भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.25

3.25.1

नन्दीश्वर उवाच ॥
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ॥
महालीलां चकारेशस्तामहो सन्मुने शृणु

3.25.2

एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥
ददर्श पद्मां युवतीं शिवांशां सुमनोहराम्

3.25.3

तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ॥
जगाम भुवनाचारी लोकतत्त्वविचक्षणः

3.25.4

राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ॥
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः

3.25.5

स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ॥
मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः

3.25.6

मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ॥
अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह

3.25.7

अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ॥
तेजसा पिप्पलादस्य दाधीचस्य महामुने

3.25.8

अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ॥
कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ

3.25.9

पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ॥
पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ

3.25.3.25.10

तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ॥
उवाच नार्या स तया तपस्वीनातिलम्पटः

3.25.11

अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा

3.25.12

इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ॥
रेमे तया युवत्या च युवाभूय स्वलीलया

3.25.13

दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ॥
मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः

3.25.14

एवं लीलावतारो हि शंकरस्य महाप्रभोः ॥
पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः

3.25.15

येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ॥
दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम्

3.25.16

षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥
तथा च शिवभक्तानां सत्यमेतद्धि मे वचः

3.25.17

अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥
तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः

3.25.18

इति तद्भयतस्तात विकृतोपि शनैश्चरः ॥
तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः

3.25.19

इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥
कथितं सुचरित्रन्ते सर्वकामफलप्रदम्

3.25.3.25.20

गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥
शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः

3.25.21

पिप्पलादस्य चरितं पद्माचरितसंयुतम् ॥
यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः

3.25.22

शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ॥
यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात्

3.25.23

धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ॥
अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान्

3.25.24

इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ॥
सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम्

3.25.25

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc