भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 4.1

4.1.1

॥ श्रीगणेशाय नम. ॥
अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ॥
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो
यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ॥
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै
शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे

4.1.2

कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ॥
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम्

4.1.3

ऋषय ऊचुः ॥
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ॥
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम्

4.1.4

पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ॥
लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः

4.1.5

शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ॥
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्।

4.1.6

पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ॥
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै

4.1.7

तानि तानि च दिव्यानि लिंगानि परमेशितुः ॥
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया

4.1.8

सूत उवाच ॥
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया॥
कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः

4.1.9

सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ॥
सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत्

4.1.4.1.10

लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ॥
संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम्

4.1.11

यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ॥
तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन

4.1.12

तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम्॥
लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह

4.1.13

पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ॥
सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः

4.1.14

त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम्॥
अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः

4.1.15

अनुग्रहाय लोकानां लिंगानि च महेश्वरः ॥
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा

4.1.16

यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ॥
तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा

4.1.17

लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत्॥
तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति

4.1.18

पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ॥
तथापि च प्रधानानि कथ्यते च मया द्विजाः

4.1.19

प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम्॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्

4.1.4.1.20

ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम॥
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति

4.1.21

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥
उज्जयिन्यां महाकालमोंकारे परमेश्वरम्

4.1.22

केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्॥
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे

4.1.23

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥
सेतुबंधे च रामेशं घुश्मेशं च शिवालये

4.1.24

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत्

4.1.25

यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ॥
प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः

4.1.26

।
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ॥
तेषां च जननीगर्भे वासो नैव भविष्यति

4.1.27

एतेषां पूजनेनैव वर्णानां दुःखना शनम् ॥
इह लोके परत्रापि मुक्तिर्भवति निश्चितम्

4.1.28

ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ॥
तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात्

4.1.29

ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ॥
विशेषतः फलं वक्तुं शक्यते न परैस्तथा

4.1.4.1.30

एकं च पूजितं येन षण्मासं तन्निरन्तरम् ॥
तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम्

4.1.31

हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ॥
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः

4.1.32

सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ॥
शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम्

4.1.33

म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः॥
द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत्

4.1.34

ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ॥.
ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः

4.1.35

सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ॥
मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम्

4.1.36

मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ॥
रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम्

4.1.37

महाकालभवं लिंगं दुग्धेशमिति विश्रुतम्॥
नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ॥

4.1.38

ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ॥
प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम्

4.1.39

केदारेश्वरसंजातं भूतेशं यमुना तटे ॥
महापापहरं प्रोक्तं पश्यतामर्चतान्तथा

4.1.4.1.40

भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ॥
सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम्

4.1.41

नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम्॥
मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्

4.1.42

रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ॥
घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्

4.1.43

ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः॥
दर्शनात्पापहारीणि सर्वकामप्रदानि च

4.1.44

एतानि सुप्रधानानि मुख्यतां हि गतानि च ॥
अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा।

4.1.1

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc