भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 5.16

5.16.1

सनत्कुमार उवाच॥
तेषां मूर्द्धोपरिष्टाद्वै नरकांस्ताञ्छृणुष्व च॥
मत्तो मुनिवरश्रेष्ठ पच्यंते यत्र पापिनः

5.16.2

रौरवश्शूकरो रोधस्तालो विवसनस्तथा ॥
महाज्वालस्तप्तकुंभो लवणोपि विलोहितः

5.16.3

वैतरणी पूयवहा कृमिणः कृमिभोजनः ॥
असिपत्रवनं घोरं लालाभक्षश्च दारुणः

5.16.4

तथा पूयवहः प्रायो बहिर्ज्वालो ह्यधश्शिराः ॥
संदंशः कालसूत्रश्च तमश्चावीचिरो धनः

5.16.5

श्वभोजनोऽथ रुष्टश्च महारौरवशाल्मली ॥
इत्याद्या बहवस्तत्र नरका दुःखदायकाः

5.16.6

पच्यंते तेषु पुरुषाः पापकर्मरतास्तु ये ॥
क्रमाद्वक्ष्ये तु तान् व्यास सावधानतया शृणु

5.16.7

कूटसाक्ष्यं तु यो वक्ति विना विप्रान् सुरांश्च गाः ॥
सदाऽनृतं वदेद्यस्तु स नरो याति रौरवम्

5.16.8

भ्रूणहा स्वर्णहर्ता च गोरोधी विश्वघातकः ॥
सुरापो ब्रह्महंता च परद्रव्यापहारकः

5.16.9

यस्तत्संगी स वै याति मृतो व्यास गुरोर्वधात् ॥
ततः कुंभे स्वसुर्मातुर्गोश्चैव दुहितुस्तथा

5.16.5.16.10

साध्व्या विक्रयकृच्चाथ वार्द्धकी केशविक्रयी ॥
तप्तलोहेषु पच्यंते यश्च भक्तं परित्यजेत्

5.16.11

अवमंता गुरूणां यः पश्चाद्भोक्ता नराधमः ॥
देवदूषयिता चैव देवविक्रयिकश्च यः

5.16.12

अगम्यगामी यश्चांते याति सप्तबलं द्विज ॥
चौरो गोघ्नो हि पतितो मर्यादादूषकस्तथा

5.16.13

।
देवद्विजपितृद्वेष्टा रत्नदूषयिता च यः ॥
स याति कृमिभक्षं वै कृमीनत्ति दुरिष्टकृत्

5.16.14

पितृदेवसुरान् यस्तु पर्यश्नाति नराधमः॥
लालाभक्षं स यात्यज्ञो यश्शस्त्रकूटकृन्नरः

5.16.15

यश्चांत्यजेन संसेव्यो ह्यसद्ग्राही तु यो द्विजः ॥
अयाज्ययाजकश्चैव तथैवाभक्ष्य भक्षकः

5.16.16

रुधिरौघे पतंत्येते सोमविक्रयिणश्च ये॥
मधुहा ग्रामहा याति क्रूरां वैतरणीं नदीम्

5.16.17

नवयौवनमत्ताश्च मर्यादाभेदिनश्च ये ॥
ते कृत्यं यांत्यशौचाश्च कुलकाजीविनश्च ये

5.16.18

असिपत्रवनं याति वृक्षच्छेदी वृथैव यः॥
क्षुरभ्रका मृगव्याधा वह्निज्वाले पतंति ते

5.16.19

भ्रष्टाचारो हि यो विप्रः क्षत्रियो वैश्य एव च ॥
यात्यंते द्विज तत्रैव यः श्वपाकेषु वह्निदः

5.16.5.16.20

व्रतस्य लोपका ये च स्वाश्रमाद्विच्युताश्च ये॥
संदंशयातनामध्ये पतंति भृशदारुणे

5.16.21

वीर्यं स्वप्नेषु स्कंदेयुर्ये नरा ब्रह्मचारिणः॥
पुत्रा नाध्यापिता यैश्च ते पतंति श्वभोजने

5.16.22

एते चान्ये च नरकाः शतशोऽथ सहस्रशः ॥
येषु दुष्कृतकर्माणः पच्यते यातनागताः

5.16.23

तथैव पापान्येतानि तथान्यानि सहस्रशः ॥
भुज्यंते यानि पुरुषैर्नरकांतरगोचरैः

5.16.24

वर्णाश्रमविरुद्धं च कर्म कुर्वंति ये नराः॥
कर्मणा मनसा वाचा निरये तु पतंति ते

5.16.25

अधश्शिरोभिर्दृश्यंते नारका दिवि दैवतैः॥
देवानधोमुखान्सर्वानधः पश्यंति नारकाः

5.16.26

स्थावराः कृमिपाकाश्च पक्षिणः पशवो मृगाः ॥
धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्

5.16.27

यावंतो जंतवस्स्वर्गे तावंतो नरकौकसः ॥
पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः

5.16.28

गुरूणि गुरुभिश्चैव लघूनि लघुभिस्तथा ॥
प्रायश्चित्तानि कालेय मनुस्स्वायम्भुवोऽब्रवीत्

5.16.29

यानि तेषामशेषाणां कर्मार्ण्युक्तानि तेषु वै॥
प्रायश्चित्तमशेषेण हरानुस्मरणं परम्

5.16.5.16.30

प्रायश्चित्तं तु यस्यैव पापं पुंसः प्रजायते॥
कृते पापेऽनुतापोऽपि शिवसंस्मरणं परम्

5.16.31

माहेश्वरमवाप्नोति मध्याह्नादिषु संस्मरन्॥
प्रातर्निशि च संध्यायां क्षीणपापो भवेन्नरः

5.16.32

मुक्तिं प्रयाति स्वर्गं वा समस्तक्लेशसंक्षयम॥
शिवस्य स्मरणादेव तस्य शंभोरुमापतेः

5.16.33

पापन्तरायो विप्रेन्द्र जपहोमार्चनादि च ॥
भवत्येव न कुत्रापि त्रैलोक्ये मुनिसत्तम

5.16.34

महेश्वरे मतिर्यस्य जपहोमार्चनादिपु ॥
यत्पुण्यं तत्कृतं तेन देवेन्द्रत्वादिकं फलम्

5.16.35

पुमान्न नरकं याति यः स्मरन्भक्तितो मुने ॥
अहर्निशं शिवं तस्मात्स क्षीणाशेषपातकः

5.16.36

नरकस्वर्गसंज्ञाये पापपुण्ये द्विजोत्तम ॥
ययोस्त्वेकं तु दुःखायान्यत्सुखायोद्भवाय च

5.16.37

तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ॥
तत्स्याद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम्

5.16.38

मनसः परिणामोऽयं सुखदुःखोपलक्षणः ॥
ज्ञानमेव परं ब्रह्म ज्ञानं तत्त्वाय कल्पते

5.16.39

ज्ञानात्मकमिदं विश्वं सकलं सचराचरम् ॥
परविज्ञानतः किंचिद्विद्यते न परं मुने

5.16.5.16.40

एवमेतन्मयाख्यातं सर्वं नरकमण्डलम् ॥
अत ऊर्ध्वं प्रवक्ष्यामि सांप्रतं मंडलं भुवः

5.16.16

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डवर्णने नरकोद्धारवर्णनं नाम षोडशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc