भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · श्लोक 7.19-2

7.19-2.7.1,19.1

ऋषय ऊचुः
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः

7.19-2.7.1,19.1

महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम्

7.19-2.7.1,19.2

वायुरुवाच
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात्

7.19-2.7.1,19.2

पितृभावमुपागम्य मुदिते हिमवद्गिरौ

7.19-2.7.1,19.3

देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये

7.19-2.7.1,19.3

संकीडति तया सार्धं काले बहुतरे गते

7.19-2.7.1,19.4

वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम्

7.19-2.7.1,19.4

अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत

7.19-2.7.1,19.5

ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत्

7.19-2.7.1,19.5

गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते

7.19-2.7.1,19.6

तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः

7.19-2.7.1,19.6

गमनाय समागम्य बुद्धिमापेदिरे तदा

7.19-2.7.1,19.7

आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः

7.19-2.7.1,19.7

ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा

7.19-2.7.1,19.8

अश्विनौ पितरश्चैव तथा चान्ये महर्षयः

7.19-2.7.1,19.8

विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः

7.19-2.7.1,19.9

दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम्

7.19-2.7.1,19.9

दधीचो मन्युनाविष्टो दक्षमेवमभाषत

7.19-2.7.1,19.10

दधीच उवाच
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने

7.19-2.7.1,19.10

नरः पापमवाप्नोति महद्वै नात्र संशयः

7.19-2.7.1,19.11

असतां संमतिर्यत्र सतामवमतिस्तथा

7.19-2.7.1,19.11

दंडो देवकृतस्तत्र सद्यः पतति दारुणः

7.19-2.7.1,19.12

एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत

7.19-2.7.1,19.12

पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम्

7.19-2.7.1,19.13

दक्ष उवाच
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः

7.19-2.7.1,19.13

एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम्

7.19-2.7.1,19.14

दधीच उवाच
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम्

7.19-2.7.1,19.14

राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया

7.19-2.7.1,19.15

ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः

7.19-2.7.1,19.15

ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः

7.19-2.7.1,19.16

प्रकृतीनां परश्चैव पुरुषस्य च यः परः

7.19-2.7.1,19.16

चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः

7.19-2.7.1,19.17

अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत्

7.19-2.7.1,19.17

अनादिमध्यनिधनमप्रतर्क्यं सनातनम्

7.19-2.7.1,19.18

यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः

7.19-2.7.1,19.18

तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे

7.19-2.7.1,19.19

दक्ष उवाच
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम्

7.19-2.7.1,19.19

विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य

7.19-2.7.1,19.20

दधीच उवाच
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः

7.19-2.7.1,19.20

तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति

7.19-2.7.1,19.21

इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः

7.19-2.7.1,19.21

निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम्

7.19-2.7.1,19.22

निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः

7.19-2.7.1,19.22

अवश्यमनुभावित्वादनर्थस्य तु भाविनः

7.19-2.7.1,19.23

एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात्

7.19-2.7.1,19.23

दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत्

7.19-2.7.1,19.24

देव्या संचोदितो देवो दक्षाध्वरजिघांसया

7.19-2.7.1,19.24

ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम्

7.19-2.7.1,19.25

सहस्रवदनं देवं सहस्रकमलेक्षणम्

7.19-2.7.1,19.25

सहस्रमुद्गरधरं सहस्रशरपाणिकम्

7.19-2.7.1,19.26

शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम्

7.19-2.7.1,19.26

चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम्

7.19-2.7.1,19.27

कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम्

7.19-2.7.1,19.27

दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम्

7.19-2.7.1,19.28

विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम्

7.19-2.7.1,19.28

वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम्

7.19-2.7.1,19.29

गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम्

7.19-2.7.1,19.29

वरामरशिरोमालावलीकलितशेखरम्

7.19-2.7.1,19.30

रणन्नूपुरकेयूरमहाकनकभूषितम्

7.19-2.7.1,19.30

रत्नसंचयसंदीप्तं तारहारावृतोरसम्

7.19-2.7.1,19.31

महाशरभशार्दूलसिंहैः सदृशविक्रमम्

7.19-2.7.1,19.31

प्रशस्तमत्तमातंगसमानगमनालसम्

7.19-2.7.1,19.32

शंखचामरकुंदेन्दुमृणालसदृशप्रभम्

7.19-2.7.1,19.32

सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम्

7.19-2.7.1,19.33

ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम्

7.19-2.7.1,19.33

तेजसा चैव दीव्यंतं युगांत इव पावकम्

7.19-2.7.1,19.34

स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः

7.19-2.7.1,19.34

पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः

7.19-2.7.1,19.35

मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम्

7.19-2.7.1,19.35

आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु

7.19-2.7.1,19.36

तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम्

7.19-2.7.1,19.36

भद्रया सहितं प्राह भद्रमस्त्विति शंकरः

7.19-2.7.1,19.37

स च विज्ञापयामास सह देव्या महेश्वरम्

7.19-2.7.1,19.37

आज्ञापय महादेव किं कार्यं करवाण्यहम्

7.19-2.7.1,19.38

ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया

7.19-2.7.1,19.38

वीरभद्रं महाबाहुं वाचा विपुलनादया

7.19-2.7.1,19.39

देवदेव उवाच
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय

7.19-2.7.1,19.39

भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर

7.19-2.7.1,19.40

अहमप्यनया सार्धं रैभ्याश्रमसपीपतः

7.19-2.7.1,19.40

स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम्

7.19-2.7.1,19.41

वृक्षा कनखले ये तु गंगाद्वारसमीपगाः

7.19-2.7.1,19.41

सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः

7.19-2.7.1,19.42

तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते

7.19-2.7.1,19.42

सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम्

7.19-2.7.1,19.43

इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा

7.19-2.7.1,19.43

भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम्

7.19-2.7.1,19.44

आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा

7.19-2.7.1,19.44

सस्मिता वचनं प्राह मधुरं मधुरं स्वयम्

7.19-2.7.1,19.45

देव्युवाच
वत्स भद्र महाभाग महाबलपराक्रम

7.19-2.7.1,19.45

मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक

7.19-2.7.1,19.46

यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत्

7.19-2.7.1,19.46

दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर

7.19-2.7.1,19.47

यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया

7.19-2.7.1,19.47

यजमानं च तं हत्वा वत्स हिंसय भद्रया

7.19-2.7.1,19.48

अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः

7.19-2.7.1,19.48

मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे

7.19-2.7.1,19.49

अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः

7.19-2.7.1,19.49

वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः

7.19-2.7.1,19.50

ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान्

7.19-2.7.1,19.50

दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान्

7.19-2.7.1,19.51

पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात्

7.19-2.7.1,19.51

गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात्

7.19-2.7.1,19.52

तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः

7.19-2.7.1,19.52

संछादितमभूत्सर्वं साकाशविवरं जगत्

7.19-2.7.1,19.53

सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः

7.19-2.7.1,19.53

रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः

7.19-2.7.1,19.54

शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः

7.19-2.7.1,19.54

कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः

7.19-2.7.1,19.55

निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः

7.19-2.7.1,19.55

विनेदुश्च महानादाञ्जलदा इव भद्रजाः

7.19-2.7.1,19.56

तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ

7.19-2.7.1,19.56

कालानलशतैर्युक्तो यथांते कालभैरवः

7.19-2.7.1,19.57

तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः

7.19-2.7.1,19.57

जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः

7.19-2.7.1,19.58

तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः

7.19-2.7.1,19.58

बभार मौक्तिकं छत्रं गृहीतसितचामरः

7.19-2.7.1,19.59

स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः

7.19-2.7.1,19.59

भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः

7.19-2.7.1,19.60

सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना

7.19-2.7.1,19.60

बालसोमेन सौम्येन यथा शूलवरायुधः

7.19-2.7.1,19.61

दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम्

7.19-2.7.1,19.61

भानुकंपो महातेजा हेमरत्नैरलंकृतः

7.19-2.7.1,19.62

देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः

7.19-2.7.1,19.62

ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः

7.19-2.7.1,19.63

फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः

7.19-2.7.1,19.63

मार्गानुकूलसंवाहा वबुश्च पथि मारुताः

7.19-2.7.1,19.64

ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः

7.19-2.7.1,19.64

ननृतुर्मुमुदुर्१ एदुर्जहसुर्जगदुर्जगुः

7.19-2.7.1,19.65

तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया

7.19-2.7.1,19.65

यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह

7.19-2.7.1,19.66

तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम्

7.19-2.7.1,19.66

प्रविवेश महाबाहुर्वीरभद्रो महानुगः

7.19-2.7.1,19.67

ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः

7.19-2.7.1,19.67

प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc