भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.3

3.3.1

नन्दीश्वर उवाच
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ॥
अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम्

3.3.2

यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ॥
तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः

3.3.3

नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ॥
तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत

3.3.4

नारीणां कुलमीशानान्निर्गतं न पुरा यतः ॥
ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः

3.3.5

प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ॥
एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे

3.3.6

शिवया परया शक्त्या संयुक्तं परमेश्वरम् ॥
संचिंत्य हृदये प्रीत्या तेपे स परमं तपः

3.3.7

तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ॥
अचिरेणैव कालेन तुतोष स शिवो द्रुतम्

3.3.8

ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम्॥
अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः

3.3.9

तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ॥
प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः

3.3.3.3.10

अथ देवो महादेवो वाचा मेघगभीरया॥
संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः

3.3.11

ईश्वर उवाच॥
वत्सवत्स महाभाग मम पुत्र पितामह ॥
ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ

3.3.12

प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥
तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम्

3.3.13

इत्युक्त्वा परमोदारं स्वभावमधुरं वचः॥
पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः

3.3.14

तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम्॥
प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः

3.3.15

ब्रह्मोवाच ॥
देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ॥
प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना

3.3.16

मनसा निर्मिताः सर्वे शिवे देवादयो मया ॥
न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः

3.3.17

मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥
संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः

3.3.18

न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥
तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते

3.3.19

सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥
तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम्

3.3.3.3.20

शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥
चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये

3.3.21

अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ॥
देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते

3.3.22

चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ॥
दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके

3.3.23

एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ॥
तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ

3.3.24

तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ॥
शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम्

3.3.25

तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ॥
कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम्

3.3.26

शिव उवाच ॥
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ॥
प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम्

3.3.27

तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत्

3.3.28

दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ॥
विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः

3.3.29

तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ॥
आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी

3.3.3.3.30

एतत्ते कथितं तात शिवरूपं महोत्तमम् ॥
अर्द्धनारीनरार्द्धं हि महामंगलदं सताम्

3.3.31

एतदाख्यानमनघं यः पठ्च्छृणुयादपि ॥
स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम्

3.3.3

इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc