शिव पुराण · अध्याय 2.3.52
ब्रह्मोवाच ॥
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ॥
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ॥
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात्
अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ॥
भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि
शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ॥
सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ॥
मुदोपवेशयामास सत्पीठेषु गृहान्तरे
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ॥
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ॥
सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ॥
पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक्
नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक्॥
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः
देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ॥
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा॥
बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा
तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ॥
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा
एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ॥
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम्
मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ॥
गेहे निवासयामासुर्वासाख्ये परमोत्सवे
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ॥
सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम्
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ॥
रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम्
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः॥
मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत्
अनूपमम्महादिव्यं विचित्रं सुमनोहरम्॥
चित्ताह्लादकरं नानारचनारचितस्थलम्
शिवदत्तवरस्यैव प्रभावमतुलम्परम् ॥
दर्शयन्तं समुल्लासि शिवलोकाभिधानकम्
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ॥
चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम्
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ॥
रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ॥
कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित्
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ॥
कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम्
एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ॥
प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह
तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ॥
अशयिष्ट मुदा युक्तो लीलया परमेश्वरः
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ॥
सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ॥
व्यतीता रजनी सर्वा प्रातःकालो बभूव ह
अथ प्रभातकाले च धृत्युत्साहपरायणाः ॥
नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः
सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ॥
स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः
स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ॥
कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः
वासगेहमथागत्य धर्मो नारायणाज्ञया ॥
उवाच शंकरं योगी योगीशं समयोचितम्
॥ धर्म उवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ॥
जनावासं समागच्छ कृतार्थं कुरु तत्र तान्
॥ ब्रह्मोवाच ॥
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ॥
ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह॥
अहमप्यागमिष्यामि द्रुतमेव न संशयः
॥ ब्रह्मोवाच ॥
इत्युक्तश्शंकरेणाथ जनावासं जगाम सः॥
स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः॥३५।
तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ॥
चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम्
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ॥
मेनामान्त्र्य कुध्रं च जनावासं जगाम सः
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥
वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥
हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ॥
वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत्
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0