भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.32

2.5.32.1

सनत्कुमार उवाच ॥
अथेशानो महारुद्रो दुष्टकालस्सतांगतिः ॥
शंखचूडवधं चित्ते निश्चिकाय सुरेच्छया

2.5.32.2

दूतं कृत्वा चित्ररथं गंधर्वेश्वरमीप्सितम् ॥
शीघ्रं प्रस्थापयामास शंखचूडांतिके मुदा

2.5.32.3

सर्वेश्वराज्ञया दूतो ययौ तन्नगरं च सः ॥
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम्

2.5.32.4

गत्वा ददर्श तन्मध्ये शंखचूडालयं वरम् ॥
राजितं द्वादशैर्द्वारैर्द्वारपालसमन्वितम्

2.5.32.5

स दृष्ट्वा पुष्पदन्तस्तु वरं द्वारं ददर्श सः॥
कथयामास वृत्तांतं द्वारपालाय निर्भयः

2.5.32.6

अतिक्रम्य च तद्द्वारं जगामाभ्यंतरे मुदा॥
अतीव सुन्दरं रम्यं विस्तीर्णं समलंकृतम्

2.5.32.7

स गत्वा शंखचूडं तं ददर्श दनुजाधिपम् ॥
वीरमंडल मध्यस्थं रत्नसिंहासनस्थितम्

2.5.32.8

दानवेन्द्रैः परिवृतं सेवितं च त्रिकोटिभिः ॥
शतः कोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रपाणिभिः

2.5.32.9

एवंभूतं च तं दृष्ट्वा पुष्पदंतस्सविस्मयः ॥
उवाच रणवृत्तांतं यदुक्तं शंकरेण च

2.5.32.2.5.10

पुष्पदंत उवाच ॥
राजेन्द्र शिवदूतोऽहं पुष्पदंताभिधः प्रभो ॥
यदुक्तं शंकरेणैव तच्छृणु त्वं ब्रवीमि ते

2.5.32.11

शिव उवाच
राज्यं देहि च देवानामधिकारं हि सांप्रतम् ॥
नोचेत्कुरु रणं सार्द्धं परेण च मया सताम्

2.5.32.12

देवा मां शरणापन्ना देवेशं शंकरं सताम् ॥
अहं क्रुद्धो महारुद्रस्त्वां वधिष्याम्यसंशयम्

2.5.32.13

हरोऽस्मि सर्वदेवेभ्यो ह्यभयं दत्तवानहम्॥
खलदंडधरोऽहं वै शरणागतवत्सलः

2.5.32.14

राज्यं दास्यसि किं वा त्वं करिष्यसि रणं च किम् ॥
तत्त्वं ब्रूहि द्वयोरेकं दानवेन्द्र विचार्य वै

2.5.32.15

पुष्पदंत उवाच ॥
इत्युक्तं यन्महेशेन तुभ्यं तन्मे निवेदितम् ॥
वितथं शंभुवाक्यं न कदापि दनुजाधिप

2.5.32.16

अहं स्वस्वामिनं गंतुमिच्छामि त्वरितं हरम् ॥
गत्वा वक्ष्यामि किं शंभोस्तथा त्वं वद मामिह

2.5.32.17

॥ सनत्कुमार उवाच
इत्थं च पुष्पदंतस्य शिवदूतस्य सत्पतेः ॥
आकर्ण्य वचनं राजा हसित्वा तमुवाच सः

2.5.32.18

शंखचूड उवाच ॥
राज्यं दास्ये न देवेभ्यो वीरभोग्या वसुंधरा ॥
रणं दास्यामि ते रुद्र देवानां पक्षपातिने

2.5.32.19

यस्योपरि प्रयायी स्यात्स वीरो भुवेनऽधमः।
अतः पूर्वमहं रुद्र त्वां गमिष्याम्यसंशयम्

2.5.32.2.5.20

प्रभात आगमिष्यामि वीरयात्रा विचारतः ॥
त्वं गच्छाचक्ष्व रुद्राय हीदृशं वचनं मम

2.5.32.21

॥
इति श्रुत्वा शंखचूडवचनं सुप्रहस्य सः ॥
उवाच दानवेन्द्रं स शंभुदूतस्तु गर्वितम्

2.5.32.22

अन्येषामपि राजेन्द्र गणानां शंकरस्य च ॥
न स्थातुं संमुखे योग्यः किं पुनस्तस्य संमुखम्

2.5.32.23

स त्वं देहि च देवानामधिकाराणि सर्वशः ॥
त्वमरे गच्छ पातालं यदि जीवितुमिच्छसि

2.5.32.24

सामान्यममरं तं नो विद्धि दानवसत्तम॥
शंकरः परमात्मा हि सर्वेषामीश्वरेश्वरः

2.5.32.25

इन्द्राद्यास्सकला देवा यस्याज्ञावर्तिनस्सदा॥
सप्रजापतयस्सिद्धा मुनयश्चाप्यहीश्वराः

2.5.32.26

हरेर्विधेश्च स स्वामी निर्गुणस्सगुणस्स हि ॥
यस्य भ्रूभंगमात्रेण सर्वेषां प्रलयो भवेत्

2.5.32.27

शिवस्य पूर्णरूपश्च लोकसंहारकारकः॥
सतां गतिर्दुष्टहंता निर्विकारः परात्परः

2.5.32.28

ब्रह्मणोधिपतिस्सोऽपि हरेरपि महेश्वरः॥
अवमान्या न वै तस्य शासना दानवर्षभ

2.5.32.29

किं बहूक्तेन राजेन्द्र मनसा संविचार्य च ॥
रुद्रं विद्धि महेशानं परं ब्रह्म चिदात्मकम्

2.5.32.31

देहि राज्यं हि देवानामधिकारांश्च सर्वशः ॥
एवं ते कुशलं तात भविष्यत्यन्यथा भयम् ।2.5.३०।
सन्त्कुमार उवाच॥
इति श्रुत्वा दानवेंद्रः शंखचूडः प्रतापवान् ॥
उवाच शिवदूतं तं भवितव्यविमोहितः

2.5.32.32

शंखचूड उवाच ॥
स्वतो राज्यं न दास्यामि नाधिकारान् विनिश्चयात् ॥
विना युद्धं महेशेन सत्यमेतद्ब्रवीम्यहम्

2.5.32.33

कालाधीनं जगत्सर्वं विज्ञेयं सचराचरम्॥
कालाद्भवति सर्वं हि विनश्यति च कालतः

2.5.32.34

त्वं गच्छ शंकरं रुद्रं मयोक्तं वद तत्त्वत॥
स च युक्तं करोत्वेवं बहुवार्तां कुरुष्व नो

2.5.32.35

सनत्कुमार उवाच॥
इत्युक्त्वा शिवदूतोऽसौ जगाम स्वामिनं निजम् ॥
यथार्थं कथयामास पुष्पदंतश्च सन्मुने

2.5.32.32

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडवधे दूतगमनं नाम द्वात्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc