भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · श्लोक 7.17-2

7.17-2.1

वायुरुवाच
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः

7.17-2.2

स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥
यार्धेन नारी सा तस्माच्छतरूपा व्यजायत

7.17-2.3

विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥
स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते

7.17-2.4

सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥
भर्तारं दीप्तयशसं मनुमेवान्वपद्यत

7.17-2.5

तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ

7.17-2.6

कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता

7.17-2.7

स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥
रुचेः प्रजापतिश्चैव चाकूतिं समपादयत्

7.17-2.8

आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत्

7.17-2.1

स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः

7.17-2.9

चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः

7.17-2.10

श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥
बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी

7.17-2.11

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः

7.17-2.12

ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा

7.17-2.13

भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥
पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा

7.17-2.14

ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥
कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः

7.17-2.15

धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥
दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ

7.17-2.16

निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः

7.17-2.17

स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती

7.17-2.18

भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥
दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः

7.17-2.19

सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥
रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान्

7.17-2.20

यथासृजदसंख्यातांस्तथा कथितमेव च ॥
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया

7.17-2.21

देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥
तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः

7.17-2.22

स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥
मरीचेरपि संभूतिः पौर्णमासमसूयत

7.17-2.23

कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः

7.17-2.24

स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम्

7.17-2.25

तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥
प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥
पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे

7.17-2.26

तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥
क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः

7.17-2.27

कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥
त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः

7.17-2.28

क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥
नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः

7.17-2.29

षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥
अनूरोरग्रतो यांति परिवार्य दिवाकरम्

7.17-2.30

अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥
कन्यकां च श्रुतिं नाम माता शंखपदस्य च

7.17-2.31

सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥
सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः

7.17-2.32

तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥
स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः

7.17-2.33

ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥
ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा

7.17-2.34

रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥
सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः

7.17-2.35

गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥
स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च

7.17-2.36

इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥
समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः

7.17-2.37

यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥
स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः

7.17-2.38

पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥
निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः

7.17-2.39

सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥
हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः

7.17-2.40

त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥
एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते

7.17-2.41

काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥
सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा

7.17-2.42

सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥
तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित्

7.17-2.43

तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥
इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम्

7.17-2.44

नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥
यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम्

7.17-2.45

ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥
युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा

7.17-2.46

तस्मादेते पितर आर्तवा इति च श्रुतम् ॥
एवं पितॄणामेतेषामृतुकालाभिमानिनाम्

7.17-2.47

आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥
आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः

7.17-2.48

अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥
स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते

7.17-2.49

मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥
अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता

7.17-2.50

मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥
गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम्

7.17-2.51

मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥
मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम्

7.17-2.52

स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥
साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः

7.17-2.53

सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥
वेलां च नियतिं चैव तृतीयामपि चायतिम्

7.17-2.54

आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥
स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः

7.17-2.55

सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥
सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः

7.17-2.56

सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः

7.17-2.57

येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥
त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः

7.17-2.58

इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥
नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात्

7.17-2.59

वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥
क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः

7.17-2.60

प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥
न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि

7.17-2.61

राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥
सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ

7.17-2.62

इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥
पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः

7.17-2.63

अन्ये च राजऋषयो नानावीर्यसमन्विता ॥
किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः

7.17-2.64

किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥
न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम्

7.17-2.65

प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥
सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc