भाषा

ENहिગુ
ग्रंथ पाठ

शुक्लयजुर्वेदः · अध्याय 32

32.32.1

अध्याय 32 यम सूक्तम्
सर्वमेध सम्बद्धा मन्त्राः

32.32.2

तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः

32.32.3

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत्

32.32.4

न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
हिरण्यगर्भ ऽ इत्य् एषः ।
मा मा हिꣳसीद् इत्य् एषा ।
यस्मान् न जात ऽ इत्य् एष

32.32.5

एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भे ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः

32.32.6

यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सꣳरराणस् त्रीणि ज्योतीꣳषि सचते स षोडशी

32.32.7

येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम

32.32.8

यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम ।
आपो ह यद् बृहतीः ।
यश् चिद् आपः

32.32.9

वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
तस्मिन्न् इदꣳ सं च वि चैति सर्वꣳ स ऽ ओतः प्रोतश् च विभूः प्रजासु

32.32.10

प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत्

32.32.11

स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त

32.32.12

परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश

32.32.13

परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत्

32.32.14

सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषꣳम् स्वाहा

32.32.15

यां मेधां देवगणाः पितरश् चोपासते ।
तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा

32.32.16

मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा

इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
मयि देवा दधतु[ दधवु ] श्रियम् उत्तमां तस्यै ते स्वाहा ॥

मूल पाठ: śuklayajurvedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc