शिव पुराण · अध्याय 2.3.24
॥ देवा ऊचुः ॥
नमो रुद्राय देवाय मदनांतकराय च ॥
स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः॥
महादेवाय प्रभवे त्रिविष्टपतये नमः
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ॥
शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ॥
त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर ॥
ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ॥
कृपया परया युक्तो विज्ञप्तुं शंभुमारभत्
॥ नंदिकेश्वर उवाच ॥
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति ॥
कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः ॥
दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः
॥ ब्रह्मोवाच ॥
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम् ॥
शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी
ईशोऽथोपरतश्शंभुस्तदा परमकोविदः ॥
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह
शंभुरुवाच ॥
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः ॥
हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत्
ब्रह्मोवाच ॥
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः ॥
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे
अथ विष्णुर्महाभक्तो देवानां हितकारकः ॥
मदीरितमुवाचेदं सुरकार्यं महत्तरम्
तारकेण कृतं शंभो देवानां परमाद्भुतम् ॥
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः
हे शंभो तव पुत्रेणौरसेन हि भविष्यति॥
निहतस्तारको दैत्यो नान्यथा मम भाषितम्
विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ॥
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात्
तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन ॥
पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ॥
दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः
शिव उवाच ॥
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी ॥
तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ॥
जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम्
मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये ॥।
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ॥
सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ॥
सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम्
यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः ॥
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम्
यूयं समाधिना तेन मदनेन विना सुराः ॥
परमानंदसंयुक्ता निर्विकारा भवंतु वै
पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे ॥
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम्
महाधनुर्धरेणैव मदनेन हठात्सुराः ॥
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा
कामो हि नरकायैव तस्मात् क्रोधोभिजायते ॥
क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः
कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः ॥
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित्
॥ ब्रह्मोवाच ॥
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ॥
सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम्
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः ॥
आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः
स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत् ॥
निरंजनं निराभासं निर्विकारं निरामयम्
परात्परतरं नित्यं निर्ममं निरवग्रहम् ॥
शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम्
एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः ॥
परमानंदसंमग्नो बभूव बहुसूतिकृत्
ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः ॥
हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः
॥ देवा ऊचुः ॥
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ॥
शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः
केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप ॥
तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ।
॥ ब्रह्मोवाच ।!
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ॥
प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः
नंदीश्वर उवाच ॥
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ॥
शृणुध्वं वचनं मे हि शिवसंतोषकारकम्
यदि वो हठ एवाद्य शिव दारपरिग्रहे ॥
अतिदीनतया सर्वे सुनुतिं कुरुतादरात्
भक्तेर्वश्यो महादेवो न साधारणतस्तुराः ॥
अकार्यमपि सद्भक्त्या करोति परमेश्वरः
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ॥
यथागतेन मार्गेणान्यथा गच्छत मा चिरम्
ब्रह्मोवाच ॥
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः ॥
तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते
देवदेव महादेव करुणासागर प्रभो ॥
समुद्धर महाक्लेशात्त्राहि नश्शरणागतान्
ब्रह्मोवाच ॥
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः ॥
रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ॥
संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः
ब्रह्मोवाच ॥
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम् ॥
भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ॥
विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः
शंकर उवाच ॥
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे ॥
किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः
हरिरुवाच ॥
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः ॥
किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात्
तारकासुरतो दुःखं संभूतं विविधं मृड ॥
सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ॥
तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ॥
तदन्यस्मादमृत्युस्स बाधते निखिलं जगत्
नारदस्य निर्देशात्सा करोति कठिनं तपः ॥
तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम्
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ॥
देवदुःखं जहि स्वामिन्नस्माकं सुखमावह
देवानां मे महोत्साहो हृदये चास्ति शंकर ॥
विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम्
रत्यै यद्भवता दत्तो वरस्तस्य परात्पर ॥
प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु
ब्रह्मोवाच ॥
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ॥
संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः
भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ॥
विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः
॥ शंकर उवाच ॥
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः ॥
यथोचितमहं वच्मि सविशेषं विवेकतः
नोचितं हि विधानं वै विवाहकरणं नृणाम् ॥
महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥2.3.24.६०।
कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः ॥
उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ॥
स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन
वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः ॥
विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः
सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ॥
विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते
जनो विषयिणा साकं वार्तातः पतति क्षणात् ॥
विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम्
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ॥
तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत् ॥
अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये
कामरूपाधिपस्यैव पणश्च सफलः कृतः ॥
सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि । ६८ ॥
गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः ॥
तत्कष्टप्रददुष्टानां शापदायी विशेषतः
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ॥
देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ॥
विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन्
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ॥
मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ॥
तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा
जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम्॥
असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम्
नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ॥
विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे
गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः ॥
कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा
॥ ब्रह्मोवाच ॥
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ॥
सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0