भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.34

2.5.34.1

व्यास उवाच ॥
विधितात महाबुद्धे मुने जीव चिरं समाः ॥
कथितं सुमहच्चित्रं चरितं चन्द्रमौलिनः

2.5.34.2

शिवदूते गते तत्र शङ्खचूडश्च दानवः ॥
किं चकार प्रतापी स तत्त्वं वद सुविस्तरम्

2.5.34.3

सनत्कुमार उवाच ॥
अथ दूते गते तत्र शंखचूडः प्रतापवान् ॥
उवाच तुलसीं वार्तां गत्वाभ्यंतरमेव ताम्

2.5.34.4

शङ्खचूड उवाच ॥
शम्भुदूतमुखाद्देवि युद्धायाहं समुद्यतः ॥
तेन गच्छाम्यहं योद्धुं शासनं कुरु मे ध्रुवम्

2.5.34.5

इत्येवमुक्त्वा स ज्ञानी नानाबोधनतः प्रियाम्॥
क्रीडां चकार हर्षेण तमनादृत्य शंकरम्

2.5.34.6

तौ दम्पती चिक्रीडाते निमग्नौ सुखसागरे ॥
नानाकामकलाभिश्च निशि चाटुशुतैरपि

2.5.34.7

ब्राह्मे मुहूर्त उत्थाय प्रातःकृत्यं विधाय च ॥
नित्यकार्यं च कृत्वादौ ददौ दानमनंतकम्

2.5.34.8

पुत्रं कृत्वा च राजेन्द्रं सर्वेषु दान वेषु च ॥
पुत्रे समर्प्य भार्यां च स राज्यं सर्वसंपदम्

2.5.34.2.5.34.10

प्रियामाश्वासयामास स राजा रुदतीं पुनः ॥
निषेधतीं च गमनं नाना वार्तां प्रकथ्य च ॥ ९ ।
निजसेनापतिं वीरं समाहूय समादृतः ॥
आदिदेश स सनद्धस्संग्रामं कर्तुऽमुद्यतः

2.5.34.11

शंखचूड उवाच॥
अद्य सेनापते वीरास्सर्वे समरशालिनः ॥
संनद्धाखिलकर्माणो निर्गच्छंतु रणाय च

2.5.34.12

दैत्याश्च दानवाः शूरा षडशीतिरुदा युधाः ॥
कंकानां बलिनां शीघ्रं सेना निर्यांतु निर्भयाः

2.5.34.13

पञ्चाशदसुराणां हि निर्गच्छंतु कुलानि वै ॥
कोटिवीर्याणि युद्धार्थं शम्भुना देवपक्षिणा

2.5.34.14

संनद्धानि च धौम्राणां कुलानि च शतं द्रुतम् ॥
निर्गच्छंतु रणार्थं हि शम्भुना मम शासनात्

2.5.34.15

कालकेयाश्च मौर्याश्च दौर्हृदाः कालकास्तथा ॥
सज्जा निर्यान्तु युद्धाय रुद्रेण मम शासनात्

2.5.34.16

सनत्कुमार उवाच ॥
इत्याज्ञाप्यासुरपतिर्दानवेन्द्रो महाबलः ॥
निर्जगाम महासैन्यः सहस्रैबहुभिर्वृतः

2.5.34.17

तस्य सेनापतिश्चैव युद्धशास्त्रविशारदः ॥
महारथो महावीरो रथिनां प्रवरो रणे

2.5.34.18

त्रिलक्षाक्षौहिणीयुक्तो मांडल्यं च चकार ह ॥
बहिर्बभूव शिबिराद्रणे वीरभयङ्करः

2.5.34.2.5.34.20

रत्नेन्द्रं सारनिर्माणं विमानमभिरुह्य सः ॥
गुरुवर्गं पुरस्कृत्य रणार्थं प्रययौ किल॥॥॥
पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः ॥
सिद्धाश्रमे च सिद्धानां सिद्धिक्षेत्रं सुसिद्धिदम्

2.5.34.21

कपिलस्य ततः स्थानं पुण्यक्षेत्रे च भारते ॥
पश्चिमोदधिपूर्वे च मलयस्य हि पश्चिमे

2.5.34.22

श्रीशैलोत्तरभागे च गंधमादनदक्षिणे ॥
पंचयोजनविस्तीर्णं दैर्घ्ये शतगुणस्तथा

2.5.34.24

शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा॥
पुष्पभद्रा नदी रम्या जलपूर्णा सरस्वती॥२३।
लवणोदधिप्रिया भार्या शश्वत्सौभाग्यसं युता ॥
सरस्वतीसंश्रिता च निर्गता सा हिमालयात्

2.5.34.25

गोमंतं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ ॥
तत्र गत्वा शंखचूडः शिव सेनां ददर्श ह

2.5.34.34

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडयात्रावर्णनं नाम चतुस्त्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc