भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 6.4

6.4.1

ईश्वर उवाच ॥
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ॥
तव स्नेहान्महादेवि संप्रदायानुरोधतः

6.4.2

ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ॥
सहस्रारे समासीनं गुरुं संचितयेद्यतिः

6.4.3

शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ॥
दधानं शिवसद्भावमेवात्मनि मनोहरम्

6.4.4

भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ॥
बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः

6.4.5

प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ॥
यत्करोमि महादेव तदस्तु तव पूजनम्

6.4.6

प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ॥
निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः

6.4.7

मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ॥
विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम्

6.4.8

तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ॥
निर्गुणं परमं ब्रह्म सदाशिवमनामयम्

6.4.9

सोहमस्मीति मतिमान्म दैक्यमनुभूय च ॥
बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम्

6.4.6.4.10

वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह॥
विशोध्य देहं वि धिवत्तृणमाधाय भूतले

6.4.11

गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ॥
उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः

6.4.12

हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ॥
उत्तराभिमुखो मौनी दन्तधावनमाचरेत्

6.4.13

तृणपर्णैः सदा कुर्यादमामेकादशी विना ॥
अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः

6.4.14

द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ॥
अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह

6.4.15

गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ॥
विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः

6.4.16

आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ॥
शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम्

6.4.17

तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ॥
प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम्

6.4.18

मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ॥
तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ

6.4.19

आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ॥
ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे

6.4.6.4.20

द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ॥
अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम्

6.4.21

आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ॥
ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः

6.4.22

समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा॥
शिरोवदनहृद्गुह्यपादेषु परमेश्वरि

6.4.24

ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात्॥
उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।२३।
सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्
समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्

6.4.29

त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च॥
शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च

6.4.26

नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ॥
प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि

6.4.27

पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ॥
वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत्

6.4.28

दक्षहस्तेन संगृह्य जलं वामेन पाणिना ॥
समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत्

6.4.29

एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ॥
समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्

6.4.6.4.30

सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ॥
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम्

6.4.31

सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ॥
एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः

6.4.32

अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ॥
पुनराचम्य विधिवत्प्राणायामत्रयं चरेत्

6.4.33

पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम्॥
द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्

6.4.34

प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम्॥
मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात्

6.4.4

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc