भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 6.20

6.20.1

सुब्रह्मण्य उवाच ॥
क्षौरस्नानविधिं वक्ष्ये वामदेव महामुने ॥
यस्य सद्यो विधानेन शुद्धिस्स्याद्यतिनः परा

6.20.2

योगपट्टप्रकारस्य विधिम्प्राप्य मुनीश्वर॥
स शिष्यस्स्याद्व्रती पूर्णः क्षौरकर्म्मोद्यतो भवेत्

6.20.3

गुरुं नत्वा विशेषेण लब्धानुज्ञस्ततो गुरोः॥
शिरस्संक्षाल्य चाचम्य सवासाः क्षौरमाचरेत्

6.20.4

क्षालयेद्वसनं पश्चान्मृदम्भोभिः क्षुरादिकम्॥
तद्धस्तौ च मृदालिप्य क्षालयेति मृदं ददेत्

6.20.5

स्थापितम्प्रोक्षितन्तोयैश्शिवं शिवमितीरयन् ॥
स्वनेत्रे पिहिते चैवानामांगुष्ठाभिमंत्रिते

6.20.6

अस्त्रेणोन्मील्य संदृश्य क्षुरा दिक्षौ रसाधनम् ॥
अभिमन्त्र्य द्वादशाथ प्रोक्षयेदस्त्रमंत्रतः

6.20.7

क्षुरं गृहीत्वा तारेण दक्षभागे निकृन्तयेत् ॥
केशांश्च कांश्चि दग्रेषु वप्त्वा सर्वं च वापयेत्

6.20.8

पृथिव्यां पर्णमादाय विक्षिपेन्न भुवः स्थले ॥
श्मश्रूणि हस्तपादस्थनखानि च निकृंतयेत्

6.20.9

बिल्वाश्वत्थतुलस्यादिस्थाने संगृह्य मृतिकाम् ॥
द्विषट्वारं निमज्याप्सु तीरं गत्वोपविश्य च

6.20.6.20.10

शुद्धे देशे तु संस्थाप्य मृदं त्रेधा विभज्य च ॥
एवम्पुनस्त्रिधा कृत्वा प्रोक्ष्यास्त्रेणाभिमन्त्रयेत्

6.20.11

तत्रैकां मृदमादाय दापयित्वान्यपाणिना ॥
करौ द्वादशधा लिप्य प्रत्येकं केन क्षालयेत्

6.20.12

पुनरेकाम्पादयोश्च मुखे चान्यां करे क्रमात् ॥
संलिप्याक्षाल्य चाम्भोभिः पुनश्च जलमाविशेत्

6.20.13

अन्यां मृदम्भागयित्वा शिरसि द्वादश क्रमात् ॥
आलिप्य मृदमास्यान्तनिमज्य च पुनः पुनः

6.20.14

तीरं गत्वा तु गंडूषान्षोडशाचमनं द्विधा ॥
प्राणानायम्य च पुनः प्रणवं द्व्यष्टसंख्यया

6.20.15

।
मृदमन्यां पुनस्त्रेधा विभज्य च तदेकया ॥
कटिशौचं पादशौचं विधायाचम्य च द्विधा

6.20.16

प्रणवेनाथ षोडश प्राणानायम्य वाग्यतः ॥
पुनरन्यां स्वोरुदेशे त्रिधा विन्यस्य चोमिति

6.20.17

प्रोक्ष्याभिमंत्रयेत्सप्त स्वपाण्योस्तलमेकधा ॥
त्रिधालिप्याथ सम्पश्येत्सूर्य्यमूर्तिं च पावनीम्

6.20.18

स्वकक्षयोः समालिप्य व्यत्यस्ताभ्यामथान्यया ॥
पाणिभ्याञ्च मृदा शिष्यस्सुमतिर्दृढमानसः

6.20.19

गृहीत्वान्यां मृदं शुद्धां तथासौ गुरुभक्तिमान् ॥
शिर आरभ्य पादान्तं विलिप्यादित्यदृष्टया

6.20.6.20.20

समुत्थाय ततोऽसौ वै दण्डमादाय भूतले ॥
स्वगुरुं मन्त्रदम्भक्त्या संस्मरेज्ज्ञाननिष्ठया

6.20.21

ततस्साम्बं महेशानं शंकरं चन्द्रशेखरम्॥
संस्मरेद्भक्तितश्शिष्य सर्वेश्वर्यपतिं शिवम्

6.20.22

त्रिवारम्प्रणमेत्प्रीत्या साष्टांगं च गुरु शिवम् ॥
पञ्चाङ्गेनैकवारञ्च समुत्थाय च वन्दयेत्

6.20.23

तीर्थं प्रविश्य तन्मध्ये निमज्योन्मज्य ताम्मृदम् ॥
स्कन्धे संस्थाप्य पूर्वोक्तप्रकारेण विलेपयेत्

6.20.25

तत्रावशिष्टं संगृह्य जलमध्ये प्रविश्य च ॥
विलोड्य सम्यक् तां तत्र सर्वांगेषु विलिप्य च ॥ २४ ।
त्रिवारमोमिति प्रोच्य शिवपादाम्बुजं स्मरन् ॥
संसाराम्बुधिसंतारं सदा यद्विधितो हि सः

6.20.26

अभिषिच्योमिति जलं विरजाभस्मलोलितम् ॥
अंगोपमार्ज्जनं कृत्वा सुस्नायाद्भस्मना ततः

6.20.27

त्रिपुंड्रं च विधायाथ यथोक्तविधिना शुभम् ॥
यथोक्तांगेषु सर्वेषु सावधान तया मुने

6.20.28

ततश्शुद्धमना भूत्वा कुर्य्यान्मध्यंदिनक्रियाः ॥
महेश्वरं नमस्कृत्य गुरूंस्तीर्थादिकानि च

6.20.29

सम्पूजयेन्महेशानं भक्त्या परमया मुने ॥
साम्बिकं ज्ञानदातारं पातारं त्रिभवस्य वै

6.20.6.20.30

ततोसौ दृढचेतस्को यतिः स्ववृषसंस्थितः॥
भिक्षार्थम्प्रव्रजेच्छुद्धो विप्रवर्गेषु साधुषु

6.20.31

ततस्तत्र च शुद्धात्मा पञ्चधा परिकल्पितम्॥
भैक्ष्यं यथोचितं कुर्य्याद्दूषितान्नं विवर्ज्जयेत्

6.20.32

शौचं स्नानं तथा भिक्षां नित्यमेकान्तसेवनम् ॥
भिक्षौश्चत्वारि कर्म्माणि पञ्चमं नैव विद्यते

6.20.33

अलाबुं वेणुपात्रं च दारवम्मृण्मयन्तथा ॥
भिक्षोश्चत्त्वारि पात्राणि पञ्चमन्नैव विद्यते

6.20.34

ताम्बूलं तैजसम्पात्रं रेतस्सेकं सितांबरम् ॥
दिवास्वापो हि नक्तान्नं यतीनां षड्विवर्जिताः

6.20.35

साक्षरा विपरीताश्च राक्षसास्त इति स्मृताः॥
तस्माद्वै विपरीतं च कर्म्म नैवाचरेद्यतिः

6.20.36

यतिः प्रयत्नतः कुर्य्यात्क्षौरस्नानं च शुद्धये ॥
संस्मरन्मनसा शुद्धं परं ब्रह्म सदाशिवम्

6.20.37

इत्यैव मुनिशार्द्दूल तव स्नेहान्मयाखिलः ॥
क्षौरस्नानविधिः प्रोक्तः किम्भूयः श्रोतुमिच्छसि

6.20.20

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां क्षौरस्नानविधिवर्णनं नाम विंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc