भाषा

ENहिગુ
ग्रंथ पाठ

शिव पुराण · अध्याय 2.3.36

2.3.36.1

ब्रह्मोवाच ॥
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ॥
विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः

2.3.36.2

हिमालय उवाच ॥
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ॥
मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः

2.3.36.3

वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ॥
यथा तथा च शंसध्वं निर्णीय मनसाखिलम्

2.3.36.4

ब्रह्मोवाच ॥
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ॥
प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः

2.3.36.5

शैला ऊचुः ॥
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ॥
उत्पन्नेयं महाभाग देवकार्यार्थमेव हि

2.3.36.6

प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ॥
अनयाराधितो रुद्रो रुद्रेण यदि भाषिता

2.3.36.7

ब्रह्मोवाच॥
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ॥
सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि

2.3.36.8

अरुन्धती च तां मेनां बोधयामास कारणात् ॥
नानावाक्यसमूहेनेतिहासैर्विविधैरपि

2.3.36.9

अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ॥
मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च

2.3.36.2.3.36.10

अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ॥
उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः

2.3.36.11

हिमाचल उवाच ॥
सप्तर्षयो महाभागा वचः शृणुत मामकम् ॥
विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम्

2.3.36.12

।
मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ॥
ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा

2.3.36.13

॥ ब्रह्मोवाच ॥
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ॥
भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्

2.3.36.14

उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा॥।
अयं भागो मया तस्मै दातव्य इति निश्चितम्

2.3.36.15

॥ ऋषय ऊचुः ॥
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ॥
भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम्

2.3.36.16

हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ॥
धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः

2.3.36.17

॥ ब्रह्मोवाच ॥
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ॥
आशिषं दत्तवन्तस्ते शिवाय सुखदा भव

2.3.36.18

स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ॥
शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा

2.3.36.19

इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ॥
पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा

2.3.36.2.3.36.20

अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ॥
गुणैश्च लोभयामास शिवस्य परमा सती

2.3.36.21

हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ॥
लौकिकाचारमाधाय मंगलायनमुत्तमम्

2.3.36.22

ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ॥
परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्

2.3.36.23

तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ॥
ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम्

2.3.36.24

ऋषय ऊचुः ॥
देवदेव महादेव परमेश महाप्रभो ॥
शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव

2.3.36.25

बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ॥
सेतिहासं महेशान प्रबुद्धोसौ न संशयः

2.3.36.26

वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ॥
उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः

2.3.36.27

गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ॥
विवाहय यथा रीतिः पार्वतीमात्मजन्मने

2.3.36.28

॥ ब्रह्मोवाच ॥
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः॥
प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः

2.3.36.29

महेश उवाच ॥
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ॥
यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः

2.3.36.2.3.36.30

॥ ब्रह्मोवाच ॥
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ॥
प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम्

2.3.36.31

ऋषय ऊचुः ॥
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ॥
ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम्

2.3.36.32

तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ॥
सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान्

2.3.36.33

एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ॥
सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः

2.3.36.34

ब्रह्मोवाच ॥
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ॥
स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम्

2.3.36.36

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः

मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc