भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 5.50

5.50.1

मुनय ऊचुः ॥
श्रोतुकामा वयं सर्वे दुर्गाचरितमन्वहम् ॥
अपरं च महाप्राज्ञ तत्त्वं वर्णय नोऽद्भुतम्

5.50.2

शृण्वतान्त्वन्मुखाम्भोजात्कथा नाना सुधोपमाः ॥
न तृप्यति मनोऽस्माकं सूत सर्वार्थवित्तम

5.50.3

॥ सूत उवाच ॥
दुर्गमः प्रथितो नाम्ना रुरुपुत्रो महाबलः ॥
ब्रह्मणो वरदानेन चतस्रोऽलभत श्रुतीः

5.50.4

देवाजेयबलं चापि संप्राप्य जगतीतले ॥
करोति स्म बहूत्पातान्दिवि देवाश्चकम्पिरे

5.50.5

सर्वा नष्टेषु वेदेषु क्रिया नष्टा बभूव ह ॥
ब्राह्मणाश्च दुराचारा बभूबुस्ससुरास्तदा

5.50.6

न दानं न तपोऽत्युग्रं न यागो हवनं न हि ॥
अनावृष्टिस्ततो जाता पृथिव्यां शतवार्षिकी

5.50.7

हाहाकारो महानासीत्त्रिषु लोकेषु दुःखिताः ॥
अभवंश्च जनास्सर्वे क्षुत्तृड्भ्यां पीडिता भृशम्

5.50.8

सरितः सागराश्चैव वापीकूपसरांसि च ॥
निर्जला अभवन्सर्वे संशुष्का वृक्षवीरुधः

5.50.9

ततो दृष्ट्वा मदाद्दुःखं प्रजानां दीनचेतसाम् ॥
त्रिदशाश्शरणं याता योगमायां महेश्वरीम्

5.50.5.50.10

देवा ऊचुः ॥
रक्षरक्ष महामाये स्वकीयास्सकलाः प्रजाः ॥
कोपं संहर नूनन्त्वं लोका नंक्ष्यंति वान्यथा

5.50.11

कथा शुंभोहतो दैत्यो निशुंभश्च महाबलः ॥
धूम्राक्षश्चण्डमुण्डौ च रक्तबीजो महाबलः

5.50.12

स मधुः कैटभो दैत्यो महिषासुर एव च ॥
तथैवामुं कृपासिन्धो दीनबन्धो जहि द्रुतम्

5.50.13

अपराधो भवत्येव बालकानां पदे पदे ॥
सहते को जनो लोके केवलं मातरं विना

5.50.14

यदायदाभवद्दुःख देवानां ब्रह्मणान्तथा ॥
तदातदावतीर्याशु कुरुषे सुखिनो जनान्

5.50.15

इति विक्लवितन्तेषां समाकर्ण्य कृपामयी ॥
अनन्ताक्षमयं रूपन्दर्शयामास साम्प्रतम्

5.50.16

धनुर्बाणौ तथा पद्म नानामूलफलानि च ॥
चतुर्भिर्दधती हस्तैः प्रसन्नमुखपङ्कजा

5.50.17

ततो दृष्ट्वा प्रजास्तप्ताः करुणापूरितेक्षणा॥
रुरोद नव घस्राणि नव रात्रीस्समाकुला

5.50.18

मोचयामास दृष्टिभ्यो वारिधाराः सहस्रशः ॥
ताभिः प्रतर्प्पिता लोका औषध्यः सकला अपि

5.50.19

अगाधतोयास्सरितो बभूवुः सागरा अपि ॥
रुरुहुर्धरणीपृष्ठे शाकमूलफलानि च

5.50.5.50.20

विततार करस्थानि सुमनोभ्यः फलानि च ॥
गोभ्यस्तृणानि रम्याणि तथान्येभ्यो यथार्हतः

5.50.21

सन्तुष्टा अभवन्सर्वे सदैव द्विजमानुषाः ॥
ततो जगाद सा देवी किमन्यत्करवाणि वः

5.50.22

समेत्योचुस्तदा देवा भवत्या तोषिता जनाः ॥
वेदान्देहि कृपां कृत्वा दुर्गमेण समाहृताम्

5.50.23

तथास्त्विति प्रभाष्याह यातयात निजालयम् ॥
वितरिष्यामि वो वेदानचिरेणैव कालतः

5.50.24

ततः प्रमुदिता देवास्स्वं स्वं धाम समाययुः ॥
सुप्रणम्य जगद्योनिं फुल्लेन्दीवरलोचनाम्

5.50.25

ततः कोलाहलो जातो दिवि भूम्यन्तरिक्षके ॥
तच्छ्रुत्वा रौरवः सद्यो न्यरुणत्सर्वतः पुरीम्

5.50.26

ततस्तेजोमयं चक्रं विधाय परितः शिवा ॥
रक्षणार्थं देवतानां स्वयं तस्माद्बहिर्गता

5.50.27

ततः समभवयुद्धं देव्या दैत्यस्य चोभयोः ॥
ववृषुः समरे बाणान्निशितान्कंकटच्छिदः

5.50.28

एतस्मिन्नंतरे तस्याः शरीराद्रम्यमूर्त्तयः ॥
काली तारा च्छिन्नमस्ता श्रीविद्या भुवनेश्वरी

5.50.29

भैरवी बगला धूम्र श्रीमत्त्रिपुरसुदरी ॥
मातंगी च महाविद्या निर्गता दश सायुधाः

5.50.5.50.30

असंख्यातास्ततो जाता मातरो दिव्यमूर्त्तयः ॥
चन्द्रलेखाधरास्सर्वास्सर्वा विद्युतत्समप्रभाः

5.50.31

ततो मातृगणैर्युद्धं प्रावर्तत भयंकरम् ॥
रौरवीयं हतन्ताभिर्दलमक्षौहिणीशतम्

5.50.32

जघान सा तदा दैत्यं दुर्गमं शूलधारया ॥
पपात धरणीपृष्ठे खातमूलद्रुमो यथा

5.50.33

इत्थं हत्वा तदा दैत्यं दुर्गमासुरनाम कम् ॥
आदाय चतुरो वेदान्ददौ देवेभ्य ईश्वरी

5.50.34

देवा ऊचुः ॥
अस्मदर्थं त्वया रूपमनन्ताक्षिमयं धृतम् ॥
मुनयः कीर्तयिष्यन्ति शताक्षीन्त्वामतोऽम्बिके

5.50.35

आत्मदेहसमुद्भूतैः शाकैर्लोका मृता यतः ॥
शाकंभरीति विख्यातन्तत्ते नाम भविष्यति

5.50.36

दुर्गमाख्यो महादैत्यो हतो यस्मात्ततः शिवे ॥
दुर्गां भगवतीं भद्रां व्याहरिष्यंति मानवाः

5.50.37

योगनिद्रे नमस्तुभ्यं नमस्तेऽस्तु महाबले ॥
नमो ज्ञानप्रदे तुभ्यं विश्वमात्रे नमो नमः

5.50.38

तत्त्वमस्यादिवाक्यैर्या बोध्यते परमेश्वरी ॥
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः

5.50.39

वाङ्मनःकायदुष्प्रापां सूर्यचन्द्राग्निलोचनाम् ॥
स्तोतुं न शक्नुमो मातस्त्व त्प्रभावाबुधा वयम्

5.50.5.50.40

मादृशानमरान्दृष्ट्वा कः कुर्यादीदृशीन्दयाम् ॥
वर्जयित्वा सुरेशानीं शताक्षी मातरं विना

5.50.41

त्रिलोकी नाभिभूयेत बाधाभिश्च निरन्तरम् ॥
एवं कार्यस्त्वया यत्नोऽस्माकं वैरिविनाशनम्

5.50.42

देव्युवाच ॥ ॥
वत्सान्दृष्ट्वा यथा गावो व्यग्रा धावन्ति सत्वरम् ॥
तथैव भवतो दृष्ट्वा धावामि व्याकुला सती

5.50.43

मम युष्मानपश्यन्त्या पश्यन्त्या बालकानिव ॥
अपि प्राणान्प्रयच्छन्त्याः क्षण एको युगायते

5.50.44

कापि चिन्ता न कर्त्तव्या युष्माभिर्भ क्तिशालिभिः ॥
भवत्यां मयि तिष्ठन्त्यां संहरन्त्यां निजापदः

5.50.45

यथा पूर्वं हता दैत्या हनिष्यामि तथाऽसुरान्॥
संशयो नात्र कर्त्तव्यस्सत्यंसत्यं ब्रवीम्यहम्

5.50.46

यदा शुंभो निशुंभश्चापरौ दैत्यौ भविष्यतः ॥
तदाहं नन्दभार्यायां यशोदायां यशोमयी

5.50.47

योनिजं रूपमास्थाय जनिष्ये गोपगोकुले ॥
हनिष्याम्यसुरौ तन्मां व्याहरिष्यन्ति नन्दजाम्

5.50.48

भ्रामरं रूपमास्थाय वधिष्याम्यरुणं यतः ॥
भ्रामरीति च मां लोके कीर्तयिष्यन्ति मानवाः

5.50.49

कृत्वा भीमं पुना रूपं रक्षांस्यत्स्याम्यहं यदा ॥
भीमा देवीति विख्यातं तन्मे नाम भविष्यति

5.50.5.50.50

यदायदाऽसुरोत्थैव बाधा भुवि भविष्यति ॥
तदातदावतीर्याहं शं करिष्याम्यसंशयम्

5.50.51

या शताक्षी स्मृता देवी सैव शाकंभरी मता ॥
सैव प्रकीर्तिता दुर्गा व्यक्तिरेकैव त्रिष्वपि

5.50.52

न शताक्षीसमा काचिद्दयालुर्भुवि देवता ॥
दृष्ट्वाऽरुदत्प्रजास्तप्ता या नवाहं महेश्वरी

5.50.50

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां शताक्ष्याद्यवतारवर्णनं नाम पंचाशत्तमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc