शिव पुराण · अध्याय 2.5.54
व्यास उवाच ॥
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ॥
कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद
सनत्कुमार उवाच ॥
ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ॥
श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम
अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ॥
चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम्
नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ॥
आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः
!
कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ॥
जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात्
प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ॥
नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः
अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ॥
रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ॥
वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ
बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ॥
आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ
आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ॥
कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः
कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि॥
कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः
सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥
नन्दिना गरुडस्यापि परेषां च परैरपि
ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ॥
गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन्
प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ॥
युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम्
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता॥
कृष्णश्चकार समरमतुलं प्रमथैस्सह
तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ॥
विमुखेन त्रिपादेन ज्वरेण च गुहेन च
प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ॥
युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम्
विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ॥
निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः
शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ॥
द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः
एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ॥
चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन्
विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः॥
क्रोधं चकार सुमहन्ननाद च महोल्बणम्
तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ॥
मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा
पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ॥
प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ॥
आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च
कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ॥
न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा
विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ॥
स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने
विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ॥
अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन्
महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम्॥
माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ
वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ॥
अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम्
अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ॥
विष्णुशीतज्वरं प्राह शरणागतवत्सलः
महेश्वर उवाच ॥
शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ॥
यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम्
सनत्कुमार उवाच ॥
इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ॥
तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ॥
जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः
स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि॥
असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात्
कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ॥
दुद्राव बलभद्रोपि न तस्थेपि रणे बली
कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ॥
गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः
अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ॥
वेगेन महतारं वै शृंगाभ्यां निजघान तम्
शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ॥
विदुद्राव रणात्तूर्णं विहाय च जनार्दनम्
एवं जाते चरित्रं तु भगवान्देवकीसुतः ॥
उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः
श्रीकृष्ण उवाच ॥
हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ॥
महादेवसमीपस्थो यथा स्यां गदितुं वचः
सनत्कुमार उवाच ॥
इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ॥
द्रुतं तं वाहयामास रथं रुद्रसमीपतः
अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ॥
श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम्
श्रीकृष्ण उवाच ॥
देवदेव महादेव शरणागतवत्सल ॥
नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम्
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ॥
ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम्
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ॥
क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ॥
तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम्
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ॥
नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ॥
यं पश्यंत्यमलात्मानमाकाशमिव केवलम्
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ॥
ईशो हेतुरहेतुश्च सविकारः प्रतीयसे
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ॥
सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ॥
स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान्
गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ॥
स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ॥
उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ॥
यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ॥
त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ॥
निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ॥
आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने
सनत्कुमार उवाच ॥
इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ॥
प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः
महेश्वर उवाच ॥
सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ॥
मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने
किं करोमि रमानाथ भक्ताधीनस्सदा हरे ॥
पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम्
अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ॥
ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव
सनत्कुमार उवाच ॥
इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ॥
स्वरणस्थानमागत्य मुमोद स मुनीश्वरः
जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ॥
पिनाकपाणये व्यास नानास्त्रकुशलो हरिः
मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ॥
बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः
इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0