भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.29

3.29.1

नन्दीश्वर उवाच ॥
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ॥
नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम्

3.29.2

इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ॥
नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः

3.29.3

अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ॥
यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः

3.29.4

पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ॥
तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः

3.29.5

नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ॥
चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः

3.29.7

एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ॥
तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ॥ ६ ।
स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ॥
अविषादं महाभागा पित्रादेशात्सुबुद्धयः

3.29.8

स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ॥
नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात्

3.29.9

भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ॥
दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने

3.29.3.29.10

नभग उवाच ॥
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ॥
सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च

3.29.11

तदा विस्मृतमस्माभिरिदानीं पितरं तव ॥
विभजामो वयं भागं तं गृहाण न संशयः

3.29.12

तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ॥
तदोपकण्ठमागत्य पितरं समभाषत

3.29.13

नभग उवाच ॥
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ॥
पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले

3.29.14

तत आगत्य मे पृष्टा दायदानार्थमादरात्॥
ते त्वामूचुर्विभागं मे तदर्थमहमागतः

3.29.15

नन्दीश्वर उवाच ॥
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः॥
आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने

3.29.16

मनुरुवाच ॥
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ॥
न ह्यहं परमं दायं सर्वथा भोगसाधनम्

3.29.17

तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ॥
तव वै जीवनोपाय वदामि शृणु तत्त्वतः

3.29.18

सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ॥
तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति

3.29.19

तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ॥
सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत्

3.29.3.29.20

तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ॥
धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम्

3.29.21

नन्दीश्वर उवाच ॥
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ॥
जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम्

3.29.22

तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ॥
सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः

3.29.23

समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ॥
तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम्

3.29.24

तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ॥
विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत्

3.29.25

सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ॥
भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत्

3.29.26

अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ॥
उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम्

3.29.27

ईश्वर उवाच ॥
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ॥
प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः

3.29.28

नन्दीश्वर उवाच ॥
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ॥
प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम्

3.29.29

नभगः उवाच ॥
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ॥
कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम्

3.29.3.29.30

नन्दीश्वर उवाच ॥
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ॥
प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः

3.29.31

कृष्णदर्शन उवाच ॥
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ॥
याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः

3.29.32

नन्दीश्वर उवाच ॥
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ॥
आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने

3.29.33

पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ॥
स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम्

3.29.34

मनुरुवाच ॥
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ॥
तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः

3.29.35

अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ॥
इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया

3.29.36

स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ॥
यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः

3.29.37

अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ॥
तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः

3.29.38

क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ॥
सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः

3.29.39

विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ॥
तदनुग्रहतस्तात समर्थः सर्वकर्मणि

3.29.3.29.40

किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ॥
प्रसादय महादेवं सर्वथा सकलेश्वरम्

3.29.41

नन्दीश्वर उवाच ॥
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ॥
प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम्

3.29.42

नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ॥
प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः

3.29.43

नभग उवाच ॥
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ॥
इत्याह मे पिता नूनं किमुताध्वरशेषितम्

3.29.44

अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ॥
अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये

3.29.45

इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ॥
तुष्टाव तं महेशानं कृष्णदर्शनमानतः

3.29.46

श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ॥
तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत्

3.29.47

एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ॥
वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि

3.29.48

महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ॥
तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक्

3.29.49

अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान्॥
उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः

3.29.3.29.50

कृष्णदर्शन उवाच ॥
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ॥
त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः

3.29.51

अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ॥
ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम्

3.29.52

महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ॥
गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना

3.29.53

इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ॥
सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम

3.29.54

नन्दीश्वर उवाच ॥
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ॥
सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः

3.29.55

विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ॥
स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा

3.29.56

सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ॥
भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ

3.29.57

इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ॥
कृष्णदर्शननामा वै नभगानन्ददायकः

3.29.58

इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ॥
पठतां शृण्वतां वापि सर्व कामफलप्रदम्

3.29.59

य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ॥
कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम्

3.29.29

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc