भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 4.9

4.9.1

ऋषय ऊचुः ॥
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ॥
चाण्डाली का समाख्याता तत्कथां कथय प्रभो

4.9.2

सूत उवाच ॥
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम्॥
शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम्

4.9.3

चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ॥
सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता

4.9.4

अथ सा समये कन्या युवतिः सौमिनी द्विजाः ॥
पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे

4.9.5

सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ॥
रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी

4.9.6

अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ॥
सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः

4.9.7

मृते भर्तरि सा नारी दुखितातिविषण्णधीः॥
किंचित्कालं शुभाचारा सुशीलोवास सद्मनि

4.9.8

ततस्सा मन्मथाविष्टहृदया विधवापि च॥
युवावस्थाविशेषेण बभूव व्यभिचारिणी

4.9.4.9.10

तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ॥
समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्।९॥
कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया॥
दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत

4.9.11

अथ सा पिशिताहारा नित्यमापीतवारुणी ॥
अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया

4.9.12

कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ॥
इयेष पिशिताहारं सौमिनी व्यभिचारिणी

4.9.13

ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ॥
निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ

4.9.14

अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ॥
एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा

4.9.15

हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ॥
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा

4.9.16

सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ॥
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम्

4.9.17

एवं बहुतिथे काले गते सा सौमिनी द्विजाः ॥
कालस्य वशमापन्ना जगाम यमसंक्षयम्

4.9.18

यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ॥
निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम्

4.9.19

साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ॥
ततो बभूव जन्मान्धा प्रशांतांगारमेचका

4.9.4.9.20

जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ॥
ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता

4.9.21

ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ॥
चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत्

4.9.22

एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ॥
जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम्

4.9.23

कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ॥
आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान्

4.9.24

अथासावपि चांडाली वसनासनतृष्णया ॥
महाजनान् याचयितुं संचचार शनैः शनैः

4.9.25

गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान्॥
यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः

4.9.26

एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ॥
एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम्

4.9.27

तामंजलौ निपतिता सा विमृश्य पुनः पुनः ॥
अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा

4.9.28

तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ॥
पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके

4.9.29

सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ॥
याचमानापि यत्किंचिन्न लेभे दैवयोगतः

4.9.4.9.30

एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ॥
अज्ञानतो जागरणं परमानन्ददायकम्

4.9.31

ततः प्रभाते सा नारी शोकेन महता वृता ॥
शनैर्निववृते दीना स्वदेशायैव केवलम्

4.9.32

श्रांता चिरोपवासेन निपतंती पदेपदे ॥
अतीत्य तावतीं भूमिं निपपात विचेतना

4.9.33

अथ सा शंभुकृपया जगाम परमं पदम् ॥
आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम्

4.9.34

आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ॥
तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम्

4.9.35

श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥
कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि

4.9.36

अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ॥
भुनक्त्यद्यापि सा चैव महाबलप्रसादतः

4.9.37

एवंविधं महालिंगं शंकरस्य महाबलम् ॥
सर्वपापहरं सद्यः परमानन्ददायकम्

4.9.38

एवं वः कथितं विप्रा माहात्म्यं परमं मया ॥
महाबलाभिधानस्य शिवलिंगवरस्य हि

4.9.39

अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ॥
श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते

4.9.9

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc