भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.4.20

2.4.20.1

॥ब्रह्मोवाच॥
एतस्मिन्नंतरे तत्र विश्वरूपः प्रजापतिः ॥
तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः

2.4.20.2

विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे॥
सिद्धिबुद्धिरिति ख्याते शुभे सर्वांगशोभने

2.4.20.3

ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ॥
महोत्सवं विवाहं च कारयामासतुर्मुदा

2.4.20.4

संतुष्टा देवतास्सर्वास्तद्विवाहे समागमन् ॥
यथा चैव शिवस्यैव गिरिजाया मनोरथः

2.4.20.5

तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ॥
तथा च ऋषयो देवा लेभिरे परमां मुदम्

2.4.20.6

गणेशोपि तदा ताभ्यां सुखं चैवाप्तिचिंतकम् ॥
प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते

2.4.20.7

कियता चैव कालेन गणेशस्य महात्मनः ॥
द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः

2.4.20.8

सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ॥
बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः

2.4.20.9

एवं सुखमचिंत्यं व भुंजाने हि गणेश्वरे ॥
आजगाम द्वितीयश्च क्रांत्वा पृथ्वीं सुतस्तदा

2.4.20.2.4.20.10

तावश्च नारदेनैव प्राप्तो गेहे महात्मना॥
यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात्

2.4.20.11

पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ॥
तन्न कुर्य्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम्

2.4.20.12

निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ॥
गणेशस्य वरोकारि विवाहः परशोभनः

2.4.20.13

गणेशस्य कृतोद्वाहो लब्धवांस्स्त्रीद्वयं मुदा ॥
विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम्

2.4.20.14

पुत्रद्वयं ललाभासौ द्वयोः पत्न्योश्शुभांगयोः ॥
सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वं सुखप्रदम्

2.4.20.15

पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ॥
मातापित्रोर्मतेनैव सुखं भुंक्ते निरंतरम्

2.4.20.16

भवता पृथिवी क्रांता ससमुद्रा सकानना॥
तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम्

2.4.20.17

पितृभ्यां क्रियतास्मैवच्छलं तात विचार्यताम् ॥
स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै

2.4.20.18

असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ॥
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम्

2.4.20.19

दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ॥
राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै

2.4.20.2.4.20.20

येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ॥
शांतिकामस्सुधीस्तात तन्मुखं न विलोकयेत्

2.4.20.21

इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ॥
निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु

2.4.20.22

ब्रह्मोवाच ॥
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ॥
तस्मै तथा कुमाराय वाक्यं मौनमुपागतः

2.4.20.23

स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ॥
जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि सन्

2.4.20.24

वारणे च कृते त्वद्य गम्यते च कथं त्वया ॥
इत्येवं च निषिद्धोपि प्रोच्य नेति जगाम सः

2.4.20.25

न स्थातव्यं मया तातौ क्षणमप्यत्र किंचन ॥
यद्येवं कपटं प्रीतिमपहाय कृतं मयि

2.4.20.26

एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ॥
दर्शनेनैव सर्वेषां लोकानां पापहारकः

2.4.20.27

तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ॥
शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम्

2.4.20.28

तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ॥
सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम्

2.4.20.29

कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः॥
दर्शनार्थं कुमारस्य गच्छंति च मुनीश्वराः

2.4.20.2.4.20.30

कार्तिक्यां कृत्तिकासंगे कुर्याद्यः स्वामिदर्शनम्॥
तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत्

2.4.20.31

उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ॥
उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो

2.4.20.32

तत्सुखार्थं स्वयं शंभुर्गतस्स्वांशेन पर्वते ॥
मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम्

2.4.20.33

अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ॥
सर्वेषां निजभक्तानां कामपूरस्सतां गतिः

2.4.20.34

तमागतं स विज्ञाय कुमारस्सशिवं शिवम् ॥
स विरज्य ततोऽन्यत्र गंतुमासीत्समुत्सुकः

2.4.20.35

देवैश्च मुनिभिश्चैव प्रार्थितस्सोपि दूरतः ॥
योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः

2.4.20.36

पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ॥
दर्शनार्थं कुमारस्य तस्य नारद गच्छतः

2.4.20.37

अमावास्यादिने शंभुः स्वयं गच्छति तत्र ह ॥
पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम्

2.4.20.38

यद्यत्तस्य च वृत्तांतं भवत्पृष्टं मुनीश्वर ॥
कार्तिकस्य गणेशस्य परमं कथितं मया

2.4.20.39

एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ॥
शोभनां लभते कामानीप्सितान्सकलान्सदा

2.4.20.2.4.20.40

यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा

2.4.20.41

ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ॥
वैश्यो धन समृद्धस्स्याच्छूद्रस्सत्समतामियात्

2.4.20.42

रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ॥
भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः

2.4.20.43

एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ॥
आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम्

2.4.20.44

अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ॥
शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम्

2.4.20.45

श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ॥
शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम्

2.4.20.20

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः

2.4.20.4

समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc