भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.56

2.5.56.1

॥ नारद उवाच ॥
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ॥
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने

2.5.56.2

सनत्कुमार उवाच॥
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ॥
दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा

2.5.56.3

ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ॥
दैत्यं शोणितदिग्धांगमनुता पसमन्वितम्

2.5.56.4

॥ नन्दीश्वर उवाच ॥
बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ॥
भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक्

2.5.56.5

तदिच्छया च यज्जातं तज्जातमिति चेतसा ॥
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः

2.5.56.6

मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ॥
भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः

2.5.56.7

नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः॥
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः

2.5.56.8

गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ॥
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः

2.5.56.9

संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ॥
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान्

2.5.56.2.5.56.10

ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ॥
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि

2.5.56.11

सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ॥
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः

2.5.56.12

॥
वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ॥
तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम्

2.5.56.13

रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ॥
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः

2.5.56.14

ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ॥
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः

2.5.56.15

रुद्र उवाच ॥
बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ॥
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते

2.5.56.16

सनत्कुमार उवाच ॥
इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ॥
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे

2.5.56.17

बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ॥
उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये

2.5.56.19

निर्वैरता च विबुधैर्विष्णुना च विशेषतः॥
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८
शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ॥
शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु

2.5.56.2.5.56.20

१९।
कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः॥
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः

2.5.56.21

॥
बाण उवाच॥
देवदेव महादेव शरणा गतवत्सल ॥
त्वां नमामि महेशान दीनबन्धो दयानिधे

2.5.56.22

कृता मयि कृपातीव कृपासागर शंकर ॥
गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो

2.5.56.23

त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ॥
ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः

2.5.56.24

नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ॥
द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो

2.5.56.25

दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ॥
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव

2.5.56.26

रोमाण्यौषधयो नाथ केशा जलमुचस्तव॥
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान्

2.5.56.27

ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ॥
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च

2.5.56.28

त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ॥
त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम्

2.5.56.29

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ॥
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन्

2.5.56.2.5.56.30

विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ॥
सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम्

2.5.56.31

सनत्कुमार उवाच ॥
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ॥
प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम्

2.5.56.32

इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ॥
सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत

2.5.56.33

ततश्शंभोः प्रसादेन महाकालत्वमागतः ॥
रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत्

2.5.56.34

इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ॥ कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम्

2.5.56.56

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc