शिव पुराण · अध्याय 4.15
॥ सूत उवाच ॥
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ॥
यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ॥
कुमारचरितं दिव्यं सर्वपापविनाशनम्
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ॥
कुमारस्स शिवापुत्रस्तारकारिर्महाबलः
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ॥
गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ॥
जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि
कुमारस्य वियोगेन तन्माता गिरिजा यदा ॥
दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत्
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ॥
आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम्
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ॥
तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ॥
कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ॥
विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात्
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ॥
न मेने स कुमारो हि महाहंकारविह्वलः
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ॥
स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम्
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ॥
शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ॥
जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ॥
ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ॥
तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ॥
दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ॥
पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम्
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ॥
लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ॥
मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात्
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ॥
जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ॥
अभीष्टफलसिद्धिश्च जायते नात्र संशयः
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ॥
दर्शनात्सर्वसुखदं कथितं लोकहेतवे
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0