भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 3.15

3.15.1

नन्दीश्वर उवाच॥
विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम्॥
तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम्

3.15.2

हा हतोस्मीति वचसा हृदयं समताडयत् ॥
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः

3.15.3

शुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ॥
अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया

3.15.4

श्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत्॥
उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः

3.15.5

ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥
स्मित्वोवाच गृहपस्सबालश्शंकरांशजः

3.15.6

गृहपतिरुवाच ॥
हे मातस्तात किं जातं कारणन्तद्वदाधुना ॥
किमर्थं रुदितोऽत्यर्थं त्रासस्तादृक्कुतो हि वाम्

3.15.7

न मां कृतवपुस्त्राणम्भवच्चरणरेणुभिः ॥
कालः कलयितुं शक्तो वराकीं चिञ्चलाल्पिका

3.15.8

प्रतिज्ञां शृणुतान्तातौ यदि वान्तनयो ह्यहम् ॥
करिष्येहं तथा येन मृत्युस्त्रस्तो भविष्यति

3.15.9

मृत्युंजयं समाराध्य गर्वज्ञं सर्वदं सताम् ॥
जपिष्यामि महाकालं सत्यं तातौ वदाम्यहम्

3.15.3.15.10

नन्दीश्वर उवाच ॥
इति श्रुत्वा वचस्तस्य जारितौ द्विजदम्पती॥
अकालमृतवर्षौघैर्गततापौ तदोचतुः

3.15.11

द्विजदम्पती ऊचतुः ॥
पुनर्ब्रूहि पुनर्ब्रूहि कीदृक्कीदृक् पुनर्वद ॥
कालः कलयितुन्नालं वराकी चञ्चलास्ति का

3.15.12

आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥
मृत्युंजयाख्यदेवस्य समाराधनलक्षणः

3.15.13

तद्वच्च शरणं शम्भोर्नातः परतरं हि तत्॥
मनोरथपथातीत कारिणः पापहारिणः

3.15.14

किन्न श्रुतन्त्वया तात श्वेतकेतुं यथा पुरा ॥
पाशितं कालपाशेन ररक्ष त्रिपुरान्तकः

3.15.15

शिलादतनयं मृत्युग्रस्तमष्टाब्दमात्रकम् ॥
शिवो निजजनञ्चक्रे नन्दिनं विश्वनंदिनम्

3.15.16

क्षीरोदमथनोद्भूतं प्रलयानलसन्निभम् ॥
पीत्वा हलाहलं घोरमरक्षद्भुवनत्रयम्

3.15.17

जलंधरं महादर्पं हृतत्रैलोक्यसम्पदम् ॥
रुचिरांगुष्ठरेखोत्थ चक्रेण निजघान यः

3.15.18

य एकेषु निपातोत्थज्वलनैस्त्रिपुरम्पुरा ॥
त्रैलोक्यैश्वर्यसम्मूढं शोषयामास भानुना

3.15.19

कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥
निनायानंगपदवीं वीक्ष्यमाणेष्वजादिषु

3.15.3.15.20

तम्ब्रह्माद्यैककर्तारम्मेघवाहनमच्युतम् ॥
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम्

3.15.21

नन्दीश्वर उवाच ॥
पित्रोरनुज्ञाम्प्राप्येति प्रणम्य चरणौ तयोः ॥
प्रादक्षिण्यमुपावृत्य बह्वाश्वास्य विनिर्ययौ

3.15.22

सम्प्राप्य काशीं दुष्प्रापाम्ब्रह्मनारायणादिभिः ॥
महासंवर्त्तसन्तापहन्त्रीं विश्वेशपालिताम्

3.15.23

स्वर्धुन्या हारयष्ट्येव राजिता कण्ठभूमिषु ॥
विचित्रगुणशालिन्या हरपत्न्या विराजिताम्

3.15.24

तत्र प्राप्य स विप्रेशः प्राग्ययौ मणिकर्णिकाम् ॥
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरम्प्रभुम्

3.15.25

साञ्जलिर्नतशीर्षोऽसौ महानन्दान्वितस्सुधीः ॥
त्रैलोक्यप्राणसन्त्राणकारिणम्प्रणनाम ह

3.15.26

आलोक्यालोक्य तल्लिंगं तुतोष हृदये मुहुः ॥
परमानंदकंदाढ्यं स्फुटमेतन्न संशयः

3.15.27

अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम्

3.15.28

मम भाग्योदयायैव नारदेन महर्षिणा ॥
पुरागत्य तथोक्तं यत्कृतकृत्योस्म्यहन्ततः

3.15.29

नन्दीश्वर उवाच ॥
इत्यानन्दामृतरसैर्विधाय स हि पारणम् ॥
ततश्शुभेह्नि संस्थाप्य लिंगं सर्व्वहितप्रदम्

3.15.3.15.30

जग्राह नियमान्घोरान् दुष्करानकृतात्मभिः ॥
अष्टोत्तरशतैः कुम्भैः पूर्णैर्गंगाम्भसा शुभैः

3.15.31

संस्नाप्य वाससा पूतः पूतात्मा प्रत्यहं शिवम् ॥
नीलोत्पलमयीम्मालां समर्पयति सोऽन्वहम्

3.15.32

अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥
स पक्षे वाथ वा मासे कन्दमूलफलाशनः

3.15.33

शीर्णपर्णाशनैर्धीरः षण्मासं सम्बभूव सः ॥
षण्मासं वायुभक्षोऽभूत्षण्मासं जल बिन्दुभुक्

3.15.34

एवं वर्षवयस्तस्य व्यतिक्रान्तं महात्मनः ॥
शिवैकमनसो विप्रास्तप्यमानस्य नारद

3.15.35

जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम् ॥
सत्यं करिष्यन्निव तमभ्यगात्कुलिशायुधः

3.15.36

उवाच च वरं ब्रूहि दद्मि त्वन्मनसि स्थितम् ॥
अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥ ।

3.15.37

नन्दीश्वर उवाच ॥
इत्याकर्ण्य महेन्द्रस्य वाक्यम्मुनिकुमारकः ॥
उवाच मधुरन्धीरः कीर्तयन्मधुराक्षरम्

3.15.38

गृहपतिरुवाच ॥
मघवन् वृत्रशत्रो त्वां जाने कुलिशपाणिनम् ॥
नाहं वृणे वरन्त्वत्तश्शंकरो वरदोऽस्ति मे

3.15.39

इन्द्र उवाच ॥
न मत्तश्शङ्करस्त्वन्यो देवदेवोऽस्म्यहं शिशो ॥
विहाय बालिशत्वं त्वं वरं याचस्व मा चिरम्

3.15.3.15.40

गृहपतिरुवाच ॥
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥
न प्रार्थये पशुपतेरन्यं देवान्तरं स्फुटम्

3.15.41

नन्दीश्वर उवाच ॥
इति तस्य वचः श्रुत्वा क्रोध संरक्तलोचनः ॥
उद्यम्य कुलिशं घोरम्भीषयामास बालकम्

3.15.42

स दृष्ट्वा बालको वज्रं विद्युज्ज्वाला समाकुलम् ॥
स्मरन्नारद वाक्यं च मुमूर्च्छ भयविह्वलः

3.15.43

अथ गौरीपतिश्शम्भुराविरासीत्तपोनुदः ॥
उत्तिष्ठोत्तिष्ठ भद्रन्ते स्पर्शैस्संजीवयन्निव

3.15.44

उन्मील्य नेत्रकमले सुप्ते इव दिनक्षये ॥
अपश्यदग्रे चोत्थाय शम्भुमर्कशताधिकम्

3.15.45

भाले लोचनमालोक्य कण्ठे कालं वृषध्वजम्॥
वामाङ्गसन्निविष्टाद्रितनयं चन्द्रशेखरम्

3.15.46

कपर्द्देन विराजन्तं त्रिशूलाजगवायुधम्॥
स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम्

3.15.47

परिज्ञाय महादेवं गुरुवाक्यत आगमात्॥
हर्षबाष्पाकुलासन्नकण्ठरोमाञ्चकञ्चुकः

3.15.48

क्षणं च गिरिवत्तस्थौ चित्रकूटत्रिपुत्रकः ॥
यथा तथा सुसम्पन्नो विस्मृत्यात्मानमेव च

3.15.49

न स्तोतुं न नमस्कर्तुं किञ्चिद्विज्ञप्तिमेव च ॥
यदा स न शशाकालं तदा स्मित्वाह शङ्करः

3.15.3.15.50

ईश्वर उवाच ॥
शिशो गृहपते शक्राद्वज्रोद्यतकरादहो ॥
ज्ञात भीतोऽसि मा भैषीर्जिज्ञासा ते मया कृता

3.15.51

मम भक्तस्य नो शक्रो न वज्रं चान्तकोऽपि च ॥
प्रभवेदिन्द्ररूपेण मयैव त्वम्विभीषितः

3.15.52

वरन्ददामि ते भद्र त्वमग्निपदभाग्भव ॥
सर्वेषामेव देवानां वरदस्त्वं भविष्यसि

3.15.53

सर्वेषामेव भूतानां त्वमग्नेऽन्तश्चरो भव॥
धर्मराजेन्द्रयोर्मध्ये दिगीशो राज्यमाप्नुहि

3.15.54

त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति॥
अग्नीश्वर इति ख्यातं सर्वतेजोविबृंहणम्

3.15.55

अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निभिः ॥
अग्निमांद्यभयं नैव नाकालमरणं क्वचित्

3.15.56

अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥
अन्यत्रापि मृतो दैवाद्वह्निलोके महीयते

3.15.57

नन्दीश्वर उवाच ॥
इत्युक्तानीय तद्बन्धून्पित्रोश्च परिपश्यतोः॥
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोऽविशत्

3.15.58

इत्थमग्न्यवतारस्ते वर्णितो मे जनार्दनः ॥
नाम्ना गृहपतिस्तात शंकरस्य परात्मनः

3.15.59

चित्रहोत्रपुरी रम्या सुखदार्चिष्मती वरा ॥
जातवेदसि ये भक्ता ते तत्र निवसन्ति वै

3.15.3.15.60

अग्निप्रवेशं ये कुर्य्युर्दृढसत्त्वा जितेन्द्रियाः ॥
स्त्रियो वा सत्त्वसम्पन्नास्ते सर्व्वेप्यग्नितेजसः

3.15.61

अग्निहोत्ररता विप्राः स्थापिता ब्रह्मचारिणः ॥
पश्चानिवर्त्तिनोऽप्येवमग्निलोकेग्निवर्चसः

3.15.62

शीते शीतापनुत्त्यै यस्त्वेधोभारान्प्रयच्छति ॥
कुर्य्यादग्नीष्टिकां वाथ स वसेदग्निसन्निधौ

3.15.63

अनाथस्याग्निसंस्कारं यः कुर्य्याच्छ्रद्धयान्वितः ॥
अशक्तः प्रेरयेदन्यं सोग्निलोके महीयते

3.15.64

अग्निरेको द्विजातीनां निश्श्रेयसकरः परः ॥
गुरुर्देवो व्रतं तीर्थं सर्वमग्निर्विनिश्चितम्

3.15.65

अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात् ॥
पावनानि भवन्त्येव तस्माद्यः पावकः स्मृतः

3.15.66

अन्तरात्मा ह्ययं साक्षान्निश्चयो ह्याशुशुक्षणिः ॥
मांसग्रासान्पचेत्कुक्षौ स्त्रीणां नो मांसपेशिकाम्

3.15.67

तैजसी शाम्भवी मूर्त्तिः प्रत्यक्षा दहनात्मिका ॥
कर्त्री हर्त्री पालयित्री विनैतां किं विलोक्यते

3.15.68

चित्रभानुरयं साक्षान्नेत्रन्त्रिभुवनेशितुः ॥
अन्धे तमोमये लोके विनैनं कः प्रकाशनः

3.15.69

धूपप्रदीपनैवेद्यपयोदधिघृतैक्षवम् ॥
एतद्भुक्तं निषेवन्ते सर्वे दिवि दिवौकसः

3.15.15

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारवर्णनं नाम पञ्चदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc