भाषा

ENहिગુ
ग्रंथ पाठ

शुक्लयजुर्वेदः · अध्याय 26

26.26.1

खिलसंज्ञकाः मन्त्राः

26.26.2

अग्निश् च पृथिवी च संनते ते मे सं नमताम् अदः ।
वायुश् चाऽन्तरिक्षं च संनते ते मे सं नमताम् अदः ।
ऽ आदित्यश् च द्यौश् च संनते ते मे सं नमताम् अदः ।
ऽ आपश् च वरुणश् च संनते ते मे सं नमताम् अदः ।
सप्त सꣳसदो ऽ अष्टमी भूतसाधनी ।
सकामाꣳ२ऽ अध्वनस् कुरु संज्ञानम् अस्तु मे ऽमुना

26.26.3

यथेमां वाचं कल्याणीम् आवदानि जनेभ्यः ।
ब्रह्मराजन्याभ्याꣳ शूद्राय चार्याय च स्वाय चारणाय ।
प्रियो देवानां दक्षिणायै दातुर् इह भूयासम् अयं मे कामः सम् ऋध्यताम् उप मादो नमतु

26.26.4

बृहस्पते ऽ अति यद् अर्यो ऽ अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु ।
यद् दीदयच्छवस ऽ ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ।
उपयामगृहीतो ऽसि बृहस्पतये त्वा ।
एष ते योनिर् बृहस्पतये त्वा

26.26.5

इन्द्र गोमन्न् इहा याहि पिबा सोमꣳ शतक्रतो ।
विद्यद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते

26.26.6

इन्द्रा याहि वृत्रहन् पिबा सोमꣳ शतक्रतो ।
गोमद्भिर् ग्रावभिः सुतम् ।
उपयामगृहीतो ऽसीन्द्राय त्वा गोमते ।
ऽ एष ते योनिर् इन्द्राय त्वा गोमते

26.26.7

ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् ।
अजस्रं घर्मम् ईमहे ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा

26.26.8

वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा

26.26.9

वैश्वानरो न ऽ ऊतय ऽ आ प्र यातु परावतः ।
अग्निर् उक्थेन वाहसा ।
उपयामगृहीतो ऽसि वैश्वानराय त्वा ।
एष ते योनिर् वैश्वानराय त्वा

26.26.10

अग्निर् ऋषिः पवमानः पाञ्चजन्यः पुरोहितः ।
तम् ईमहे महागयम् ।
उपयामगृहीतो ऽस्य् अग्नये त्वा वर्चसे ।
ऽ एष ते योनिर् अग्नये त्वा वर्चसे

26.26.11

महाꣳ२ऽ इन्द्रो वज्रहस्तः षोडशी शर्म यच्छतु ।
हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ।
उपयामगृहीतो ऽसि महेन्द्राय त्वा ।
एष ते योनिर् महेन्द्राय त्वा

26.26.12

तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसः ।
अभि वत्सं न स्वसरेषु धेनव ऽ इन्द्रं गीर्भिर् नवामहे

26.26.13

यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो ।
महिषीव त्वद् रयिस् त्वद् वाजा ऽ उद् ईरते

26.26.14

एह्य् ऊ षु ब्रवाणि ते ऽग्न ऽ इत्थेतरा गिरः ।
एभिर् वर्धास ऽ इन्दुभिः

26.26.15

ऋतवस् ते यज्ञं वि तन्वन्तु मासा रक्षन्तु ते हविः ।
संवत्सरस् ते यज्ञं दधातु नः प्रजां च परि पातु नः

26.26.16

उपह्वरे गिरीणाꣳ संगमे च नदीनाम् ।
धिया विप्रो ऽ अजायत

26.26.17

उच्चा ते जातम् अन्धसो दिवि सद् भूम्य् आ ददे ।
उग्रꣳ शर्म महि श्रवः

26.26.18

स न ऽ इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित् परि स्रव

26.26.19

एना विश्वान्य् अर्य ऽ आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे

26.26.20

अनु वीरैर् अनु पुष्यास्म गोभिर् अन्व् अश्वैर् अनु सर्वेण पुष्टैः ।
अनु द्विपदानु चतुष्पदा वयं देवा नो यज्ञम् ऋतुथा नयन्तु

26.26.21

अग्ने पत्नीर् इहा वह देवानाम् उशतीर् उप ।
त्वष्टारꣳ सोमपीतये

26.26.22

अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऽ ऋतुना ।
त्वꣳ हि रत्नधा ऽ असि

26.26.23

द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
नेष्ट्राद् ऋतुभिर् इष्यत

26.26.24

तवायꣳ सोमस् त्वम् एह्य् अर्वाङ्छश्वत्तमꣳ सुमना ऽ अस्य पाहि ।
अस्मिन् यज्ञे बर्हिष्य् आ निषद्या दधिष्वेमं जठर ऽ इन्दुम् इन्द्र

26.26.25

अमेव नः सुहवा ऽ आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
अथा मन्दस्व जुजुषाणो ऽ अन्धसस् त्वष्टर् देवेभिर् जनिभिः सुमद्गणः

26.26.26

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः

रक्षोहा विश्वचर्षणिर् अभि योनिम् अयोहतम् ।
द्रुणा(द्रोणे) सधस्थम् आसदत् ॥

मूल पाठ: śuklayajurvedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc