भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · श्लोक 7.14-2

7.14-2.7.1,14.1

वायुरुवाच
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम्

7.14-2.7.1,14.1

यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते

7.14-2.7.1,14.2

कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः

7.14-2.7.1,14.2

अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः

7.14-2.7.1,14.3

तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये

7.14-2.7.1,14.3

तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः

7.14-2.7.1,14.4

निर्दिष्टः पममेशेन महेशो नीललोहितः

7.14-2.7.1,14.4

पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः

7.14-2.7.1,14.5

स एव भगवानीशस्तेजोराशिरनामयः

7.14-2.7.1,14.5

अनादिनिधनोधाता भूतसंकोचको विभुः

7.14-2.7.1,14.6

परमैश्वर्यसंयुक्तः परमेश्वरभावितः

7.14-2.7.1,14.6

तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः

7.14-2.7.1,14.7

तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः

7.14-2.7.1,14.7

तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः

7.14-2.7.1,14.8

सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः

7.14-2.7.1,14.8

भुजंगहारकेयूरवलयो मुंजमेखलः

7.14-2.7.1,14.9

जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः

7.14-2.7.1,14.9

गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः

7.14-2.7.1,14.10

भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः

7.14-2.7.1,14.10

सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः

7.14-2.7.1,14.11

महावृषभनिर्याणो महाजलदनिःस्वनः

7.14-2.7.1,14.11

महानलसमप्रख्यो महाबलपराक्रमः

7.14-2.7.1,14.12

एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः

7.14-2.7.1,14.12

विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च

7.14-2.7.1,14.13

तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः

7.14-2.7.1,14.13

प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते

7.14-2.7.1,14.14

कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः

7.14-2.7.1,14.14

स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः

7.14-2.7.1,14.15

कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान्

7.14-2.7.1,14.15

जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान्

7.14-2.7.1,14.16

तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत्

7.14-2.7.1,14.16

तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः

7.14-2.7.1,14.17

नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः

7.14-2.7.1,14.17

अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः

7.14-2.7.1,14.18

इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः

7.14-2.7.1,14.18

नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः

7.14-2.7.1,14.19

ये त्विमे मनसा सृष्टा महात्मानो महाबलाः

7.14-2.7.1,14.19

चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः

7.14-2.7.1,14.20

इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः

7.14-2.7.1,14.20

सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत

7.14-2.7.1,14.21

ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः

7.14-2.7.1,14.21

ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम्

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc