भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.39

2.5.39.1

व्यास उवाच ॥
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ॥
तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम

2.5.39.2

सनत्कुमार उवाच॥
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ॥
महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम्

2.5.39.3

व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः॥
ययौ स्वयं च समरे स्वगणैस्सह शंकरः

2.5.39.4

महावृषभमारूढो वीरभद्रादिसंयुतः ॥
भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः

2.5.39.5

रणं प्राप्तो महेशश्च वीररूपं विधाय च ॥
विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः

2.5.39.6

शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ॥
ननाम परया भक्त्या शिरसा दंडवद्भुवि

2.5.39.7

तं प्रणम्य तु योगेन विमानमारुरोह सः ॥
तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम्

2.5.39.8

शिवदानवयोर्युद्धं शतमब्दं बभूव ह ॥
बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा

2.5.39.9

शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान्॥
चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः

2.5.39.2.5.39.10

तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः॥
महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति

2.5.39.11

दानवो निशितं खड्गं चर्म चादाय वेगवान्॥
वृषं जघान शिरसि शिवस्य वरवाहनम्

2.5.39.12

ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ॥
खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम्

2.5.39.13

छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः॥
द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम्

2.5.39.14

कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ॥
मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः

2.5.39.15

गदामाविध्य तरसा संचिक्षेप हरं प्रति ॥
शंभुना सापि सहसा भिन्ना भस्मत्वमागता

2.5.39.16

ततः परशुमादाय हस्तेन दानवेश्वरः ॥
धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः

2.5.39.17

समाहृत्य स्वबाणौघैरपातयत शंकरः ॥
द्रुतं परशुहस्तं तं भूतले लीलयासुरम्

2.5.39.18

ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ॥
धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः

2.5.39.19

आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ॥
चकार ज्यारवं चापि धनुषो दुस्सहं हर

2.5.39.2.5.39.20

पूरयामास ककुभः शृंगनादेन च प्रभुः ॥
स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा

2.5.39.21

त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ॥
पूरयामास सहसा खं गां वसुदिशस्तथा

2.5.39.22

महाकालस्समुत्पत्या ताडयद्गां तथा नभः ॥
कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः

2.5.39.23

अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ॥
भैरवोऽपि महानादं स चकार महाहवे

2.5.39.24

महाकोलाहलो जातो रणमध्ये भयंकरः॥
वीरशब्दो बभूवाथ गणमध्ये समंततः

2.5.39.25

संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः॥
चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः

2.5.39.26

तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ॥
देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च

2.5.39.27

अथागत्य स दंभस्य तनयस्सुप्रतापवान् ॥
शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम्

2.5.39.28

वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ॥
निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया

2.5.39.29

पुनः प्रववृते युद्धं शिवदानवयोर्महत् ॥
चकंपे धरणी द्यौश्च सनगाब्धिजलाशया

2.5.39.2.5.39.30

दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च॥
सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा

2.5.39.31

ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ॥
तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः

2.5.39.32

ततः क्षणेन संप्राप संज्ञां स च तदासुरः ॥
आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः

2.5.39.33

बाहूनागयुतं कृत्वा छादयामास शंकरम् ॥
चक्रायुतेन सहसा शंखचूडः प्रतापवान्

2.5.39.34

ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ॥
तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम्

2.5.39.35

ततो वेगेन सहसा गदामादाय दानवः ॥
अभ्यधावत वै हंतुं बहुसेनावृतो हरम्

2.5.39.36

गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ॥
शितधारेण संक्रुद्धो दुष्टगर्वापहारकः

2.5.39.37

छिन्नायां स्वगदायां च चुकोपातीव दानवः ॥
शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत्

2.5.39.38

सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ॥
स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः

2.5.39.39

त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ॥
तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान्

2.5.39.2.5.39.40

निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ॥
चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि

2.5.39.41

ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ॥
असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा

2.5.39.42

क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ॥
केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे

2.5.39.43

वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ॥
नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान्

2.5.39.44

एवं बहुगणा वीरास्तदा संनह्य कोपतः ॥
व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान्

2.5.39.39

इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ॥
विद्रुताश्चापरे वीरा बहवो भयकातराः ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc