शिव पुराण · अध्याय 4.19
सूत उवाच॥
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ॥
तेपाते भारते खण्डे बदर्याश्रम एव हि
ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ॥
आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव
एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ॥
चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ॥
प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति
इत्युक्ते च तदा
तेन नरो नारायणस्स्वयम्॥
ऊचतुर्वचनं तत्र लोकानां हितकाम्यया
॥
नरनारायणावूचतुः ॥
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥
स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम्
सूत उवाच ॥
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ॥
स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ॥
लोकानामुपकारार्थं भक्तानां दर्शनाय वै
स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ॥
भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि
देवाश्च पूजयंतीह ऋषयश्च पुरातनाः॥
मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात्
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः॥
प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा
तद्दिनं हि समारभ्य केदारेश्वर एव च ॥
पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम्
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ॥
मायामास्थाय तत्रैव पलायनपरोऽभवत्
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ॥
पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ॥
नयपाले शिरोभागो गतस्तद्रूपतः स्थितः
स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ॥
पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात्
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ॥
लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः
तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ॥
भारतीभिः प्रजाभिश्च तथैव परिपूज्यते
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ॥
हररूपांतिकं तच्च हररूपसमन्वितम्
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ॥
जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ॥
केदारेश्वरशंभोश्च मुक्तभागी न संशयः
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता॥
गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ॥
तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति
खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ॥
केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ॥
सर्वकामप्रदश्शंभुः केदाराख्यो न संशय
एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ॥
श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0