाति मादकम् । करोति निष्फलं कर्म मूर्खा वा स्वेष्टनाशनम् ॥
तमोगुणाधिकं क्षात्रं ब्राह्यं सत्त्वगुणाधिकम् । अन्यद्रजोऽधिकं तेजस्तेषु सत्त्वाधिकं वरम् ॥
सर्वाधिको ब्राह्मणस्तु जायते हि स्वकर्मणा । तत्तेजसोऽनुतेजांसि सन्ति च क्षत्रियादिषु ॥
स्वधर्मस्थं ब्राह्मणं हि दृष्ट्वा बिभ्यति चेतरे । क्षत्रियाद्या नान्यथा स्वधर्मञ्चातः समाचरेत् ॥
न स्यात् स्वधर्महानिस्तु यया वृत्त्या च सा वरा । स देशः प्रवरो यत्र कुटुम्बपरिपोषणम् ॥
कृषिस्तु चोत्तमा वृत्तिर्या सरिन्मातृका मता । मध्यमा वैश्यवृत्तिस्तु शूद्रवृत्तिस्तु चाधमा ॥
याच्ञाधमतरा वृत्तिद्युत्तमा सा तपस्विषु । क्वचित् सेवोत्तमा वृत्तिर्धर्मशीलनृपस्य च ॥
आध्वर्य्यवादिकं कर्म कृत्वा या गृह्यते भृतिः । सा किं महाधनायैन ? वाणिज्यमलमेव किम् ? ॥
राजसेवां विना द्रव्यं विपुलं नैव जायते । राजसेवातिगहना बुद्धिमद्भिर्विना न सा। कर्तुं शक्या चेतरेण ह्यसिधारेव सा सदा ॥
व्यालग्राही यथा व्यालं मन्त्री मन्त्रबलात् नृपम् । करोत्यधीनन्तु नृपे भयं बुद्धिमतां महत् ॥
ब्राह्यं तेजो बुद्धिमत्सु क्षात्रं राज्ञि प्रतिष्ठितम् । आरादेव सदा चास्ति तिष्ठन् दूरेऽपि बुद्धिमान् ॥
बुद्धिपाशैर्बन्धयित्वा सन्ताडयति कर्षति । समीपस्थोऽपि दूरेऽस्ति ह्यप्रत्यक्षसहायवान् ॥
नानुवाकहता बुद्धिर्व्यवहारक्षमा भवेत् । अनुवाकहता या तु न सा सर्वत्रगामिनी ॥
तथादौ पादगमनं यानगत्वमनन्तरम् । सुखाय कल्पते नित्यं दुःखाय विपरीतकम् ॥
वरं हि त्वनपत्यत्वं मृतापत्यवतः सदा । दुष्टयानात् पादगमो ह्यौदासीन्यं विरोधतः ॥
वरं देशाच्छादनतश्चर्मणा पादगूहनम् । ज्ञानलवदौर्विदग्ध्यादज्ञता प्रवरा मता ॥
परगृहनिवासाद्धधरण्ये निवसनं वरम् । प्रदुष्टभार्य्यागार्हस्थ्याद् भैक्ष्यं वा मरणं वरम् ॥
श्वमैथुनमृणं गर्भाधानं स्वामित्वमेव च । खलसख्यमपथ्यन्तु प्राक् सुखं दुःखनिर्गमम् ॥
कुमन्त्रिभिर्नृपो रोगी कुवैद्यैः कुनृपैः प्रजा । कुसन्तत्या कुलं चात्मा कुबुद्ध्या हीयतेऽनिशम् ॥
हस्त्यश्ववृषबालस्त्रीशुकानां शिक्षको यथा । तथा भवन्ति ते नित्यं संसर्गगुणधारकाः ॥
स्याज्जयोऽवसरोक्त्या सद्वसनैः सुप्रसिद्धता । सभायां विद्यया मानस्त्रितयं त्वधिकारतः ॥
सुभार्य्या सुष्ठु चापत्यं सुविद्या सुधनं सुहृत् । सुदासदास्यौ सद्देहः सद्देश्म सुनृपः सदा । गृहिणां हि सुखाचालं दशैतानि न चान्यथा ॥
वृद्धाः सुशीला विश्वस्ताः सदाचाराः स्त्रियो नराः । क्लीवा वान्तःपुरे योज्या न युवा मित्रमप्युत ॥
कालं नियम्य कार्य्याणि ह्याचरेन्नान्यथा क्वचित् । गवादिष्वात्मवज्ञानमात्मानं चार्थधर्मयोः । नियुञ्जीतान्नसंसिद्ध्यै मातरं शिक्षणे गुरुम् ॥
गच्छेदनियमेनैव सदैवान्तःपुरं नरः ॥
भार्य्यानपत्या सद्यानं भारवाही सुरक्षकः । परदुःखहरा विद्या सेवकश्च निरालसः । षडेतानि सुखायालं प्रवासे तु नृणां सदा ॥
मार्गं निरुध्य न स्थेयं समर्थेनापि कर्हिचित् । सद्यानेनापि गच्छेन्न हट्टमार्गे नृपोऽपि च ॥
ससहायः सदा च स्यादध्वगो नान्यथा क्वचित् । समीपसन्मार्गजलाभयग्रामेऽध्वगो वसेत् ॥
अतादृशे च विरमेन्न मार्गे विपिनेऽपि न ॥
अत्यटनं चानशनमतिमैथुनमेव च । अत्यायासश्च सर्वेषां द्राग्जराकरणं महत् ॥
अत्यायासो हि विद्यासु जराकारी कलासु च ॥
दुर्गुणं तु गुणीकृत्य कीर्त्तयेत् स प्रियो भवेत् । गुणाधिक्यं कीर्त्तयति यः किं स्यान्न पुनः सखा ? ॥
दुर्गुणं वक्ति सत्येन प्रियोऽपि सोऽप्रियो भवेत् । गुणं हि दुर्गुणीकृत्य वक्ति यः स्यात् कथं प्रियः ? ॥
स्तुत्या वशं यान्ति देवा ह्यञ्जसा किं पुनर्नराः ? । प्रत्यक्षं दुर्गुणान् नैव वक्तुं शक्नोति कोऽप्यतः ॥
स्वदुर्गुणान् स्वयं चातो विमृशेल्लोकशास्त्रतः ॥
स्वदुर्गुणश्रवणतो यस्तुष्यति न कुध्यति । स्वदोषस्य प्रविज्ञाने यतते त्यजति श्रुते । स्वगुणश्रवणान्नित्यं समस्तिष्ठति नाधिकः ॥
दुर्गुणानां खनिरहं गुणाधानं कथं मयि ? । मय्येव चाज्ञताप्यस्ति मन्यते सोऽधिकोऽखिलात् ॥
स साधुस्तस्य देवा हि कलालेशं लभन्ति न ॥
सदाल्पमप्युपकृतं महत् साधुषु जायते । मन्यते सर्षपादल्पं महच्चोपकृतं खलः ॥
क्षमिणं बलिनं साधुर्मन्यते दुर्जनोऽन्यथा । दुरुक्तमप्यतः साधोः क्षमयेद् दुर्जनस्य न ॥
तथा न क्रीडयेत् कैश्चित् कलहाय भवेद् यथा । विनोदेऽपि वदेन्नैवं ते भार्य्या कुलटास्ति किम् ॥
अपशब्दाश्च नो वाच्या मित्रभावाच्च केष्वपि । गोप्यं न गोपयेन्मित्रे तद्‌गोप्यं न प्रकाशयेत् ॥
वैरीभूतोऽपि पश्चात् प्राक्कथितं वापि सर्वदा। विज्ञातमपि यद् दौष्ट्यं दर्शयेत्तन्न कर्हिचित् ॥
प्रतिकर्तुं यतेतैव गुप्तः कुर्य्यात् प्रतिक्रियाम् ॥
यथार्थमपि न ब्रूयाद् बलवद् विपरीतकम् । दृष्टं त्वदृष्टवत् कुर्य्याच्छ्रतमप्यश्रुतं क्वचित् ॥
मूकोऽन्धो बधिरः खञ्जः स्वापत्काले भवेन्नरः । अन्यथा दुःखमाप्नोति हीयते व्यवहारतः ॥
वदेद् वृद्धानुकूलं यन्न बालसदृशं क्वचित् । परवेश्मगतस्तत् स्त्रीवीक्षणं न च कारयेत् ॥

अधनादननुज्ञातान्न गृहणीयात् तु स्वामिताम् । स्वशिशुं शिक्षयेदन्यशिशुं नाप्यपराधिनम् ॥
अधर्मनिरतो यस्तु नीतिहीनश्चलान्तरः । सङ्कर्षकोऽतिदण्डी तद्द्यामं त्यक्त्वान्यतो वसेत् ॥
यथार्थमपि विज्ञातमुभयोर्वादिनोर्मतम् । अनियुक्तो न वै ब्रूयाद्धीनः शत्रुर्भवेदतः ॥
गृहीत्वान्यविवादं तु विवदेन्नैव केनचित् । मिलित्वा सङ्घशो राजमन्त्रं नैव तु तर्कयेत् ॥
अज्ञातशास्त्रो, ने ब्रूयात् ज्योतिषं धर्मनिर्णयम् । नीति दण्डं चिकित्साञ्च प्रायश्चित्तं क्रियाफलम् ॥
पारतन्त्र्यात् परं दुःखं न स्वातन्त्र्यात् परं सुखम् । अप्रवासी गृही नित्यं स्वतन्त्रः सुखमेधते ॥
नूतनप्राक्तनानां च व्यवहारविदां धिया । प्रतिक्षणं चाभिनवो व्यवहारो भवेदतः ॥
वक्तुं न शक्यते प्रायः पत्यक्षादनुमानतः । उपमानेन तज्ज्ञानं भवेदाप्तोपदेशतः ॥
कथितं तु समासेन सामान्यं नृपराष्ट्रयोः । नीतिशास्त्रं हितायालं यद् विशिष्टं नृपे स्मृतम् ॥
चतुर्थ अध्याय
सुहृदादि लक्षण प्रकरण
अथ मिश्रप्रकरणं प्रवक्ष्यामि समासतः । लक्षणं सुहृदादीनां समासाच्छृणुताधुना ॥
मित्रः शत्रुश्चतुर्धा स्यादुपकारापकारयोः । कर्ता कारयिता चानुमन्ता यश्च सहायकः ॥
यस्य सुद्रवते चित्तं परदुःखेन सर्वदा । इष्टार्थे यततेऽन्यस्याप्रेरितः सत्करोति यः ॥
आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् । प्रोक्तोत्तमोऽयमन्यश्च त्रिद्वयेकपद‌मित्रकः ॥
अनन्यस्वत्वकामत्वमेकस्मिन् विषये द्वयोः । वैरिलक्षणमेतद् वान्येष्टनाशनकारिता ॥
भ्रात्रभावे पितृद्रव्यमखिलं मम वै भवेत् । न स्यादेतस्य वश्येऽयं ममैव स्यात् परस्परम् ॥
भोक्ष्येऽखिलमहं चैतद्विनान्यं स्तः सुवैरिणौ । द्वेष्टि द्विष्ट उभौ शत्रू स्तश्चैकतरसंज्ञकौ ॥
शूरस्योत्थानशीलस्य बलनीतिमतः सदा । सर्वे मित्रा गूढवैरा नृपाः कालप्रतीक्षकाः ॥
भवन्तीति किमाश्चर्य्यं राज्यलुब्धा न ते हि किम् ? । न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै ॥
प्रायः कृत्रिममित्रे ते भवतश्च परस्परम् । केचित् स्वभावतो मित्राः शत्रवः सन्ति सर्वदा
माता मातृकुलं चैव पिता तत् पितरौ तथा । पितृपितृव्यात्मकन्या पत्नी तत् कुलमेव हि ॥
पितृमात्रात्मभगिनीकन्यकासन्ततिश्च या । प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥
विद्या शौर्य्यञ्च दाक्ष्यञ्च बलं धैर्य्यञ्च पञ्चमम् । मित्राणि सहजान्याहुर्वर्त्तयन्ति हि तैर्बुधाः ॥
पित्रोर्निदशवर्ती यः स पुत्रोऽन्वर्थनामवान् । श्रेष्ठ एकस्तु गुणवान् किं शतैरपि निर्गुणैः ॥
स्वभावतो भवन्त्येते हिंस्रो दुर्वृत्त एव च । ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥
आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च शत्रवः । स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ॥
मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः । चण्डश्चण्डा प्रजा शत्रुरदाता धनिकश्च यः ॥
दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता । साधुः खलानां शत्रुः स्यान्मूर्खाणां बोधको रिपुः ॥
उपदेशो हि मूर्खाणां क्रोधायैव शमाय न । पयःपानं भुजङ्गानां विषायैवामृताय न ॥
आसमन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः । तत्परास्तत्परा येऽन्ये क्रमाद्धीनबलारयः ॥
शत्रूदासीनमित्राणि क्रमात् ते स्युस्तु प्राकृताः । अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ॥
क्रमशो वा नृपा ज्ञेयाश्चतुर्दिक्षु तथारयः । स्वसमीपतरा भृत्या ह्यमात्याद्याश्च कर्षिताः ॥
बृंहयेत् कर्षयेत् मित्रं हीनाधिकबलं क्रमात् ॥
भेदनीया कर्षणीयाः पीडनीयाश्च शत्रवः । विनाशनीयास्ते सर्वे सामादिभिरुपक्रमैः ॥
मित्रं शत्रुं यथायोग्यैः कुर्य्यात् स्ववशवर्त्तिनम् । उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥
भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपायतः ॥
सुहृत्सम्बन्धिस्त्रीपुत्रप्रजाशत्रुषु ते पृथक् । सामदानभेददण्डाश्चिन्तनीयाः स्वयुक्तितः॥
एकशीलवयोविद्याजातिव्यसनवृत्तयः साहचर्य्ये भवेन्मित्रमेभिर्यदि तु सार्जवैः ॥
त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम् । मम सर्वं तवैवास्ति दानं मित्रे सजीवितम् ॥
मित्रेऽन्यमित्रसुगुणान् कीर्त्तयेद् भेदनं हि तत् । मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत् ॥
यो न संयोजयेदिष्टमन्यानिष्टमुपेक्षते । उदासीनः स न कथं भवेच्छत्रुः सुसान्धिकः ? ॥
परस्परमनिष्टं न चिन्तनीयं त्वया मया । सुसाहाय्यं हि कर्त्तव्यं शत्रौ साम प्रकीर्त्तितम् ॥
करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुम् । तोषयेत् तद्धि दानं स्याद् यथायोग्येषु शत्रुषु ॥
शत्रुसाधकहीनत्वकरणात् प्रबलाश्रयात् । तद्धीनतोज्जीवनाच्च शत्रुभेदनमुच्यते ॥
दस्युभिः पीडनं शत्रोः कर्षणं धनधान्यतः । तच्छिद्रदर्शनादुग्रबलैर्नीत्या प्रभीषणम् । प्राप्तयुद्धानिवृत्तित्वैस्त्रासनं दण्ड उच्यते

क्रियाभेदादुपाया हि भिद्यन्ते च यथार्हतः ॥
सर्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः । यथा स्वाभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥
सामैव प्रथमं श्रेष्ठं दानं तु तदनन्तरम् । सर्वथा भेदनं शत्रोर्दण्डनं प्राणसंशये ॥
प्रबलेऽरौ सामदानौ सामभेदोऽधिके स्मृतौ । भेददण्डौ समे कार्य्यौ दण्डः पूज्यः प्रहीनके ॥
मित्रे च सामदानौ स्तो न कदा भेददण्डने ॥
रिपोः प्रजानां सम्भेदपीडनं स्वजयाय वै । रिपुप्रपीडितानां च साम्ना दानेन सङ्ग्रहः । गुणवतां च दुष्टानां हितं निर्वासनं सदा ॥
स्वप्रजानां न भेदेन नैव दण्डेन पालनम् । कुर्वीत सामदानाभ्यां सर्वदा यत्नमास्थितः ॥
स्वप्रजादण्डभेदैश्च भवेद्राज्यविनाशनम् । हीनाधिका यथा न स्युः सदा रक्ष्यास्तथा प्रजाः ॥
निवृत्तिरसदाचाराद् दमनं दण्डतश्च तत् । येन सन्दम्यते जन्तुरुपायो दण्ड एव सः ॥
स उपायो नृपाधीनः स सर्वस्य प्रभुर्यतः ॥
निर्भर्त्सनं चापमानोऽनशनं बन्धनं तथा । ताडनं द्रव्यहरणं पुरान्निर्वासनाङ्कने ॥
व्यस्त क्षौरमसद्यानमङ्गच्छेदो वधस्तथा । युद्धेमेते ह्युपायाश्च दण्डस्यैव प्रभेदकाः ॥
जायते धर्मनिरता प्रजा दण्डभयेन च । करोत्याधर्षणं नैव तथा चासत्यभाषणम् ॥
क्रूराश्च मार्दवं यान्ति दुष्टा दौष्ठ्यं त्यजन्ति च । पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः ॥
पिशुना मूकतां यान्ति भयं यान्त्याततायिनः । करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे । अतो दण्डधरो नित्यं स्यात् नृपो धर्मरक्षणे ॥
गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः । उत्पथप्रतिपन्नस्य कार्य्यं भवति शासनम् ॥
राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः । दण्ड एव हि धर्माणां शरणं परमं स्मृतम् ॥
अहिंसैवासाधुहिंसा पशुवच्छ्रुतिचोदनात् । श्रुतिचोदनात् पशुवत् असाधुनाम् हिंसा अहिंसा एव ॥
दण्ड्यस्यादण्डनान्नित्यमदण्ड्यस्य च दण्डनात् । अतिदण्डाच्च गुणिभिस्त्यज्यते पातकी भवेत् ॥
अल्पदानात् महत् पुण्यं दण्डप्रणयनात् फलम् । शास्त्रेषुक्तं मुनिवरैः प्रवृत्त्यर्थं भयाय च ॥
अश्वमेधादिभिः पुण्यं तत् किं स्यात् स्तोत्रपाठतः ? । क्षमया यत्तु पुण्यं स्यात्तत् किं दण्डनिपातनात् ? ॥
स्वप्रजादण्डनाच्छ्रेयः कथं राज्ञो भविष्यति ? । तद्दण्डाज्जायते कीर्त्तिधनपुण्यविनाशनम् ॥
नृपस्य धर्मपूर्णत्वाद् दण्डः कृतयुगे न हि । त्रेतायुगे पूर्णदण्डः पादाधर्माः प्रजा यतः ॥
द्वापरे चार्द्धधर्मत्वात् त्रिपाद्दण्डो विधीयते । प्रजा निःस्वा राजदौष्ट्याद् दण्डार्द्धं तु कलौ तथा ॥
युगप्रवर्त्तको राजा धर्माधर्मप्रशिक्षणात् । युगानां न प्रजानां न दोषः किन्तु नृपस्य हि ॥
प्रसन्नो येन नृपतिस्तदाचरति वै जनः । लोभाद्भयाच्च किं तेन शिक्षितं नाचरेत् कथम् ? ॥
सुपुण्यो यत्र नृपतिर्धर्मिष्ठास्तत्र हि प्रजाः । महापापी यत्र राजा तत्राधर्मपरो जनः ॥
न कालवर्षी पर्जन्यस्तत्र भूर्न महाफला । जायते राष्ट्रहासश्च शत्रुवृद्धिर्धनक्षयः॥
राप्यपि वरो राजा न स्त्रैणो नातिकोपवान् । लोकांश्चण्डस्तापयति स्त्रैणो वर्णान् विलुम्पति ॥
मद्यप्येकश्च भ्रष्टः स्याद् बुद्ध्या च व्यवहारतः । कामक्रोधौ मद्यतमौ सर्वमद्याधिकौ यतः ॥
धनप्राणहरो राजा प्रजायाश्चातिलोभतः । तस्मादेतत् त्रयं त्यक्त्वा दण्डधारी भवेत् नृपः ॥
अन्तर्मृदुर्बहिः क्रूरो भूत्वा स्वां दण्डयेत् प्रजाम् । अत्युग्रदण्डकल्पः स्यात् स्वभावा हितकारिणः ॥
राष्ट्रं कर्णेजपैर्नित्यं हन्यते च स्वभावतः । अतो नृपः सूचितोऽपि विमृशेत् कार्य्यमादरात् ॥
आत्मनश्व प्रजायाश्च दोषदर्श्युत्तमो नृपः । विनियच्छति चात्मानमादौ भृत्यांस्ततः प्रजाः ॥
कायिको वाचिको मानसिकः सांसर्गिकस्तथा । चतुर्विधोऽपराधः स बुद्धयबुद्धिकृतो द्विधा ॥
पुनर्द्विधा कारितश्च तथा ज्ञेयोऽनुमोदितः । सकृदसकृदभ्यस्तस्वभावैः स चतुर्विधः ॥
नेत्रवक्त्रविकाराद्यैर्भावैर्मानसिकं तथा । क्रियया कायिकं वीक्ष्य वाचिकं क्रूरशब्दतः ॥
सांसर्गिकं साहचर्यैर्ज्ञात्वा गौरवलाघवम् । उत्पन्नोत्पत्स्यमानानां कार्य्याणां दण्डमावहेत् ॥
प्रथमं साहसं कुर्वन्नुत्तमो दण्डमर्हति । न्याय्यं किमिति सम्पृच्छेत् तवैवेयमसत् कृतिः ? ॥
अपराधं यथोक्तं च द्विगुणं त्रिगुणं ततः । मध्यमं साहसं कुर्वन्नुत्तमो दण्डमर्हति ॥
धिग्दण्डं प्रथमं चाद्यसाहसं तदनन्तरम् । यथोक्तं तु तथा सम्यग् यथावृद्धि ह्यनन्तरम् ॥
उत्तमं साहसं कुर्वन्नुत्तमो दण्डमर्हति ॥
प्रथमं साहसं चादौ मध्यमं तदनन्तरम् । यथोक्तं द्विगुणं पश्चादवरोधं ततः परम् ॥
बुद्धिपूर्वनृघातेन विनैतद् दण्डकल्पनम् ॥
उत्तमत्वं मध्यमत्वं नीचत्वं चात्र कीर्त्यते । गुणेनैव तु मुख्यं हि कुलेनापि धनेन च ॥
प्रथमं साहसं कुर्वन् मध्यमो दण्डमर्हति । धिग्दण्डमर्द्धदण्डं च पूर्णदण्डमनुक्रमात् ॥
द्विगुणं त्रिगुणं पश्चात् संरोधं नीचकर्म च । मध्यमं साहसं कुर्वन् मध्यमो दण्डमर्हति ॥
पूर्वसाहसमादौ तु यथोक्तं द्विगुणं ततः । ताडनं बन्धनं पश्चात् पुरान्निर्वासनाङ्कने । उत्तमं साहसं कुर्वन् मध्यमो दण्डमर्हति ॥
मध्यमं साहसं चादौ यथोक्तं तदनन्तरम् । द्विगुणं त्रिगुणं पश्चाद् यावज्जीवं तु बन्धनम् । प्रथमं साहसं कुर्वन्नधमो दण्डमर्हति ॥
अर्द्धं यथोक्तं द्विगुणं त्रिगुणं बन्धनं ततः । मध्यमं साहसं कुर्वन्नधमो दण्डमर्हति ॥
पूर्वसाहसमादौ तु यथोक्तं द्विगुणं ततः । ततः संरोधनं नित्यं मार्गसंस्करणार्थकम् । उत्तमं साहसं कुर्वन् अधमो दण्डमर्हति ॥
मध्यमं साहसं चादौ यथोक्तं द्विगुणं ततः । यावज्जीवं बन्धनं च नीचकर्मैव केवलम् ॥
हरेत् पादं धनात् तस्य यः कुर्य्याद्धनगर्वतः । पूर्वं ततोऽर्द्धमखिलं यावज्जीवं तु बन्धनम् ॥
सहायगौरवाद् विद्यामदाच्च बलदर्पतः । पापं करोति यस्तं तु बन्धयेत् ताडयेत् सदा ॥
भार्य्या पुत्रश्च भगिनी शिष्यो दासः स्नुषानुजः । कृतापराधास्ताड्यास्ते तनुरज्जुसुवेणुभिः ॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । अतोऽन्यथा तु प्रहरंश्चोरवद्दण्डमर्हति ॥
नीचकर्मकरं कुर्य्याद् बन्धयित्वा तु पापिनम् । मासमात्रं त्रिमासं वा षण्मासं वापि वत्सरम् । यावज्जीवं तु वा कश्चित् न कश्चिद् वधमर्हति ॥
न निहन्याच्च भूतानि त्विति जागर्त्ति वै श्रुतिः । तस्मात् सर्वप्रयत्नेन वधदण्डं त्यजेत् नृपः ॥
अवरोधाद् बन्धनेन ताडनेन च कर्षयेत् । लोभान्न कर्षयेद्राजा धनदण्डेन वै प्रजाम् ॥
नासहायास्तु पित्राद्या दण्ड्याः स्युरपराधिनः । क्षमाशीलस्य वै राज्ञो दण्डग्रहणमीदृशम् ॥
नापराधं तु क्षमते प्रदण्डो धनहारकः । नृपो यदा तदा लोकः क्षुभ्यते भिद्यते परैः ॥
अतः सुभागदण्डी स्यात् क्षमावान् रञ्जको नृपः ॥
मद्यपः कितवः स्तेनो जारश्चण्डश्च हिंसकः । त्यक्तवर्णाश्रमाचारो नास्तिकः शठ एव हि ॥
मिथ्याभिशापकः कर्णेजपार्य्यदेवदूषकौ । असत्यवाङ्न्यासहारी तथा वृत्तिविघातकः ॥
अन्योदयासहिष्णुश्च ह्युत्कोचग्रहणे रतः । अकार्य्यकर्त्ता मन्त्राणां कार्य्याणां भेदकस्तथा । अनिष्टवाक् परुषवाग्जलारामप्रबाधकः । नक्षत्रसूची राजद्विट् कुमन्त्री कूटकार्य्यवित् ॥
कुवैद्यामङ्गलाशौचशीलो मार्गनिरोधकः । कुसाक्ष्युद्धतवेशश्च स्वामिद्रोही व्ययाधिकः ॥
अग्निदो गरदो वेश्यासक्तः प्रबलदण्डकृत् । तथा पाक्षिकसभ्यश्च बलाल्लिखितग्राहकः ॥
अन्यायकारी कलहशीलो युद्धे पराङ्‌मुखः । साक्ष्यलोपी पितृमातृसतीस्त्रीमित्रद्रोहकः ॥

असूयकः शत्रुसेवी मर्मभेदी च वञ्चकः । स्वकीयद्विड्गुप्तवृत्तिर्वृषलो ग्रामकण्टकः ॥
विना कुटुम्बभरणात् तपोविद्यार्थिनः सदा । तृणकाष्ठादिहरणे शक्तः सन् भैक्ष्यभोजकः ॥
कन्याया अपि विक्रेता कुटुम्बवृत्तिह्रासकः । अधर्मासूचकश्चापि राजानिष्टमुपेक्षकः ॥
कुलटा पतिपुत्रघ्नी स्वतन्त्रा वृद्धनिन्दिता । गृहकृत्योज्झिता नित्यं दुष्टाचाराप्रियस्नुषा । स्वभावदुष्टानेतान् हि ज्ञात्वा राष्ट्राद् विवासयेत् ॥
द्वीपे निवासितव्यास्ते बद्ध्वा दुर्गोदरेऽथवा। मार्गसंस्करणे योज्याः कदन्नन्यूनभोजनाः॥
तत् तत् जात्युक्तकर्माणि कारयीत च तैर्नृपः॥
एवंविधानसाधूंश्च संसर्गेण च दूषितान्। दण्डयित्वा च सन्मार्गे शिक्षयेत् तान् नृपः सदा॥
राज्ञो राष्ट्रस्य विकृतिं तथा मन्त्रिगणस्य च। इच्छन्ति शत्रुसम्बन्धाद्ये तान् हन्याद्धि द्राङ्नृपः॥
नेच्छेच्च युगपद् ह्रासं गणदौष्ट्ये गणस्य च। एकैकं घातयेद्राजा वत्सोऽश्नाति यथा स्तनम्॥
अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः। धर्मशीलातिबलवद्रिपोराश्रयतः सदा॥
यावत् तु धर्मशीलः स्यात् स नृपस्तावदेव हि। अन्यथा नश्यते लोको द्राङ्नृपोऽपि विनश्यति॥
मातरं पितरं भार्य्यां यः सन्त्यज्य विवर्त्तते। निगडैर्बन्धयित्वा तं योजयेन्मार्गसंस्कृतौ। तद्भृत्यर्द्धं तु सन्दद्यात् तेभ्यो राजा प्रयत्नतः॥
विद्यात् पणसहस्रं तु दण्ड उत्तमसाहसः। दशमाषमितं ताम्रं तत् पणो राजमुद्रितम्। वराटिसार्द्धशतकमूल्यः कार्षापणश्च सः॥
तदर्द्धश्च तदर्द्धश्च मध्यमः प्रथमः क्रमात्। प्रथमे साहसे दण्डः प्रथमश्च क्रमात् परौ॥
मध्यमे मध्यमो धार्यश्चोत्तमे तूत्तमो नृपैः। सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः॥
चतुर्थ अध्याय
कोश निरूपण प्रकरण
अथ कोशप्रकरणं ब्रुवे मिश्रे द्वितीयकम् । एकार्थसमुदायो यः स कोशः स्यात् पृथक् पृथक् ॥
येन केन प्रकारेण धनं सञ्चिनुयात् नृपः । तेन संरक्षयेद्राष्ट्रं बलं यज्ञादिकाः क्रियाः ॥
बलप्रजारक्षणार्थं यज्ञार्थं कोशसङ्ग्रहः । परत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥
स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम् । नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥
अन्यायेनार्जितो यस्माद् येन तत् पापभाक् च सः । सुपात्रतो गृहीतं यद् दत्तं वा वर्द्धते च तत् ॥
स्वागमी सद्व्ययी पात्रमपात्रं विपरीतकम् । अपात्रस्य हरेत् सर्वं धनं राजा न दोषभाक् ॥
अधर्मशीलात् नृपतिः सर्वशः संहरेद्धनम् । छलाद् बलाद् दस्युवृत्त्या परराष्ट्राद्धरेत् तथा ॥
त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम् । सञ्चितं येन तत्तस्य सराज्यं शत्रुसाद्भवेत् ॥
दण्डभूभागशुल्कानामाधिक्यात् कोशवर्द्धनम् । अनापदि न कुर्वीत तीर्थदेवकरग्रहात् ॥
यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः । विशिष्टदण्डशुल्कादि धनं लोकात् तदा हरेत् ॥
धनिकेभ्यो भृतिं दत्त्वा स्वापत्तौ तद्धनं हरेत् । राजा स्वापत्समुत्तीर्णस्तत् स्वं दद्यात् सवृद्धिकम् ॥
प्रजान्यथा हीयते च राज्यं कोशो नृपस्तथा । हीनाः प्रबलदण्डेन सुरथाद्या नृपा यतः ॥
दण्डभूभागशुल्कैस्तु विना कोशाद् बलस्य च । संरक्षणं भवेत् सम्यग् यावद्विशतिवत्सरम् । तथा कोणस्तु सन्धार्य्यः स्वप्रजारक्षणक्षमः ॥
बलमूलो भवेत् कोशः कोशमूलं बलं स्मृतम् । बलसंरक्षणात् कोशराष्ट्रवृद्धिररिक्षयः ॥
जायते तत् त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥
यज्ञार्थं द्रव्यमुत्पन्नं यज्ञः स्वर्गसुखायुषे । अर्य्यभावो बलं कोशो राष्ट्रवृद्धयै त्रयं त्विदम् ॥
तद् वृद्धिर्नीतिनैपुण्यात् क्षमाशीलनृपस्य च । जायतेऽतो यतेतैव यावत् बुद्धिबलोदयम् ॥
मालाकारस्य वृत्त्यैव स्वप्रजारक्षणेन च । शत्रुं हि करदीकृत्य तद्धनैः कोशवर्द्धनम् ॥
करोति स नृपश्रेष्ठो मध्यमो वैश्यवृत्तितः । अधमः सेवया दण्डतीर्थदेवकरग्रहैः ॥
प्रजा हीनधना रक्ष्या भृत्या मध्यधनाः सदा । यथाधिकृत् प्रतिभुवोऽधिकद्रव्यास्तथोत्तमाः ॥
धनिकाश्चोत्तमधना न हीना नाधिका नृपैः ॥
द्वादशाब्दप्रपूरं यद्धनं तन्नीचसंज्ञकम् । पर्याप्तं षोडशाब्दानां मध्यमं तद्धनं स्मृतम् । त्रिंशदब्दप्रपूरं यत् कुटुम्बस्योत्तमं धनम् ॥
क्रमादर्थं रक्षयेद् वा स्वापत्तौ नृप एषु वै ॥
मूलैर्व्यवहरन्त्यघैर्न वृद्धया वणिजः क्वचित् । विक्रीणन्ति महार्घे तु हीनार्घे सञ्चयन्ति हि ॥
व्यवहारे धृतं वैश्यैस्तद्धनेन विना सदा । अन्यथा स्वप्रजातापो नृपं दहति सान्वयम् ॥
धान्यानां सङ्ग्रहः कार्य्यो वत्सरत्रयपूर्त्तिदः । तत्तत्काले स्वराष्ट्रार्थं नृपेणात्महिताय च । चिरस्थायी समृद्धानामधिको वापि चेष्यते ॥
सुपुष्टं कान्तिमज्जातिश्रेष्ठं शुष्कं नवीनकम् । ससुगन्धवर्णरसं धान्यं संवीक्ष्य रक्षयेत् । सुसमृद्धं चिरस्थायि महार्घमपि नान्यथा ॥
विषवह्निहिमव्याप्तं कीटजुष्टं न धारयेत् । निःसारतां न हि प्राप्तं व्यये तावन्नियोजयेत् ॥
व्ययीभूतं तु यद् दृष्ट्वा तत्तुल्यं तु नवीनकम् । गृह्णीयात् सुप्रयत्नेन वत्सरे वत्सरे नृपः ॥
ओषधीनां च धातूनां तृणकाष्ठादिकस्य च । यन्त्रशस्त्रास्त्राग्निचूर्णभाण्डादेर्वाससां तथा ॥
यद्यच्च साधकं द्रव्यं यद्यत्कार्य्ये भवेत् सदा । सङ्ग्रहस्तस्य तस्यापि कर्त्तव्यः कार्य्यसिद्धिदः ॥
रक्षयेत् प्रयत्नेन सङ्‌गृहीतं धनादिकम् । आर्जने तु महद् दुःखं रक्षणे तच्चतुर्गुणम् ॥
क्षणं चोपेक्षितं यत्तद्विनाशं द्राक् समाप्नुयात् ॥
आर्जकस्यैव दुःखं स्यात् तथार्जितविनाशने । स्त्रीपुत्राणामपि तथा नान्येषां तु कथं भवेत् ॥
स्वकार्य्ये शिथिलो यः स्यात् किमन्ये न भवन्ति हि । जागरूकः स्वकार्य्ये यस्तत् सहायाश्च तत्समाः ॥
यो जानात्यर्जितुं सम्यगर्जितं न हि रक्षितुम् । नातः परतरो मूर्खो वृथा तस्यार्जनश्रमः ॥
एकस्मिन्नधिकारे तु यो द्वावधिकरोति सः । मूर्खो जीवद् द्विभार्य्यश्च ह्यतिविस्रम्भवांस्तथा ॥
महाधनाशो ह्यलसः स्त्रीभिर्निर्जित एव हि । तथा यः साक्षितां पृच्छेच्चोरजाराततायिषु ॥
संरक्षयेत् कृपणवत् काले दद्याद्विरक्तवत् ।नमूर्खत्वमन्यथा याति स्वधनव्ययतोऽपि च ॥
वस्तुयाथात्म्यविज्ञाने स्वयमेव यतेत् सदा । परीक्षकैः स्वयं राजा रत्नादीन् वीक्ष्य रक्षयेत् ॥
वज्रं मुक्ता प्रवालं च गोमेदश्चन्द्रनीलकः । वैदूर्य्यं पुष्परागश्च पाचिर्माणिक्यमेव च । महारत्नानि चैतानि नव प्रोक्तानि सूरिभिः ॥
रवेः प्रियं रक्तवर्णं माणिक्यं त्विन्द्रगोपरुक् । रक्तपीतसितश्यामच्छविर्मुक्ता प्रिया विधोः ॥
सपीतरक्तरुग्भौमप्रियं विद्रुममुत्तमम् । मयूरचाषपत्राभा पाचिर्बुधहिता हरित् ॥
स्वर्णच्छविः पुष्परागः पीतवर्णो गुरुप्रियः । अत्यन्तविशदं वज्रं तारकाभं कवेः प्रियम् ॥
हितः शनेरिन्द्रनीलो ह्यसितो घनमेघरुक् । गोमेदः प्रियकृद्राहोरीषत्पीतारुणप्रभः ॥
ओत्वक्ष्याभश्चलत्तन्तुवैदूर्य्यः केतुप्रीतिकृत् ॥
रत्नश्रेष्ठतरं वज्रं नीचे गोमेदविद्रुमे । गारुत्मतं तु माणिक्यं मौक्तिकं श्रेष्ठमेव हि । इन्द्रनीलं पुष्परागो वैदूर्य्यं मध्यमं स्मृतम् ॥
रत्नश्रेष्ठो दुर्लभश्च महाद्युतिरहेर्मणिः ॥
अजालगर्भं सद्वर्णं रेखाविन्दुविवर्जितम् । सत्कोणं सुप्रभं रत्नं श्रेष्ठं रत्नविदो जगुः ॥
शर्कराभं दलाभञ्च चिपिटं वर्तुलं हि तत् । वर्णाः प्रभाः सिता रक्ताः पीतकृष्णास्तु रत्नजाः ॥
यथावर्णं यथाच्छायं रत्नं यद् दोषवर्जितम् । श्रीपुष्टिकीर्त्तिशौर्य्यायुः करमन्यदसत् स्मृतम् ॥
वर्णमाक्रमते छाया प्रभा वर्णप्रकाशिनी ॥

पद्मरागस्तु माणिक्यभेदः कोकनदच्छविः । न धारयेत् पुत्रकामा नारी वज्रं कदाचन ॥
कालेन हीनं भवति मौक्तिकं विद्रुमं धृतम् । गुरुत्वात् प्रभया वर्णाद् विस्तारादाश्रयादपि ॥
आकृत्या चाधिमूल्यं स्याद्रत्नं यद्दोषवर्जितम् । नायसोल्लिख्यते रत्नं विना मौक्तिकविद्रुमात् । पाषाणेनापि च प्राय इति रत्नविदो जगुः ॥
मूल्याधिक्याय भवति यद्रत्नं लघुविस्तृतम् । गुर्वल्पं हीनमौल्याय स्याद्रनं त्वपि सद्‌गुणम् ॥
शर्कराभं हीनमौल्यं चिपिटं मध्यमं स्मृतम् । दलाभं श्रेष्ठमूल्यं स्याद् यथाकामात्तु वर्तुलम् ॥
न जरां यान्ति रत्नानि विद्रुमं मौक्तिकं विना । राजदौष्ट्याच्च रत्नानां मूल्यं हीनाधिकं भवेत् ॥
मत्स्याहिशङ्खवाराहवेणुजीमूतशुक्तितः जायते मौक्तिकं तेषु भूरि शुक्त्युद्भवं स्मृतम् ॥
कृष्णं सितं पीतरक्तं द्विचतुःसप्तकञ्चुकम् । त्रिपञ्चसप्तावरणमुत्तरोत्तरमुत्तमम् ॥
कृष्णं सितं क्रमाद्रक्तं पीतन्तु जरठं विदुः । कनिष्ठं मध्यमं श्रेष्ठं क्रमाच्छुक्त्युद्भवं विदुः ॥
तदेव हि भवेद् वेध्यमवेध्यानीतराणि च । कुर्वन्ति कृत्रिमं तद्वत् सिंहलद्वीपवासिनः ॥
तत्सन्देहविनाशार्थं मौक्तिकं सुपरीक्षयेत् । उष्णे सलवणस्नेहे जले निश्युषितं हि तत् ॥
व्रीहिभिर्मर्दितं नेयाद् वैवर्यं तदकृत्रिमम् । श्रेष्ठाभं शुक्तिजं विद्यान्मध्याभं त्वितरद् विदुः ॥
तुलाकल्पितमूल्यं स्याद्रत्नं गोमेदकं विना ॥
क्षुमाविंशतिभी रक्ती रत्नानां मौक्तिकं विना । रक्तित्रयं तु मुक्तायाश्चतुः कृष्णलकैर्भवेत् ॥
चतुर्विंशतिभिस्ताभी रत्नटङ्कस्तु रक्तिभिः । टङ्कैश्चतुर्भिस्तोलः स्यात् स्वर्णविद्रुमयोः सदा ॥
एकस्यैव हि वज्रस्य त्वेकरक्तिमितस्य च । सुविस्तृतदलस्यैव मूल्यं पञ्चसुवर्णकम् ॥
रक्तिकादलविस्ताराच्छ्रेष्ठं पञ्चगुणं यदि । यथा यथा भवेन्न्यूनं हीनमौल्यं तथा तथा ॥
अत्राष्टरक्तिको माषो दशमाषैः सुवर्णकः । स्वर्णस्य तत् पञ्चमूल्यं राजताशीतिकर्षकम् ॥
यथा गुरुतरं वज्रं तन्मूल्यं रक्तिवर्गतः । तृतीयांशविहीनन्तु चिपिटस्य प्रकीर्त्तितम् ॥
अर्द्धन्तु शर्कराभस्य चोत्तमं मूल्यमीरितम् । रक्तिकायाश्च द्वे वज्रे तदर्द्धं मूल्यमर्हतः ॥
तदर्द्धं बहवोऽर्हन्ति मध्या हीना यथा गुणैः । उत्तमार्घं तदर्द्धं वा हीरका गुणहानतः ॥
वर्गरक्तिषु सन्धार्य्यं कलानां नवकं पृथक् । तथांशपञ्चकं पूर्वं त्रिंशद्भिस्तद्भजेत् ततः ॥
लब्धं कलासु संयोज्यं कलानां षोडशांशकैः । मुक्तानां कल्पयेन्मूल्यं हीनमध्योत्तमं यथा ॥
सहस्त्रादधिके मुक्तारक्तिवर्गशते शते । कलात्रिंशतकं त्यक्त्वा शेषान्मूल्यं प्रकल्पयेत् ॥
शतादूर्ध्वं रक्तिवर्गाद्ध्रसो विंशतिरक्तिकाः । प्रतिशतात् तु वज्रस्य सुविस्तृतदलस्य च । तथैव चिपिटस्यापि विस्तृतस्य च ह्रासयेत् ॥
शर्कराभस्य पञ्चाशच्चत्वारिंशच्च वैकतः ॥
रत्नं न धारयेत् कृष्णरक्तविन्दुयुतं सदा ॥
गारुत्मतं तूत्तमं चेन्माणिक्यं मूल्यमर्हतः । सुवर्णं रक्तिमात्रं चेद् यथा रक्तिस्तथा गुरु ॥
रक्तिमात्रः पुष्परागो नीलः स्वर्णार्घमर्हतः । चलत्त्रिसूत्रो वैदूर्य्यश्चोत्तमं मूल्यमर्हति ॥
प्रवालं तोलकमितं स्वर्णार्द्धं मूल्यमर्हति । अत्यल्पमूल्यो गोमेदो नोन्मानन्तु यतोऽर्हति ॥
संख्यातः स्वल्परत्नानां मूल्यं स्याद्धीरका‌द्विना । अत्यन्तरमणीयानां दुर्लभानां च कामतः । भवेन्मूल्यं न मानेन तथातिगुणशालिनाम् ॥
व्य‌ङ्घ्रिचतुर्दशहतो वर्गो मौक्तिकरक्तिजः । चतुर्विंशतिभिर्भक्तो लब्धान्मूल्यं प्रकल्पयेत् ॥
उत्तमन्तु सुवर्णार्घमूनमूनं यथागुणम् ॥
रक्तं पीतं वर्तुलं चेन्मौक्तिकं चोत्तमं सितम् । अधमं चिपिटं शर्कराभमन्यत् तु मध्यमम् ॥
रत्ने स्वाभाविका दोषाः सन्ति धातुषु कृत्रिमाः । अतो धातून् सम्परीक्ष्य तन्मूल्यं कल्पयेद् बुधः ॥
सुवर्णं रजतं ताम्रं वङ्गं सीसञ्च रङ्गकम् । लोहं च धातवः सप्त ह्येषामन्ये तु सङ्कराः ॥
यथापूर्वं तु श्रेष्ठं स्यात् स्वर्णं श्रेष्ठतरं मतम् । वङ्गताम्रभवं कांस्यं पित्तलं ताम्ररङ्गजम् ॥
मानसममपि स्वर्णं तनु स्यात् पृथुलाः परे ॥
एकच्छिद्रसमाकृष्टे समखण्डे द्वयोर्यदा । धातोः सूत्रं मानसमं निर्दुष्टस्य भवेत् तदा ॥
यन्त्रशस्त्रास्त्ररूपं यन्महामूल्यं भवेदयः । रजतं षोडशगुणं भवेत् स्वर्णस्य मूल्यकम् ॥
ताम्रं रजतमूल्यं स्यात् प्रायोऽशीतिगुणं तथा । ताम्राधिकं सार्द्धगुणं वङ्गं वङ्गात् तथा परे ॥
रङ्गसीसे द्वित्रिगुणे ताम्राल्लोहन्तु षड्गुणम् । मूल्यमेतद्विशिष्टन्तु ह्युक्तं प्राङ्मूल्यकल्पनम् ॥
सुशृङ्गवर्णा सुदुघा बहुदुग्धा सुवत्सका । तरुण्यल्पा वा महती मूल्याधिक्याय गौर्भवेत् ॥
पीतवत्सा प्रष्ठदुग्धा तन्मूल्यं राजतं पलम् । अजायाश्च गवार्द्धं स्यान्मेष्या मूल्यमजार्द्धकम् ॥
दृढस्य युद्धशीलस्य पलं मेषस्य राजतम् । दश वाष्टौ पलं मूल्यं राजतं तूत्तमं गवाम् ॥
पलं मेष्या अवेश्चापि राजतं मूल्यमुत्तमम् । गवां समं सार्द्धगुणं महिष्या मूल्यमुत्तमम् ॥
सुशृङ्गवर्णबलिनो वोढुः शीघ्रगमस्य च । अष्टतालवृषस्यैव मूल्यं षष्टिपलं स्मृतम् ॥
महिषस्योत्तमं मूल्यं सप्त चाष्टौ पलानि च । द्वित्रिचतुःसहस्त्रं वा मूल्यं श्रेष्ठं गजाश्वयोः ॥
उष्ट्रस्य माहिषसमं मूल्यमुत्तममीरितम् ॥
योजनानां शतं गन्ता चैकेनाह्नाश्व उत्तमः । मूल्यं तस्य सुवर्णानां श्रेष्ठं पञ्चशतानि हि ॥
त्रिंशद्योजनगन्ता वै उष्ट्रः श्रेष्ठस्तु तस्य वै । पलानां तु शतं मूल्यं राजतं परिकीर्त्तितम् ॥
बलेनोच्चेन युद्धेन मदेनाप्रतिमो गजः । यस्तस्य मूल्यं निष्काणां द्विसहस्त्रं प्रकीर्त्तितम् ॥
चतुर्माषमितं स्वर्णं निष्क इत्यभिधीयते । पञ्चरक्तिमितो माषो गजमौल्ये प्रकीर्त्तितः ॥
रत्नभूतन्तु तत्तत् स्याद् यद्यदप्रतिमं भुवि । यथादेशं यथाकालं मूल्यं सर्वस्य कल्पयेत् ॥
न मूल्यं गुणहीनस्य व्यवहाराक्षमस्य च । नीचमध्योत्तमत्वन्तु सर्वस्मिन् मूल्यकल्पने । चिन्तनीयं बुधैर्लोकाद् वस्तुजातस्य सर्वदा ॥
विक्रेतृक्रेतृतो राजभागः शुल्कमुदाहृतम् । शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्त्तिताः ॥
वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः । क्वच्चिन्नैवासकृच्छुल्कं राष्ट्रे ग्राह्यं नृपैश्छलात् ॥
द्वात्रिंशांशं हरेद्राजा विक्रेतुः क्रेतुरेव वा । विंशांशं वा षोडशांशं शुल्कं मूल्याविरोधकम् ॥
न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत् । लाभं दृष्ट्वा हरेच्छुल्कं क्रेतृतश्च सदा नृपः ॥
बहुमध्याल्पफलितां भुवं मानमितां सदा । ज्ञात्वा पूर्वं भागमिच्छुः पश्चाद्भागं विकल्पयेत् ॥
हरेच्च कर्षकाद्भागं यथा नष्टो भवेन्न सः । मालाकार इव ग्राह्यो भागो नाङ्गारकारवत् ॥
बहुमध्याल्पफलतस्तारतम्यं विमृश्य च । राजभागादिव्ययतो द्विगुणं लभ्यते यतः । कृषिकृत्यन्तु तच्छ्रेष्ठं तन्न्यूनं दुःखदं नृणाम् ॥
तडागवापिकाकूपमातृकाद्देवमातृकात् । देशान्नदीमातृकात् तु राजानुक्रमतः सदा ॥
तृतीयांशं चतुर्थांशभर्द्धांशन्तु हरेत् फलम् । षष्ठांशमूषरात् तद्वत् पाषाणादिसमाकुलात् ॥
राजभागस्तु रजतशतकर्षमितो यतः । कर्षकाल्लभ्यते तस्मै विंशांशमुत्सृजेन्नृपः ॥
स्वर्णादर्द्धं च रजतात् तृतीयांशञ्च ताम्रतः । चतुर्थांशन्तु षष्ठांशं लोहाद् वङ्गाच्च सीसकात् ॥
रत्नार्द्धं चैव क्षारार्द्धं खनिजाद् व्ययशेषतः । लाभाधिक्यं कर्षकादेर्यथा दृष्ट्वा हरेत् फलम् । त्रिधा वा पञ्चधा कृत्वा सप्तधा दशधापि वा ॥

तृणकाष्ठादिहरकाद् विंशत्यंशं हरेत् फलम् । अजाविगोमहिष्याश्ववृ‌द्धितोऽष्टांशमाहरेत् । महिष्यजाविगोदुग्धात् षोडशांशं हरेन्नृपः ॥
कारुशिल्पिगणात् पक्षे दैनिकं कर्म कारयेत् । तस्य वृद्ध्यै तडागं वा वापिकां कृत्रिमां नदीम् ॥
कुर्वन्त्यन्यत् तद्विधं वा कर्षन्त्यभिनवां भुवम् । तद्व्ययद्विगुणं यावन्न तेभ्यो भागमाहरेत् ॥
भुवि भागं भृतिं शुल्कं वृद्धिमुत्कोचकं करम् । सद्य एव हरेत् सर्वं न तु कालविलम्बनैः
दद्यात् प्रतिकर्षकाय भागपत्रं स्वचिह्नितम् । नियम्य ग्रामभूभागमेकस्माद् धनिकाद्धरेत् ॥
गृहीत्वा तत्प्रतिभुवं धनं प्राक् तत्समं तु वा । विभागशो गृहीत्वापि मासि मासि ऋतौ ऋतौ ॥
षोडशद्वादशदशाष्टांशतो वाधिकारिणः । स्वांशात् षष्ठांशभागेन ग्रामपान् सन्नियोजयेत् ॥
गवादिदुग्धान्नफलं कुटुम्बार्थाद्धरेन्नृपः । उपभोगे धान्यवस्त्रं क्रेतृतो नाहरेत् फलम् ॥
वार्द्धुषिकाच्च कौसीदाद् द्वात्रिंशांशं हरेन्नृपः । गृहाद्याधारभूशुल्कं कृष्टभूमेरिवाहरेत् ॥
तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत् । मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत् फलम् ॥
सर्वतः फलभुग्भूत्वा दासवत् स्यात्तु रक्षणे । इति कोशप्रकरणं समासात् कथितं किल ॥
चतुर्थ अध्याय
राष्ट्र प्रकरण
अथ मिश्रे तृतीयन्तु राष्ट्र वक्ष्ये समासतः । स्थावरं जङ्गमञ्चापि राष्ट्रशब्देन गीयते ॥
यस्याधीनं भवेद् यावत् तद्राष्ट्रं तस्य वै भवेत् ॥
कुवेरता शतगुणाधिका सर्वगुणात् ततः । ईशता चाधिकतरा सा नाल्पतपसः फलम् ॥
स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥
यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा । भुङ्क्ते राष्ट्रफलं सम्यगतो राष्ट्रकृतं त्वघम् ॥
स्वस्वधर्मपरो लोको यस्य राष्ट्र प्रवर्त्तते । धर्मनीतिपरो राजा चिरं कीर्त्तिं स चाश्नुते ॥
भूमौ यावद् यस्य कीर्त्तिस्तावत् स्वर्गे स तिष्ठति ॥
अकीर्त्तिरेव नरको नान्योऽस्ति नरको दिवि । नरदेहाद् विना त्वन्यो देहो नरक एव सः ॥
महत् पापफलं विद्यादाधिव्याधिस्वरूपकम् । स्वयं धर्मपरो भूत्वा धर्मे संस्थापयेत् प्रजाः । प्रमाणभूतं धर्मिष्ठमुपसर्पन्त्यतः प्रजाः ॥
देशधर्मा जातिधर्माः कुलधर्माः सनातनाः । मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥
ते राष्ट्रगुप्त्यै सन्धार्य्या ज्ञात्वा यत्नेन सन्नृपैः । धर्मसंस्थापनाद्राजा श्रियं कीर्त्ति प्रविन्दति ॥
चतुर्धा भेदिता जातिर्बह्मणा कर्मभिः पुरा । तत्तत्साङ्कर्य्यासाङ्कर्य्यात् प्रतिलोमानुलोमतः । जात्यानन्त्यन्तु सम्प्राप्तं तद्वक्तुं नैव शक्यते ॥
मन्यन्ते जातिभेदं ये मनुष्याणां तु जन्मना । त एव हि विजानन्ति पार्थक्यं नामकर्म्मभिः ॥
जरायुजाण्डजा स्वेदोद्भिज्जा जातिः सुसङ्ग्रहात् । उत्तमो नीचसंसर्गाद् भवेन्नीचस्तु जन्मना ॥
नीचो भवेन्नोत्तमस्तु संसर्गाद् वापि जन्मना । कर्म्मणोत्तमनीचत्वं कालतस्तु भवेद् गुणैः । विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥
इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम् । प्रतिग्रहोऽध्यापनञ्च याजनं ब्राह्मणेऽधिकम् ॥
सद्रक्षणं दुष्टनाशः स्वांशादानन्तु क्षत्रिये । कृषिगोगुप्तिवाणिज्यमधिकन्तु विशां स्मृतम् ॥
दानं सेवैव शूद्रादेर्नीचकर्म्म प्रकीर्त्तितम् ॥
क्रियाभेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता । सीरभेदैः कृषिः प्रोक्ता मन्वाद्यैर्ब्राह्मणादिषु ॥
ब्राह्मणैः षोडशगवं चतुरूनं यथा परैः । द्विगवं वान्त्यजैः सीरं दृष्ट्‌वा भूमार्दवं तथा ॥
ब्राह्मणेन विनान्येषां भिक्षावृत्तिर्विगर्हिता ॥
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥
योऽधीतविद्यः सकलः स सर्वेषां गुरुर्भवेत् । न च जात्यानधीतो यो गुरुर्भवितुमर्हति ॥
विद्या ह्यनन्ताश्च कलाः संख्यातुं नैव शक्यते । विद्या मुख्याश्च द्वात्रिंशच्चतुःषष्टिः कलाः स्मृताः ॥
यद् यत् स्याद् वाचिकं सम्यक् कर्म विद्याभिसंज्ञकम् । शक्तो मूकोऽपि यत् कर्तुं कलासंज्ञन्तु तत् स्मृतम् ॥
उक्तं सङ्‌क्षेपतो लक्ष्म विशिष्टं पृथगुच्यते । विद्यानाञ्च कलानाञ्च नामानि तु पृथक् पृथक् ॥
ऋग्यजुः साम चाथर्वा वेदा आयुर्धनुः क्रमात् । गान्धर्वश्चैव तन्त्राणि उपवेदाः प्रकीर्त्तिताः ॥
शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा । छन्दः षडङ्गानीमानि वेदानां कीर्त्तितानि हि ॥
मीमांसातर्कसांख्यानि वेदान्तो योग एव च । इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम् ॥
अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलङ्कृतिः । काव्यानि देशभाषावसरोक्तिर्यावनं मतम् । देशादिधर्मा द्वात्रिंशदेता विद्याभिसंज्ञिताः ॥
मन्त्रब्राह्मणयोर्वेदनाम प्रोक्तमृगादिषु ॥
जपहोमार्चनं यस्य देवताप्रीतिदं भवेत् । उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम् ॥
ऋग्रूपा यत्र ये मन्त्राः पादशोऽर्द्धर्चशोऽपि वा । येषां हौत्रं स ऋग्भागः समाख्यानं च यत्र वा ॥
प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः । आध्वर्य्यवं यत्र कर्म्म त्रिगुणं यत्र पाठनम् । मन्त्रब्राह्मणयोरेव यजुर्वेदः स उच्यते ॥
उद्‌गीथं यस्य शस्त्रादेर्यज्ञे तत् सामसंज्ञकम् ॥
अथर्वाङ्गिरसो नाम ह्युपास्योपासनात्मकः । इति वेदचतुष्कन्तु ह्युद्दिष्टञ्च समासतः ॥
विन्दत्यायुर्वेत्ति सम्यगाकृत्यौषधिहेतुतः । यस्मिन्नृग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥
युद्धशस्त्रास्त्रव्यूहादिरचनाकुशलो भवेत् । यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥
स्वरैरुदात्तादिधर्मैस्तन्त्रीकण्ठोत्थितैः सदा । सतालैर्गानविज्ञानं गान्धर्वो वेद एव सः ॥
विविधोपास्यमन्त्राणां प्रयोगाः सुविभेदतः । कथिताः सोपसंहारास्तद्धर्मनियमैश्च षट् । अथर्वणां चोपवेदस्तन्त्ररूपः स एव हि ॥
स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः । सवनाद्यैश्च सा शिक्षा वर्णानां पाठशिक्षणात् ॥
प्रयोगो यत्र यज्ञानामुक्तो ब्राह्मणशेषतः । श्रौतकल्पः स विज्ञेयः स्मार्त्तकल्पस्तथेतरः ॥
व्याकृताः प्रत्ययाद्यैश्च धातुसन्धिसमासतः । शब्दा यत्र व्याकरणमेतद्धि बहुलिङ्गतः ॥
शब्दनिर्वचनं यत्र वाक्यार्थैकार्थसङ्‌ग्रहः । निरुक्तं तत् समाख्यानाद् वेदाङ्ग श्रोत्रसंज्ञकम् ॥
नक्षत्रग्रहगमनैः कालो येन विधीयते । संहिताभिश्च होराभिर्गणितैर्ज्योतिषं हि तत् ॥
म्यरस्तजभ्रगैर्लान्तैः पद्यं यत्र प्रमाणतः । कल्प्यते छन्दःशास्त्रं तद् वेदानां पादरूपधृक् ॥
यत्र व्यवस्थिता चार्थकल्पना विधिभेदतः । मीमांसा वेदवाक्यानां सैव न्यायश्व कीर्त्तितः ॥
भावाभावपदार्थानां प्रत्यक्षादिप्रमाणतः । सविवेको यत्र तर्कः कणादादिमतं च यत् ॥
पुरुषोऽष्टौ प्रकृतयो विकाराः षोडशेति च । तत्त्वादिसंख्यावैशिष्ट्यात् सांख्यमित्यभिधीयते ॥
ब्रहौकमद्वितीयं स्यान्नाना नेहास्ति किञ्चन । मायिकं सर्वमज्ञानाद् भाति वेदान्तिनां मतम् ॥
चित्तवृत्तिनिरोधस्तु प्राणसंयमनादिभिः । तद् योगशास्त्रं विज्ञेयं यस्मिन् ध्यानसमाधितः ॥।
प्राग्वृत्तकथनं चैकराजकृत्यमिषादितः । यस्मिन् स इतिहासः स्यात् पुरावृत्तः स एव हि ॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं यस्मिन् पुराणं तद् विकीर्त्तितम् ॥
वर्णादिधर्म्मस्मरणं यत्र वेदाविरोधकम् । कीर्त्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्त्तिता ॥
युक्तिर्बलीयसी यत्र सर्वं स्वाभाविकं मतम् । कस्यापि नेश्वरः कर्त्ता न वेदो नास्तिकं हि तत् ॥
श्रुतिस्मृत्यविरोधेन राजवृत्तादिशासनम् । सुयुक्त्यार्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ॥

शशादिभेदतः पुंसामनुकूलादिभेदतः । पद्मिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः । तत् कामशास्त्रं सत्त्वादेर्लक्ष्म यत्रास्ति चोभयोः ॥
प्रासादप्रतिमारामगृहवाप्यादिसत्कृतिः । कथिता यत्र तच्छिल्पशास्त्रमुक्तं महर्षिभिः ॥
समन्यूनाधिकत्वेन सारूप्यादिप्रभेदतः । अन्योऽन्यगुणभूषा तु वर्ण्यतेऽलङ्‌कृतिश्च सा ॥
सरसालङ्कृतादुष्टशब्दार्थं काव्यमेव तत् । विलक्षणचमत्कारबीजं पद्यादिभेदतः ॥
लोकसङ्केततोऽर्थानां सुग्रहा वाक् तु दैशिकी ॥
विना कौशिकशास्त्रीयसङ्केतैः कार्य्यसाधिका । यथाकालोचिता वाग् वावसरोक्तिश्च सा स्मृता ॥
ईश्वरः कारणं यत्रादृश्योऽस्ति जगतः सदा । श्रुतिस्मृती विना धर्माधर्मौ स्तस्तच्च यावनम् । श्रुत्यादिभिन्नधर्मोऽस्ति यत्र तद् यावनं मतम् ॥
कल्पितश्रुतिमूलो वामूलो लोकैर्धृतः सदा । देशादिधर्म्मः स ज्ञेयो देशे देशे कुले कुले ॥
पृथक् पृथक् तु विद्यानां लक्षणं सम्प्रकाशितम् । कलानां न पृथङ्नाम लक्ष्म चास्तीह केवलम् ॥
पृथक् पृथक् क्रियाभिर्हि कलाभेदस्तु जायते । यां यां कलां समाश्रित्य तन्नाम्ना जातिरुच्यते ॥
हावभावादिसंयुक्तं नर्त्तनं तु कला स्मृता । अनेकवाद्यकरणे ज्ञानं तद्वादने कला ॥
वस्त्रालङ्कारसन्धानं स्त्रीपुंसोश्च कला स्मृता । अनेकरूपाविर्भावकृतिज्ञानं कला स्मृता ॥
शय्यास्तरणसंयोगपुष्पादिग्रथनं कला । द्यूताद्यनेकक्रीडाभी रञ्जनं तु कला स्मृता ॥
अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता । कलासप्तकमेतद्धि गान्धर्वे समुदाहृतम् ॥
मकरन्दासवादीनां मद्यादीनां कृतिः कला । शल्यगूढाहृतौ ज्ञानं शिराव्रणव्यधे कला ॥
हिङ्ग्वादिरससंयोगादन्नादिपचनं कला । वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥
पाषाणधात्वादिदृतिस्तद्भस्मीकरणं कला । यावदिक्षुविकाराणां कृतिज्ञानं कला स्मृता ॥
धात्वौषधीनां संयोगक्रियाज्ञानं कला स्मृता । धातुसाङ्कर्य्यपार्थक्यकरणन्तु कला स्मृता ॥
संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता । क्षारनिष्कासनज्ञानं कलासंज्ञन्तु तत् स्मृतम् । कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ॥
शस्त्रसन्धानविक्षेपः पदादिन्यासतः कला । सन्ध्याघाताकृष्टिभेदैर्मल्लयुद्धं कला स्मृता ॥
बाहुयुद्धन्तु मल्लानामशस्त्रं मुष्टिभिः स्मृतम् । मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ॥
बलदर्पविनाशान्तं नियुद्धं यशसे रिपोः । न कस्यासीद्धि कुर्य्याद् वै प्राणान्तं बाहुयुद्धकम् ॥
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः । सन्निपातावघातैश्च प्रमादोन्मथनैस्तथा । कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥
कलाभिलक्षिते देशे यन्त्राद्यस्त्रनिपातनम् । वाद्यसङ्केततो व्यूहरचनादि कला स्मृता ॥
गजाश्वरथगत्या तु युद्धसंयोजनं कला । कलापञ्चकमेतद्धि धनुर्वेदागमे स्थितम् ॥
विविधासनमुद्राभिर्देवतातोषणं कला । सारथ्यं च गजाश्वादेर्गतिशिक्षा कला स्मृता ॥
मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया । पृथक् कलाचतुष्कं तु चित्राद्यालेखनं कला ॥
तडागवापीप्रासादसमभूमिक्रिया कला । घट्याद्यनेकयन्त्राणां वाद्यानान्तु कृतिः कला ॥
हीनमध्यादिसंयोगवर्णाद्यै रञ्जनं कला । जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥
नौकारथादियानानां कृतिज्ञानं कला स्मृता । सूत्रादिरज्जुकरणविज्ञानन्तु कला स्मृता ॥
अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता । वेधादिसदसज्ज्ञानं रत्नानाञ्च कला स्मृता ॥
स्वर्णादीनान्तु याथात्म्यविज्ञानञ्च कला स्मृता । कृत्रिमस्वर्णरत्नादिक्रियाज्ञानं कला स्मृता ॥
स्वर्णाद्यलङ्कारकृतिः कला लेपादिसत्कृतिः । मार्दवादिक्रियाज्ञानं चर्मणान्तु कला स्मृता ॥
पशुचर्माङ्गनिर्हारक्रियाज्ञानं कला स्मृता । दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥
सीवने कञ्चकादीनां विज्ञानन्तु कलात्मकम् । बाह्वादिभिश्च तरणं कलासंज्ञं जले स्मृतम् ॥
मार्जने गृहभाण्डादेर्विज्ञानन्तु कला स्मृता । वस्त्रसम्मार्जनञ्चैव क्षुरकर्म कले ह्यभे ॥
तिलमांसादिस्नेहानां कला निष्कासने कृतिः । सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥
मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता । वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥
काचपात्रादिकरणविज्ञानन्तु कला स्मृता । संसेचनं संहरणं जलानां तु कला स्मृता ॥
लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता । गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥
शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला । सुयुक्तताडनज्ञानमपराधिजने कला ॥
नानादेशीयवर्णानां सुसम्यग् लेखने कला । ताम्बूलरक्षादिकृतिविज्ञानन्तु कला स्मृता ॥
आदानमाशुकारित्वं प्रतिदानं चिरक्रिया । कलासु द्वौ गुणौ ज्ञेयौ द्वे कले परिकीर्त्तिते ॥
चतुःषष्टिकला ह्येताः सङ्‌क्षेपेण निदर्शिताः । यां यां कलां समाश्रित्य निपुणो यो हि मानवः । नैपुण्यकरणे सम्यक् तां तां कुर्य्यात् स एव हि ॥
स्रोतः
शुक्रनीति

मूल पाठ: śukranītiḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc