शिव पुराण · अध्याय 2.2.39
ब्रह्मोवाच ॥
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ॥
विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १॥
दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः॥
क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः
विष्णुरुवाच ॥
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ॥
वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति
ब्रह्मोवाच ॥
याचितो देवदेवेन दधीचश्शैवसत्तमः ॥
क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम्
दधीच उवाच ॥
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ॥
भगवान् विप्ररूपेण मायी त्वमसि वै हरिः
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥
ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम
त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ॥
आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना
जाने तवैव भगवन् भक्तवत्सलतां हरे ॥
छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम्
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ॥
वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम्
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ॥
न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि
विष्णुरुवाच ॥ ॥
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ॥
भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ॥
नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च
ब्रह्मोवाच ॥
एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ॥
विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः
दधीच उवाच ॥।
न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ॥
प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः
ब्रह्मोवाच ॥
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ॥
चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम्
अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ॥
प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि
दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ॥
दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम्
दधीच उवाच ॥ ॥
भगवन् भवता लब्धं पुरातीव सुदारुणम् ॥
सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥
भवस्य तच्छुभं चक्रं न जिघांसति मामिह
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ॥
ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि
ब्रह्मोवाच ॥
स तस्य वचनं श्रुत्वा दृष्ट्वा निर्वीर्य्यमानुषम् ॥
ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः
चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ॥
द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ॥
दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः
कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ॥
ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ॥
दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ॥
प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम्
नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ॥
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ।
देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ॥
तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥
आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान्
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ॥
मुनिनैकेन देवर्षे दधीचेन शिवात्मना
ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ॥
ददाह सहसा सर्वान् दधी चश्शैव सत्तमः
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ॥
विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ॥
दधीचो देवतादीनां जीवानां च सहस्रकम्
भूतानां कोटयश्चैव गणानां कोटयस्तथा ॥
अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा
दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ॥
विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम्
दधीच उवाच ॥
मायां त्यज महाबाहो प्रतिभासो विचारतः ॥
विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव
मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ॥
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते
॥ ब्रह्मोवाच ॥
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ॥
ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः
ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ॥
संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः
दधीच उवाच ॥
मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ॥
सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः
ब्रह्मोवाच ॥
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा॥
शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम्
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ॥
योद्धुकामाश्च मुनिना दधीचेन प्रतापिना
एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ॥
अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान्
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ॥
जगाम निकटं तस्य प्रणनाम मुनिं हरिः
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ॥
दधीचमभिवाद्यैव प्रार्थयामास विक्लवः
क्षुव उवाच ॥
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ॥
प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ॥
अनुजग्राह तं विप्रो दधीचस्तपसां निधिः
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ॥
हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि
दधीच उवाच ॥
रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ॥
ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः
॥ ब्रह्मोवाच ॥ ॥
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ॥
देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥
इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम्
दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ॥
विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम्
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ॥
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात्
कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ॥
नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना
य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ॥
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ॥
मृत्युभीतिभवेन्नैव विजयी च भविष्यति
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः
मूल पाठ: śivapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0