शिव पुराण · अध्याय 5.42
॥ भीष्म उवाच॥
मार्कण्डेय महाप्राज्ञ पितृभक्तिभृतां वर ॥
किं जातं तु ततो ब्रूहि कृपया मुनिसत्तम
मार्कण्डेय उवाच ॥
ते धर्मयोगनिरतास्सप्त मानसचारिणः ॥
वाय्वंबुभक्षास्सततं शरीरमुपशोषयन्
स राजांतःपुरवृतो नन्दने मघवा इव ॥
क्रीडित्वा सुचिरं तत्र सभार्य्यस्स्वपुरं ययौ
अनूहो नाम तस्यासीत्पुत्रः परमधार्मिकः॥
तं वैभ्राजः सुतं राज्ये स्थापयित्वा वनं ययौ
तपः कर्तुं समारेभे यत्र ते सहचारिणः॥
स वै तत्र निराहारो वायुभक्षो महातपाः
ततो विभ्राजितं तेन विभ्राजं नाम तद्वनम्॥
बभूव सुप्रसिद्धं हि योगसिद्धिप्रदायकम्
तत्रैव ते हि शकुनाश्चत्वारो योगधर्मिणः ॥
योगभ्रष्टास्त्रयश्चैव देहत्यागकृतोऽभवन्
कांपिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः ॥
जातास्सप्तमहात्मानस्सर्वे विगतकल्मषाः ।
स्मृतिमंतोऽत्र चत्वारस्त्रयस्तु परिमोहिताः ॥
स्वतन्त्रस्याह्वयो जातो ब्रह्मदत्तो महौजसः
छिद्रदर्शी सुनेत्रस्तु वेदवेदांगपारगौ ॥
जातौ श्रोत्रियदायादौ पूर्वजातिसहाषितौ
पंचालो बह्वृचस्त्वासीदाचार्यत्वं चकार ह॥
द्विवेदः पुंडरीकश्च छंदोगोऽध्वर्युरेव च
ततो राजा सुतं दृष्ट्वा ब्रह्मदत्तमकल्मषम् ॥
अभिषिच्य स्वराज्ये तु परां गतिमवाप्तवान्
पंचालः पुण्डरीकस्तु पुत्रौ संस्थाप्य मन्दिरे ॥
विविशतुर्वनं तत्र गतौ परमिकां गतिम्
ब्रह्मदत्तस्य भार्य्या तु सन्नितिर्माम भारत ॥
सा त्वेकभावसंयुक्ता रेमे भर्त्रा सहैव तु
शेषास्तु चक्रवाका वै कांपिल्ये सहचारिणः ॥
जाताः श्रोत्रियदायादा दरिद्रस्य कुले नृप
धृतिमान्सुमहात्मा च तत्त्वदर्शीं निरुत्सुकः ॥
वेदाध्ययन सम्पन्नाश्चत्वारश्छिद्रदर्शिनः
ते योगनिरतास्सिद्धाः प्रस्थितास्सर्व एव हि॥
आमंत्र्य च मिथः शंभोः पदाम्भोजं प्रणम्य तु
शूरा ये सम्प्रपद्यन्ते अपुनर्भवकांक्षिणः ॥
पापम्प्रणाशयन्त्वद्य तच्छम्भोः परमम्पदम्
शारीरे मानसे चैव पापे वाग्जे महामुने ॥
कृते सम्यगिदम्भक्त्या पठेच्छ्रद्धासमन्वितः
मुच्यते सर्वपापेभ्यश्शिवनामानुकीर्तनात् ॥
उच्चार्यमाण एतस्मिन्देवदेवस्य तस्य वै
विलयं पापमायाति ह्यामभाण्डमिवाम्भसि ॥
तस्मात्तत्संचिते पापे समनंतरमेव च
जप्तव्यमेतत्पापस्य प्रशमाय महामुने ॥
नरैः श्रद्धालुभिभूर्यस्सर्वकामफलाप्तये
पुष्ट्यर्थमिममध्यायं पठेदेनं शृणोति वा ॥
मुच्यते सर्वपापेभ्यो मोक्षं याति न संशयः
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पितृकल्पे पितृभाववर्णनं नाम द्विचत्वारिंशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0