भाषा

ENहिગુ
ग्रंथ पाठ

शुक्लयजुर्वेदः · अध्याय 40

40.40.1

ईशावास्योपनिषत्। ज्ञानकाण्डम्

40.40.2

ईशा वास्यम् इदꣳ सर्वं यत् किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद् धनम्

40.40.3

कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतꣳ समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरे

40.40.4

असुर्या नाम ते लोका ऽअन्धेन तमसावृताः ।
ताꣳस् ते प्रेत्यापि गच्छन्ति ये के चात्महनो जनाः

40.40.5

अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति

40.40.6

तद् एजति तन् नैजति तद् दूरे तद् व् अन्तिके ।
तद् अन्तर् अस्य सर्वस्य तद् उ सर्वस्यास्य बाह्यतः

40.40.7

यस् तु सर्वाणि भूतान्य् आत्मन्न् एवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न वि चिकित्सति

40.40.8

यस्मिन्त् सर्वाणि भूतान्य् आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक ऽ एकत्वम् अनुपश्यतः

40.40.9

स पर्य् अगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरꣳ शुद्धम् अपापविद्धम् ।
कविर् मनीषी परिभूः स्वयंभूर् याथातथ्यतो ऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः

40.40.10

अन्धं तमः प्र विशन्ति ये ऽसंभूतिम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ संभूत्याꣳ रताः

40.40.11

अन्यद् एवाहुः संभवाद् अन्यद् आहुर् असंभवात् ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे

40.40.12

संभूतिं च विनाशं च यस् तद् वेदोभयꣳ सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्यामृतम् अश्नुते

40.40.13

अन्धं तमः प्र विशन्ति ये ऽविद्याम् उपासते ।
ततो भूय ऽ इव ते तमो य ऽ उ विद्यायाꣳ रताः

40.40.14

अन्यद् एवाहुर् विद्याया ऽ अन्यद् आहुर् अविद्यायाः ।
इति शुश्रुम धीराणां ये नस् तद् विचचक्षिरे

40.40.15

विद्यां चाविद्यां च यस् तद् वेदोभयꣳ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतम् अश्नुते

40.40.16

वायुर् अनिलम् अमृतम् अथेदं भस्मान्तꣳ शरीरम् ।
ओ3म् क्रतो स्मर क्लिबे स्मर कृतꣳ स्मर

40.40.17

अग्ने नय सुपथा राये ऽ अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नम ऽ उक्तिं विधेम

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
यो ऽसाव् आदित्ये पुरुषः सो ऽसाव् अहम् ।
ओ३म् खं ब्रह्म ॥

मूल पाठ: śuklayajurvedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc