भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.34

3.34.3

नन्दीश्वर उवाच ॥
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः । ।
अवतारं शृणु विभोस्सुनर्तकनटाह्वयम्। । १ । ।
यदा हि कालिका देवी पार्वती हिमवत्सुता ॥
तेपे तपस्तुविमलं वनं गत्वा शिवाप्तये । । २ । ।
तदा शिवः प्रसन्नो भूत्तस्यास्सुतपसो मुने । ।
तद्वृत्तसुपरीक्षार्थं वरं दातुम्मुदा ययौ

3.34.9

स्वरूपन्दर्शयामास तस्यै सुप्रीतमानसः ॥
वरम्ब्रूहीति चोवाच तां शिवां शंकरो मुने । ।४। ।
तच्छ्रुत्वा शम्भुवचनं दृष्ट्वा तद्रूपमुत्तमम् । ।
सुजहर्ष शिवातीव प्राह तं सुप्रणम्य सा । ।५। ।
पार्वत्युवाच ॥
यदि प्रसन्नो देवेश मह्यं देयो वरो यदि । ।
पतिर्भव ममेशान कृपां कुरु ममोपरि ॥६। ।
पितुर्गृहे मया सम्यग्गम्यते त्वदनुज्ञया ॥
गन्तव्यम्भवता नाथ मत्पितुः पार्श्वतः प्रभो । ।७॥
याचस्व मान्ततो भिक्षुः ख्यापयंश्च यशः शुभम् ॥
पितुर्मे सफलं सर्वं कुरु प्रीत्या गृहा श्रमम्। । ८। ।
ततो यथोक्तविधिना कर्तुमर्हसि भो प्रभो ॥
विवाहं त्वं महेशान देवानां कार्य्यसिद्धये

3.34.11

कामं मे पूरय विभो निर्विकारो भवान्सदा । ।
भक्तवत्सलनामा हि तव भक्तास्म्यमहं सदा । । 3.34.१० ॥
नन्दीश्वर उवाच ॥
इत्युक्तस्स तया शंभुर्महेशो भक्तवत्सलः ॥
तथास्त्विति वचः प्रोच्यान्तर्हितस्स्वगिरिं ययौ

3.34.14

पार्वत्यपि ततः प्रीत्या स्वसखीभ्यां वयोन्विता ॥
जगाम स्वपितुर्गेहं रूपं कृत्वा तु सार्थकम्। । १ २॥
पार्वत्यागमनं श्रुत्वा मेनया स हिमाचलः ॥
परिवारयुतो द्रष्टुं स्वसुतां तां ययौ मुदा॥ १ ३॥
दृष्ट्वा तां सुप्रसन्नास्यामानयामासतुर्गृहम् ॥
कारयामासतुः प्रीत्या महानन्दी महोत्सवम्

3.34.15

.
धनन्ददौ द्विजादिभ्यो मेनागिरिवरस्तथा ॥
मंगलं कारयामास सवेदध्वनिमादरात्

3.34.16

ततः स्वकन्यया सार्द्धमुवास प्रांगणे मुदा ॥
मेना च हिमवाञ्छैलः स्नातुं गंगां जगाम सः

3.34.17

एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः॥
सुनर्तकनटो भूत्वा मेनकासन्निधिं ययौ

3.34.18

शृंगं वामे करे धृत्वा दक्षिणे डमरुन्तथा॥
पृष्ठे कन्थां रक्तवासा नृत्यगानविशारदः

3.34.19

ततस्तु नटरूपोऽसौ मेनकाप्रांगणे मुदा ॥
चक्रे स नृत्यं विविधं गानञ्चाति। मनोहरम्

3.34.3.34.20

शृंगञ्च डमरुन्तत्र वादयामास सुध्वनिम् ॥
महोतिं विविधाम्प्रीत्या स चकार मनोहराम्

3.34.21

तन्द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ॥
आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम्

3.34.22

श्रुत्वा संगीतं तन्दृष्ट्वा सुनृत्यं च मनोहरम्॥
सहसा मुर्मुहुः सर्वे मेनापि च तदा मुने

3.34.23

ततो मेनाशु रत्नानि स्वर्णपात्रस्थितानि च ॥
तस्मै दातुं ययौ प्रीत्या तदूतिप्री तमानसा

3.34.24

तानि न स्वीचकारासौ भिक्षां चेते शिवां च ताम् ॥
पुनस्तु नृत्यं गानं च कौतुकात्कर्तुमुद्यतः

3.34.25

मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ॥
भिक्षुकम्भर्त्सयामास बहिष्कर्तुमियेष सा

3.34.26

एतस्मिन्नन्तरे तत्र गंगातो गिरिराड्ययौ ॥
ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम्

3.34.27

श्रुत्वा मेनामुखाद्वृत्तन्तत्सर्वं सुचुकोप सः ॥
आज्ञां चकारानुचरान्बहिः कर्तुं च भिक्षुकम्

3.34.28

महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥
न शशाक बहिः कर्तुं कोऽपि तं मुनिसत्तम

3.34.29

ततः स भिक्षुकस्तात नानालीलाविशारदः ॥
दर्शयामास शैलाय स्वप्रभावमनन्तकम्

3.34.3.34.30

शैलो ददर्श तन्तत्र विष्णुरूपधरन्द्रुतम् ॥
ततो ब्रह्मस्वरूपं च सूर्य्यरूपं ततः क्षणात्

3.34.31

ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥
पार्वती सहितं रम्यं विहसन्तं सुतेजसम्

3.34.32

एवं सुबहुरूपाणि तस्य तत्र ददर्श सः ॥
सुविस्मितो बभूवाशु परमानन्दसंप्लुतः

3.34.33

अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् ॥
भिक्षां ययाचे दुर्गान्तान्नान्यज्जग्राह किञ्चन

3.34.34

ततश्चान्तर्दधे भिक्षुस्वरूपः परमेश्वरः ॥
स्वालयं स जगामाशु दुर्गावाक्यप्रणोदितः

3.34.35

तदा बभूव सुज्ञानं मेनाशैलेशयोरपि ॥
आवां शिवो वञ्चयित्वा गतवान्स्वालयं विभुः

3.34.36

अस्मै देया स्वकन्येयं पार्वती सुतप स्विनी ॥
एवं विचार्य च तयोः शिवेभक्तिरभूत्परा

3.34.37

अतो रुद्रो महोतीश्च कृत्वा भक्तमुदावहम् ॥
विवाहं कृतवान्प्रीत्या पार्वत्या स विधानतः

3.34.38

इति प्रोक्तस्तु ते तात सुनर्तकनटाह्वयः ॥
शिवावतारो हि मया शिवावाक्यप्रपूरकः

3.34.39

इदमाख्यानमनघं परमं व्याहृतम्मया॥
य एतच्छृणुयात्प्रीत्या स सुखी गतिमाप्नुयात्

3.34.34

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुनर्तकनटाह्वशिवावतारवर्णनंनाम चतुस्त्रिंशोध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc