भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.47

2.5.47.1

व्यास उवाच ॥
तस्मिन्महति संग्रामे दारुणे लोमहर्षणे ॥
शुक्रो दैत्यपतिर्विद्वान्भक्षितस्त्रिपुरारिणा

2.5.47.2

इति श्रुतं समासान्मे तत्पुनर्ब्रूहि विस्तरात॥
किं चकार महायोगी जठरस्थः पिनाकिनः

2.5.47.3

न ददाह कथं शभोश्शुक्रं तं जठरानलः ॥
कल्पान्तदहनः कालो दीप्ततेजाश्च भार्गवः

2.5.47.4

विनिष्क्रांतः कथं धीमाच्छंभोर्जठरपंजरात् ॥
कथमाराधयामास कियत्कालं स भार्गवः

2.5.47.5

अथ च लब्धवान्विद्यां तां मृत्युशमनीं पराम्॥
का सा विद्या परा तात यथा मृत्युर्हि वार्यते

2.5.47.6

लेभेन्धको गाणपत्यं कथं शूला द्विनिर्गतः ॥
देवदेवस्य वै शंभोर्मुनेर्लीलाविहारिणः

2.5.47.7

एतत्सर्वमशेषेण महाधीमन् कृपां कुरु ॥
शिवलीलामृतं तात शृण्वत कथयस्व मे

2.5.47.8

ब्रह्मोवाच ॥
इति तस्य वचः श्रुत्वा व्यासस्यामिततेजसः ॥
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम्

2.5.47.9

सनत्कुमार उवाच ॥
शृणु व्यास महाबुद्धे शिवलीलामृतं परम् ॥
धन्यस्त्वं शैवमुख्योसि ममानन्दकरः स्वतः

2.5.47.2.5.47.10

प्रवर्तमाने समरे शंकरांधकयोस्तयोः ॥
अनिर्भेद्यपविव्यूहगिरिव्यूहाधिनाथयोः

2.5.47.11

पुरा जयो बभूवापि दैत्यानां बलशालिनाम्॥
शिवप्रभा वादभवत्प्रमथानां मुने जयः

2.5.47.12

तच्छुत्वासीद्विषण्णो हि महादैत्योंधकासुरः॥
कथं स्यान्मे जय इति विचारणपरोऽभवत्

2.5.47.13

अपसृत्य ततो युद्धादंधकः परबुद्धिमान् ॥
द्रुतमभ्यगमद्वीर एकलश्शुक्रसन्निधिम्

2.5.47.14

प्रणम्य स्वगुरुं काव्यमवरुह्य रथाच्च सः ॥
बभाषेदं विचार्याथ सांजलिर्नीतिवित्तमः

2.5.47.15

अंधक उवाच ॥
भगवंस्त्वामुपाश्रित्य गुरोर्भावं वहामहे ॥
पराजिता भवामो नो सर्वदा जयशालिनः

2.5.47.16

त्वत्प्रभावात्सदा देवान्समस्तान्सानुगान्वयम् ॥
मन्यामहे हरोषेन्द्रमुखानपि हि कत्तृणान्

2.5.47.17

अस्मत्तो बिभ्यति सुरास्तदा भवदनुग्रहात् ॥
गजा इव हरिभ्यश्च तार्क्ष्येभ्य इव पन्नगाः

2.5.47.18

अनिर्भेद्यं पविव्यूहं विविशुर्दैत्य दानवाः ॥
प्रमथानीकमखिलं विधूय त्वदनुग्रहात्

2.5.47.19

वयं त्वच्छरणा भूत्वा सदा गा इव निश्चलाः ॥
स्थित्वा चरामो निश्शंकमाजावपि हि भार्गव

2.5.47.2.5.47.20

रक्षरक्षाभितो विप्र प्रव्रज्य शरणागतान् ॥
असुराञ्छत्रुभिर्वीरैरर्दितांश्च मृतानपि

2.5.47.21

प्रथमैर्भीमविक्रांतैः क्रांतान्मृत्युप्रमाथिभिः ॥
सूदितान्पतितान्पश्य हुंडादीन्मद्गणान्वरान्

2.5.47.22

यः पीत्वा कणधूमं वै सहस्रं शरदां पुरा ॥
त्वया प्राप्ता वरा विद्या तस्याः कालोयमागतः

2.5.47.23

अद्य विद्याफलं तत्ते सर्वे पश्यंतु भार्गव ॥
प्रमथा असुरान्सर्वान् कृपया जीवयिष्यतः

2.5.47.24

सनत्कुमार उवाच ॥
इत्थमन्धकवाक्यं स श्रुत्वा धीरो हि भार्गवः ॥
तदा विचारयामास दूयमानेन चेतसा

2.5.47.25

किं कर्तव्यं मयाद्यापि क्षेमं मे स्यात्कथं त्विति ॥
सन्निपातविधिर्जीवः सर्वथानुचितो मम

2.5.47.26

विधेयं शंकरात्प्राप्ता तद्गुणान् प्रति योजये ॥
तद्रणे मर्दितान्वीरः प्रमथैश्शंकरानुगैः

2.5.47.27

शरणागतधर्मोथ प्रवरस्सर्वतो हृदा॥
विचार्य शुक्रेण धिया तद्वाणी स्वीकृता तदा

2.5.47.28

किंचित्स्मितं तदा कृत्वा सोऽब्रवीद्दानवाधिपम् ॥
भार्गवश्शिवपादाब्जं सप्पा?? स्वस्थेन चेतसा

2.5.47.29

शुक्र उवाच ॥
यत्त्वया भाषितं तात तत्सर्वं तथ्यमेव हि ॥
एतद्विद्योपार्जनं हि दानवार्थं कृतं?? मया

2.5.47.2.5.47.30

दुस्सहं कणधूमं वै पीत्वा वर्षसहस्रकम् ॥
विद्येयमीश्वरात्प्राप्ता बंधूनां सुखदा सदा

2.5.47.31

प्रमथैर्मथितान्दैत्यान्रणेहं विद्ययानया ॥
उत्थापयिष्ये म्लानानि शस्यानि जलभुग्यथा

2.5.47.32

निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुन रुत्थितान् ॥
मुहूर्तेस्मिंश्च द्रष्टासि दैत्यांस्तानुत्थितान्निजान्

2.5.47.33

सनत्कुमार उवाच ॥
इत्युक्त्वा सोधकं शुक्रो विद्यामावर्तयत्क विः ॥
एकैकं दैत्यमुद्दिश्य स्मृत्वा विद्येशमादरात्

2.5.47.34

विद्यावर्तनमात्रेण ते सर्वे दैत्यदानवाः ॥
उत्तस्थुर्युगपद्वीरास्सुप्ता इव धृतायुधाः

2.5.47.35

सदाभ्यस्ता यथा वेदास्समरे वा यथाम्बुदा ॥
श्रद्धयार्थास्तथा दत्ता ब्राह्मणेभ्यो यथापदि

2.5.47.36

उज्जीवितांस्तु तान्दृष्ट्वा हुंडादींश्च महासुरान् ॥
विनेदुरसुराः सर्वे जलपूर्णा इवांबुदाः

2.5.47.37

रणोद्यताः पुनश्चासन्गर्जंतो विकटान्रवान् ॥
प्रमथैस्सह निर्भीता महाबलपराक्रमाः

2.5.47.38

शुक्रेणोज्जीवितान्दृष्ट्वा प्रमथा दैत्यदानवान् ॥
विसिष्मिरे ततस्सर्वे नंद्याद्या युद्धदुर्मदाः

2.5.47.39

विज्ञाप्यमेवं कर्मैतद्देवेशे शंकरेऽखिलम् ॥
विचार्य बुद्धिमंतश्च ह्येवं तेऽन्योन्यमब्रुवन्

2.5.47.2.5.47.40

आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ॥
अमर्षितो भार्गवकर्म दृष्ट्वा शिलादपुत्रोऽभ्यगमन्महेशम्

2.5.47.41

जयेति चोक्त्वा जययोनिमुग्रमुवाच नंदी कनकावदातम् ॥
गणेश्वराणां रणकर्म देव देवैश्च सेन्द्रैरपि दुष्करं सत्

2.5.47.42

तद्भार्गवेणाद्य कृतं वृथा नस्संजीवतांस्तान्हि मृतान्विपक्षान्॥
आवर्त्य विद्यां मृतजीवदात्रीमेकेकमुद्दिश्य सहेलमीश

2.5.47.43

तुहुंडहुंडादिककुंभजंभविपा कपाकादिमहासुरेन्द्राः ॥
यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथांश्चरंति

2.5.47.44

यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनः पुनस्तान्॥
जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः

2.5.47.45

॥ सनत्कुमार उवाच ॥
इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ॥
उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम्

2.5.47.46

शिव उवाच ॥
नन्दिन्प्रयाहि त्वरितोऽति मात्रं द्विजेन्द्रवर्यं दितिनन्दनानाम् ॥
मध्यात्समुद्धृत्य तथा नयाशु श्येनो यथा लावकमंडजातम्

2.5.47.47

सनत्कुमार उवाच ॥
स एवमुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ॥
जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः

2.5.47.48

तं रक्ष्यमाणं दितिजैस्समस्तैः पाशासिवृक्षोपलशैलहस्तैः ॥
विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नन्दी शरभो यथेभम्

2.5.47.49

स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ॥
विमोचयिष्यंत इवानुजग्मुः सुरारयस्सिंहरवांस्त्यजंतः

2.5.47.2.5.47.50

दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपलकंपनानाम् ॥
नंदीश्वरस्योपरि दानवेन्द्रा वर्षं ववर्षुर्जलदा इवोग्रम्

2.5.47.51

तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ॥
आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिपक्षः

2.5.47.52

अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ॥
जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम्

2.5.47.53

न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवीन्द्रम् ॥
हाहारवस्तैरसुरैस्समस्तैरुच्चैर्विमुक्तो हहहेति भूरि

2.5.47.47

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे अंधकयुद्धे शुक्रनिगीर्णनवर्णनं नाम सप्तचत्वारिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc