भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 5.26

5.26.1

देव्युवाच ॥
कथितं तु त्वया देव कालज्ञानं यथार्थतः ॥
कालस्य वंचनं ब्रूहि यथा तत्त्वेन योगिनः

5.26.2

कालस्तु सन्निकृष्टो हि वर्तते सर्वजंतुषु ॥
यथा चास्य न मृत्युश्च वंचते कालमागतम्

5.26.3

तथा कथय मे देव प्रीतिं कृत्वा ममोपरि ॥
योगिनां च हिताय त्वं ब्रूहि सर्वसुखप्रद

5.26.4

॥ शंकर उवाच ॥
शृणु देवि प्रवक्ष्यामि पृष्टोहं यत्त्वया शिवे ॥
समासेन च सर्वेषां मानुषाणां हितार्थतः

5.26.5

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥
एतेषां हि समायोगः शरीरं पांचभौतिकम्

5.26.6

आकाशस्तु ततो व्यापी सर्वेषां सर्वगः स्थितः॥
आकाशे तु विलीयंते संभवंति पुनस्ततः

5.26.7

वियोगे तु सदा कस्य स्वं धाम प्रतिपेदिरे ॥
तस्या स्थिरता चास्ति सन्निपातस्य सुंदरि

5.26.8

ज्ञानिनोऽपि तथा तत्र तपोमंत्रबलादपि ॥
ते सर्वे सुविजानंति सर्वमेतन्न संशयः

5.26.9

देव्युवाच ॥
खं तेन यन्नश्यति घोररूपः कालः करालस्त्रिदिवैकनाथः ॥
दग्धस्त्वया त्वं पुनरेव तुष्टः स्तोत्रै स्तुतः स्वां प्रकृतिं स लेभे

5.26.5.26.10

त्वया स चोक्तः कथया जनानामदृष्टरूपः प्रचरिष्यसीति ॥
दृष्टस्त्वया तत्र महाप्रभावः प्रभोर्वरात्ते पुनरुत्थितश्च

5.26.11

तदद्य भोः काल इहास्थि किंचिन्निहन्यते येन वदस्व तन्मे ॥
त्वं योगिवर्यः प्रभुरात्मतंत्रः परोपकारात्ततनुर्महेश

5.26.12

शंकर उवाच ॥
न हन्यते देववरैस्तु दैत्यैस्सयक्षरक्षोरगमानुषैश्च ॥
ये योगिनो ध्यानपरास्सदेहा भवंति ते घ्नंति सुखेन कालम्

5.26.13

सनत्कुमार उवाच ॥
एतच्छ्रुत्वा त्रिभुवनगुरोः प्राह गौरी विहस्य सत्यं त्वं मे वद कथमसौ हन्यते येन कालः ॥
शम्भुस्तामाह सद्यो हि मकरवदने योगिनो ये क्षिपंति कालव्यालं सकलमनघास्तच्छृणुष्वैकचित्ता

5.26.14

शङ्कर उवाच ॥
पंचभूतात्मको देहस्सदायुक्तस्तु तद्गुणैः ॥
उत्पाद्यते वरारोहे तद्विलीनो हि पार्थिवः

5.26.15

आकाशाज्जायते वायुर्वायोस्तेजश्च जायते ॥
तेजसोऽम्बु विनिर्द्दिष्टं तस्माद्धि पृथिवी भवेत्

5.26.16

पृथिव्यादीनि भूतानि गच्छंति क्रमशः परम् ॥
धरा पंचगुणा प्रोक्ता ह्यापश्चैव चतुर्गुणाः

5.26.17

त्रिगुणं च तथा तेजो वायुर्द्विगुण एव च ॥
शब्दैकगुणमाकाशं पृथिव्यादिषु कीर्तितम्

5.26.18

शब्दस्स्पर्शश्च रूपं च रसो गन्धश्च पंचमः ॥
विजहाति गुणं स्वं स्वं तदा भूतं विपद्यते

5.26.19

तदा गुणं विगृह्णाति प्रादुर्भूतं तदुच्यते ॥
एवं जानीहि देवेशि पंचभूतानि तत्त्वतः

5.26.5.26.20

तस्माद्धि योगिना नित्यं स्वस्वकालेंऽशजा गुणाः ॥
चिंतनीयाः प्रयत्नेन देवि कालजिगीषुणा

5.26.23

देव्युवाच ॥
कथं जेजीय्यते कालो योगिभिर्योगवित्प्रभो ॥
ध्यानेन चाथ मन्त्रेण तत्सर्वं कथयस्व मे

5.26.22

।
शङ्कर उवाच॥
शृणु देवि प्रवक्ष्यामि योगिनां हितकाम्यया ॥
परज्ञानप्रकथनं न देयं यस्य कस्यचित्

5.26.23

श्रद्दधानाय दातव्यं भक्तियुक्ताय धीमते ॥
अनास्तिकाय शुद्धाय धर्मनित्याय भामिनि

5.26.24

सुश्वासेन सुशय्यायां योगं युंजीत योगवित् ॥
दीपं विनांधकारे तु प्रजाः सुप्तेषु धारयेत्

5.26.25

तर्जन्या पिहितौ कर्णौ पीडयित्वा मुहूर्त्तकम्॥
तस्मात्संश्रूयते शब्दस्तुदन्वह्निसमुद्भवः

5.26.26

सन्ध्यातो भुक्तमेवं हि चावसन्नं क्षणादपि ॥
सर्वरोगान्निहत्याशु ज्वरोपद्रवकान्बहून्

5.26.27

यश्चोपलक्षयेन्नित्यैराकारं घटिकाद्वयम्॥
जित्वा मृत्युं तथा कामं स्वेच्छया पर्य्यटेदिह

5.26.28

सर्वज्ञस्सर्वदर्शी च सर्वसिद्धिमवाप्नुयात्॥
यथा नदति खेऽब्दो हि प्रावृडद्भिस्सुसंयतः

5.26.29

तं श्रुत्वा मुच्यते योगी सद्यः संसारबन्धनात्॥
ततस्स योगिभिर्न्नित्यं सूक्ष्मात्सूक्ष्मतरो भवेत्

5.26.5.26.30

एष ते कथितो देवि शब्दब्रह्मविधिक्रमः ॥
पलालमिव धान्यार्थी त्यजेद्बन्धमशेषतः

5.26.31

शब्दब्रह्मत्विदं प्राप्य ये केचिदन्यकांक्षिणः ॥
घ्नंति ते मुष्टिनाकाशं कामयंते क्षुधां तृषाम्

5.26.32

ज्ञात्वा परमिदं ब्रह्म सुखदं मुक्तिकारणम्॥
अवाह्यमक्षरं चैव सर्वोपाधिविवर्जितम्

5.26.33

मोहिताः कालपाशेन मृत्युपाशवशंगताः ॥
शब्दब्रह्म न जानंति पापिनस्ते कुबुद्धयः

5.26.34

तावद्भवंति संसारे यावद्धाम न विंदते ॥
विदिते तु परे तत्त्वे मुच्यते जन्मबन्धनात्

5.26.35

निद्रालस्यं महा विघ्नं जित्वा शत्रुं प्रयत्नतः॥
सुखासने स्थितो नित्यं शब्दब्रह्माभ्यसन्निति

5.26.36

शतवृद्धः पुमांल्लब्ध्वा यावदायुस्समभ्यसेत् ॥
मृत्युञ्जयवपुस्तम्भ आरोग्यं वायुवर्द्धनम्

5.26.37

प्रत्ययो दृश्यते वृद्धे किं पुनस्तरुणे जने॥
न चोंकारो न मन्त्रोपि नैव बीजं न चाक्षरम्

5.26.38

अनाहतमनुच्चार्य्यं शब्दब्रह्म शिवं परम् ॥
ध्यायन्ते देवि सततं सुधिया यत्नतः प्रिये

5.26.39

तस्माच्छब्दा नव प्रोक्ताः प्राणविद्भिस्तु लक्षिताः ॥
तान्प्रवक्ष्यामि यत्नेन नादसिद्धिमनुक्रमात्

5.26.5.26.40

घोषं १ कांस्यं २ तथा शृंगं ३ घण्टां ४ वीणा ५ दिवंशजान् ६ ॥
दुन्दुभिं ७ शंखशब्दं ८ तु नवमं मेघगर्जितम् ९

5.26.42

नव शब्दान्परित्यज्य तुंकारं तु समभ्यसेत् ॥
ध्यायन्नेवं सदा योगी पुण्यैः पापैर्न लिप्यते ॥ ४१ ।
न शृणोति यदा शृण्वन्योगाभ्यासेन देविके ॥
म्रियतेभ्यसमानस्तु योगी तिष्ठेद्दिवानिशम्

5.26.44

तस्मादुत्पद्यते शब्दो मृ त्सप्तभिर्दिनैः ॥
स वै नवविधो देवि तं ब्रवीमि यथार्थतः ॥ ॥
प्रथमं नदते घोषमात्मशुद्धिकरं परम् ॥
सर्वव्याधिहरं नादं वश्याकर्षणमुत्तमम्

5.26.45

द्वितीयं नादते कांस्यस्तम्भयेत्प्राणिनां गतिम् ॥
विषभूतग्रहान्सर्वान्बध्नीयान्नात्र संशयः

5.26.46

तृतीयं नादते शृंगमभिचारि नियोजयेत् ॥
विद्विडुच्चाटने शत्रोर्मारणे च प्रयोजयेत्

5.26.47

घंटानादं चतुर्थ तु वदते परमेश्वरः ॥
आकर्षस्सर्वदेवानां किं पुनर्मानुषा भुवि

5.26.48

यक्षगन्धर्वकन्याश्च तस्याकृष्टा ददंति हि ॥
यथेप्सितां महासिद्धिं योगिने कामतोऽपि वा

5.26.49

वीणा तु पंचमो नादः श्रूयते योगिभिस्सदा॥
तस्मादुत्पद्यते देवि दूरादर्शनमेव हि

5.26.5.26.50

ध्यायतो वंशनादं तु सर्वतत्त्वं प्रजायते ॥
दुन्दुभिं ध्यायमानस्तु जरामृत्युविवर्जितः

5.26.51

शंखशब्देन देवेशि कामरूपं प्रपद्यते ॥
योगिनो मेघनादेन न विपत्संगमो भवेत्

5.26.52

यश्चैकमनसा नित्यं तुंकारं ब्रह्मरूपिणम् ॥
किमसाध्यं न तस्यापि यथामति वरानने

5.26.53

सर्वज्ञस्सर्वदर्शी च कामरूपी व्रजत्यसौ ॥
न विकारैः प्रयुज्येत शिव एव न संशयः

5.26.54

एतत्ते परमेशानि शब्दब्रह्मस्वरूपकम् ॥
नवधा सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि

5.26.26

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनवर्णनं नाम षड्विंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc