भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.5.18

2.5.18.1

सनत्कुमार उवाच॥
एवं शासति धर्मेण महीं तस्मिन्महासुरे॥
बभूवुर्दुःखिनो देवा भ्रातृभावान्मुनीश्वर

2.5.18.2

दुःखितास्ते सुरास्सर्वे शिवं शरणमाययुः ॥
मनसा शंकरं देवदेवं सर्वप्रभुंप्रभुम्

2.5.18.3

तुष्टुवुर्वाग्भिरिष्टाभिर्भगवंतं महेश्वरम् ॥
निवृत्तये स्वदुःखस्य सर्वदं भक्तवत्सलम्

2.5.18.4

आहूय स महादेवो भक्तानां सर्वकामदः॥॥
नारदं प्रेरयामास देवकार्यचिकीर्षया

2.5.18.5

अथ देवमुनिर्ज्ञानी शंभुभक्तस्सतां गतिः ॥
शिवाज्ञया ययौ दैत्यपुरे देवान्स नारदः

2.5.18.6

व्याकुलास्ते सुरास्सर्वे वासवाद्या द्रुतं मुनिम् ॥
आगच्छंतं समालोक्य समुत्तस्थुर्हि नारदम्

2.5.18.7

ददुस्त आसनं नत्त्वा मुनये प्रीतिपूर्वकम् ॥
नारदाय सुराश्शक्रमुखा उत्कंठिताननाः

2.5.18.8

सुखासीनं मुनिवरमासने सुप्रणम्य तम् ॥
पुनः प्रोचुस्सुरा दीना वासवाद्या मुनीश्वरम्

2.5.18.9

देवा ऊचुः ॥
भोभो मुनिवरश्रेष्ठ दुःखं शृणु कृपाकर ॥
श्रुत्वा तन्नाशय क्षिप्रं प्रभुस्त्वं शंकरप्रियः

2.5.18.2.5.18.10

जलंधरेण दैत्येन सुरा विद्राविता भृशम्॥
स्वस्थानाद्भर्तृभावाच्च दुःखिता वयमाकुलाः

2.5.18.11

स्वस्थानादुष्णरश्मिश्च चन्द्रो निस्सारितस्तथा ॥
वह्निश्च धर्मराजश्च लोकपालास्तथेतरे

2.5.18.12

सुबलिष्ठेन वै तेन सर्वे देवाः प्रपीडिताः ॥
दुःखं प्राप्ता वयं चातिशरणं त्वां समागताः

2.5.18.13

संग्रामे स हृषीकेशं स्ववशं कृतवान् बली ॥
जलंधरो महादैत्यः सर्वामरविमर्दकः

2.5.18.14

तस्य वश्यो वराधीनोऽवात्सीत्तत्सदने हरिः ॥
सलक्ष्म्या सहितो विष्णुर्यो नस्सर्वार्थसाधकः

2.5.18.15

जलंधरविनाशाय यत्नं कुरु महामते ॥
त्वं नो दैववशात्प्राप्तस्सदा सर्वार्थसाधकः

2.5.18.16

सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तेषाममराणां स नारदः ॥
आश्वास्य मुनिशार्दूलस्तानुवाच कृपाकरः

2.5.18.17

नारद उवाच ॥
जानेऽहं वै सुरा यूयं दैत्यराजपराजिताः॥
दुःख प्राप्ताः पीडिताश्च स्थानान्निस्सारिताः खलुः

2.5.18.18

स्वशक्त्या भवतां स्वार्थं करिष्ये नात्र संशयः॥
अनुकूलोऽहमिव वो दुःखं प्राप्ता यतो ऽमराः

2.5.18.19

सनत्कुमार उवाच ॥
एवमुक्त्वा मुनिश्रेष्ठ द्रष्टुं दानववल्लभम् ॥
आश्वास्य सकलान्देवाञ्जलंधरसभां ययौ

2.5.18.2.5.18.20

अथागतं मुनिश्रेष्ठं दृष्ट्वा देवो जलंधरः ॥
उत्थाय परया भक्त्या ददौ श्रेष्ठासनं वरम्

2.5.18.21

स तं संपूज्य विधिवद्दानवेन्द्रोऽति विस्मितः ॥
सुप्रहस्य तदा वाक्यं जगाद मुनिसत्तमम्

2.5.18.22

जलंधर उवाच ॥
कुत आगम्यते ब्रह्मन्किं च दृष्टं त्वया क्वचित्॥
यदर्थमिह आयातस्तदाज्ञापय मां मुने

2.5.18.23

सनत्कुमार उवाच ॥
इत्याकर्ण्य वचस्तस्य दैत्येन्द्रस्य महामुनिः ॥
प्रत्युवाच प्रसन्नात्मा नारदो हि जलंधरम्

2.5.18.24

नारद उवाच ॥
सर्वदानवदैत्येन्द्र जलंधर महामते ॥
धन्यस्त्वं सर्वलोकेश रत्नभोक्ता त्वमेव हि

2.5.18.25

मदागमनहेतुं वै शृणु दैत्येन्द्रसत्तम ॥
यदर्थमिह चायातस्त्वहं वक्ष्येखिलं हि तत्

2.5.18.26

गतः कैलासशिखरं दैत्येन्द्राहं यदृच्छया ॥
योजनायुतविस्तीर्णं कल्पद्रुममहावनम्

2.5.18.27

कामधेनुशताकीर्णं चिंतामणिसुदीपितम् ॥
सर्वरुक्ममयं दिव्यं सर्वत्राद्भुतशोभितम्

2.5.18.28

तत्रोमया सहासीनं दृष्टवानस्मि शंकरम् ॥
सर्वाङ्गसुन्दरं गौरं त्रिनेत्रं चन्द्रशेखरम्

2.5.18.29

तं दृष्ट्वा महदाश्चर्यं वितर्को मेऽभवत्तदा॥
क्वापीदृशी भवेद्वृद्धिस्त्रैलोक्ये वा न वेति च

2.5.18.2.5.18.30

तावत्तवापि दैत्येन्द्र समृद्धिस्संस्मृता मया॥
तद्विलोकनकामोऽहं त्वत्सांनिध्यमिहा गतः

2.5.18.31

सनत्कुमार उवाच ॥
इति नारदतः श्रुत्वा स दैत्येन्द्रो जलंधरः ॥
स्वसमृद्धिं समग्रां वै दर्शयामास सादरम्

2.5.18.32

दृष्ट्वा स नारदो ज्ञानी देवकार्यसुसाधकः ॥
प्रभुप्रेरणया प्राह दैत्येन्द्रं तं जलंधरम्

2.5.18.33

नारद् उवाच ॥
तवास्ति सुसमृद्धिर्हि वरवीर खिलाधुना ॥
त्रैलोक्यस्य पतिस्त्वं हि चित्रं किं चात्र संभवम्

2.5.18.34

मणयो रत्नपुंजाश्च गजाद्याश्च समृद्धयः ॥
ते गृहेऽद्य विभांतीह यानि रत्नानि तान्यपि

2.5.18.35

गजरत्नं त्वयानीतं शक्रस्यैरावतस्तथा ॥
अश्वरत्नं महावीर सूर्यस्योच्चैःश्रवा हयः

2.5.18.36

कल्पवृक्षस्त्वयानीतो निधयो धनदस्य च ॥
हंसयुक्तविमानं च त्वयानीतं हि वेधसः

2.5.18.37

इत्येवं वररत्नानि दिवि पृथ्व्यां रसातले ॥
यानि दैत्येन्द्र ते भांति गृहे तानि समस्ततः

2.5.18.38

त्वत्समृद्धिमिमां पश्यन्सम्पूर्णां विविधामहम् ॥
प्रसन्नोऽस्मि महावीर गजाश्वादिसुशोभिताम्

2.5.18.39

जायारत्नं महाश्रेष्ठं जलंधर न ते गृहे ॥
तदानेतुं विशेषेण स्त्रीरत्नं वै त्वमर्हसि

2.5.18.2.5.18.40

यस्य गेहे सुरत्नानि सर्वाणि हि जलंधर ॥
जायारत्नं न चेत्तानि न शोभंते वृथा ध्रुवम्

2.5.18.41

सनत्कुमार उवाच ॥
इत्येवं वचनं श्रुत्वा नारदस्य महात्मनः ॥
उवाच दैत्यराजो हि मदनाकुलमानसः

2.5.18.42

जलंधर उवाच ॥
भो भो नारद देवर्षे नमस्तेस्तु महाप्रभो ॥
जायारत्नवरं कुत्र वर्तते तद्वदाधुना

2.5.18.43

ब्रह्मांडे यत्र कुत्रापि तद्रत्नं यदि वर्त्तते ॥
तदानेष्ये ततो ब्रह्मन्सत्यं सत्यं न संशयः

2.5.18.44

नारद उवाच॥
कैलासे ह्यतिरम्ये च वर्वद्धिं सुसमाकुले ॥
योगिरूपधरश्शंभुरस्ति तत्र दिगम्बरः

2.5.18.45

तस्य भार्या सुरम्या हि सर्वलक्षणलक्षिता॥
सर्वांगसुन्दरी नाम्ना पार्वतीति मनोहरा

2.5.18.46

तदीदृशं रूपमनन्यसंगतं दृष्टं न कुत्रापि कुतूहलाढ्यम् ॥
अत्यद्भुतं मोहनकृत्सुयोगिनां सुदर्शनीयं परमर्द्धिकारि

2.5.18.47

स्वचित्ते कल्पयाम्यद्य शिवादन्यस्समृद्धिवान् ॥
जायारत्नान्विताद्वीर त्रिलोक्या न जलंधर

2.5.18.48

यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥
स्वधैर्य्यं मुमुचे पूर्वं तया कान्योपमीयते

2.5.18.49

गतरागोऽपि हि यया मदनारिस्स्वलीलया ॥
निजतंत्रोऽपि यतस्स स्वात्म वशगः कृतः

2.5.18.2.5.18.50

यथा स्त्रीरत्नसंभोक्तुस्समृद्धिस्तस्य साभवत् ॥
तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च

2.5.18.51

सनत्कुमार उवाच ॥
इत्युक्त्वा स तु देवर्षिर्नारदो लोकविश्रुतः॥
ययौ विहायसा देवोपकारकरणोद्यतः

2.5.18.18

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे जलंधरवधोपाख्याने देवर्षिजलंधरसंवादो नामाष्टदशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc