शिव पुराण · अध्याय 2.5.7
सनत्कुमार उवाच ॥
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ॥
अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः
एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा॥
आजगाम मुने तत्र यत्र देवान्वितो हरः
अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम्॥
प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः
प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ॥
तूष्णीमासन्नजानंतस्तदागमनकारणम्
अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ॥
उवाच स्वामिनं प्रीत्या नानालीलाविशारदम्
देव्युवाच ॥
क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ॥
पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः
इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ॥
न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम्
न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ॥
स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः
जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ॥
स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा
ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ॥
विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः
द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ॥
तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः
किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ॥
किं तु किंत्विति संजातं हा हताः स्मेति वादिनम्
अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ॥
प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम्
पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ॥
ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः
तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ॥
कुंभोदरो महातेजा दंडेनाताडयत्सुरान्
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ॥
अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह
इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ॥
अन्ये देवर्षयोतीव विकलाः पतिता भुवि
सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ॥
संगता विधिहर्योस्तु समीपं मित्रचेतसोः
अहो विधिबलं चैतन्मुनयः कश्यपादयः ॥
वदंति स्म तदा सर्वे हरि लोकभयापदम्
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥
कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः
इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ॥
आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे
विष्णुरुवाच ॥
हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ॥
किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम्
महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ॥
महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥
विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम्
शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ॥
विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति
प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ॥
शिवायेति ततः पश्चाच्छुभद्वयमतः परम्
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥
नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः
अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥
कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति
इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥
तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने
संजजाप हरिश्चापि सविधिश्शिवमानसः ॥
देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः
मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥
कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम
एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ॥
यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत्
श्रीशिव उवाच ॥
हे हरे हे विधे देवा मुनयश्च शुभव्रताः ॥
प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम्
॥ देवा ऊचुः ॥
यदि प्रसन्नो देवेश जगदीश्वर शंकर ॥
सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च
रक्षास्मान्परमेशान दीनबंधो कृपाकर ॥
त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः
॥ सनत्कुमार उवाच ॥
इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ॥
विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत्
॥ महेश उवाच ॥
हे हरे हे विधे देवा मुनयश्चाखिला वचः ॥
मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम्
रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ॥
पूर्वमंगीकृतं सर्वमुपपादयताचिरम्
हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ॥
सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः
नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ॥
करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने
अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ॥
भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह
धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ॥
अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः
य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ॥
शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात्
सनत्कुमार उवाच ॥
इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ॥
सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा
सर्वदेवमयं दिव्यं रथं परमशोभनम्॥
रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0